Skip to main content
पडताळणी प्रलंबित

श्री दुर्गा आपदुद्धारक स्तोत्रम्

नमस्ते शरण्ये शिवे सानुकम्पे

नमस्ते जगद्व्यापिके विश्वरूपे ।

नमस्ते जगद्वन्द्यपादारविन्दे

नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ १ ॥

नमस्ते जगच्चिन्त्यमानस्वरूपे

नमस्ते महायोगिनि ज्ञानरूपे ।

नमस्ते नमस्ते सदानन्दरूपे

नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ २ ॥

अनाथस्य दीनस्य तृष्णातुरस्य

भयार्तस्य भीतस्य बद्धस्य जन्तोः ।

त्वमेका गतिर्देवि निस्तारकर्त्री

नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ३ ॥

अरण्ये रणे दारुणे शत्रुमध्ये-

-ऽनले सागरे प्रान्तरे राजगेहे ।

त्वमेका गतिर्देवि निस्तारनौका

नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ४ ॥

अपारे महादुस्तरेऽत्यन्तघोरे

विपत्सागरे मज्जतां देहभाजाम् ।

त्वमेका गतिर्देवि निस्तारहेतु-

-र्नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ५ ॥

नमश्चण्डिके चण्डदुर्दण्डलीला-

समुत्खण्डिता खण्डिता शेषशत्रोः ।

त्वमेका गतिर्देवि निस्तारबीजं

नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ६ ॥

त्वमेका सदाराधिता सत्यवादि-

-न्यनेकाखिला क्रोधनात्क्रोधनिष्ठा ।

इडा पिङ्गला त्वं सुषुम्ना च नाडी

नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ७ ॥

नमो देवि दुर्गे शिवे भीमनादे

सदासर्वसिद्धिप्रदातृस्वरूपे ।

विभूतिः शची कालरात्री सती त्वं

नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ८ ॥

शरणमसि सुराणां सिद्धविद्याधराणां

मुनिमनुजपशूनां दस्युभिस्त्रासितानाम् ।

नृपतिगृहगतानां व्याधिभिः पीडितानां

त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥ ९ ॥

इदं स्तोत्रं मया प्रोक्तमापदुद्धारहेतुकम् ।

त्रिसन्ध्यमेकसन्ध्यं वा पठनाद्घोरसङ्कटात् ॥ १० ॥

मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले ।

सर्वं वा श्लोकमेकं वा यः पठेद्भक्तिमान् सदा ॥ ११ ॥

स सर्वं दुष्कृतं त्यक्त्वा प्राप्नोति परमं पदम् ।

पठनादस्य देवेशि किं न सिद्ध्यति भूतले ।

स्तवराजमिदं देवि सङ्क्षेपात्कथितं मया ॥ १२ ॥

इति श्रीसिद्धेश्वरीतन्त्रे उमामहेश्वरसंवादे श्री दुर्गा आपदुद्धार स्तोत्रम् ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri durga apaduddharaka stotram