Skip to main content
पडताळणी प्रलंबित

श्री सुब्रह्मण्य पञ्चरत्नम्

षडाननं चन्दनलेपिताङ्गं

महोरसं दिव्यमयूरवाहनम् ।

रुद्रस्यसूनुं सुरलोकनाथं

ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ १ ॥

जाज्वल्यमानं सुरबृन्दवन्द्यं

कुमारधारातट मन्दिरस्थम् ।

कन्दर्परूपं कमनीयगात्रं

ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ २ ॥

द्विषड्भुजं द्वादशदिव्यनेत्रं

त्रयीतनुं शूलमसी दधानम् ।

शेषावतारं कमनीयरूपं

ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ३ ॥

सुरारिघोराहवशोभमानं

सुरोत्तमं शक्तिधरं कुमारम् ।

सुधार शक्त्यायुध शोभिहस्तं

ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ४ ॥

इष्टार्थसिद्धिप्रदमीशपुत्रं

इष्टान्नदं भूसुरकामधेनुम् ।

गङ्गोद्भवं सर्वजनानुकूलं

ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ५ ॥

यः श्लोकपञ्चकमिदं पठतीह भक्त्या

ब्रह्मण्यदेव विनिवेशित मानसः सन् ।

प्राप्नोति भोगमखिलं भुवि यद्यदिष्टं

अन्ते स गच्छति मुदा गुहसाम्यमेव ॥ ६ ॥

इति श्री सुब्रह्मण्य पञ्चरत्नम् ।

subrahmanya pancharatnam in hindi