Skip to main content
पडताळणी प्रलंबित

श्री मातङ्गी स्तोत्रम्

ईश्वर उवाच ।

आराध्य मातश्चरणाम्बुजे ते

ब्रह्मादयो विस्तृतकीर्तिमापुः ।

अन्ये परं वा विभवं मुनीन्द्राः

परां श्रियं भक्तिभरेण चान्ये ॥ १

नमामि देवीं नवचन्द्रमौले-

-र्मातङ्गिनीं चन्द्रकलावतंसाम् ।

आम्नायप्राप्तिप्रतिपादितार्थं

प्रबोधयन्तीं प्रियमादरेण ॥ २ ॥

विनम्रदेवासुरमौलिरत्नै-

-र्नीराजितं ते चरणारविन्दम् ।

भजन्ति ये देवि महीपतीनां

व्रजन्ति ते सम्पदमादरेण ॥ ३ ॥

कृतार्थयन्तीं पदवीं पदाभ्या-

-मास्फालयन्तीं कृतवल्लकीं ताम् ।

मातङ्गिनीं सद्धृदयां धिनोमि

लीलांशुकां शुद्धनितम्बबिम्बाम् ॥ ४ ॥

तालीदलेनार्पितकर्णभूषां

माध्वीमदोद्घूर्णितनेत्रपद्माम् ।

घनस्तनीं शम्भुवधूं नमामि

तटिल्लताकान्तिमनर्घ्यभूषाम् ॥ ५ ॥

चिरेण लक्ष्यं नवलोमराज्या

स्मरामि भक्त्या जगतामधीशे ।

वलित्रयाढ्यं तम मध्यमम्ब

नीलोत्पलांशुश्रियमावहन्त्याः ॥ ६ ॥

कान्त्या कटाक्षैः कमलाकराणां

कदम्बमालाञ्चितकेशपाशम् ।

मातङ्गकन्यां हृदि भावयामि

ध्यायेयमारक्तकपोलबिम्बम् ॥ ७ ॥

बिम्बाधरन्यस्तललामवश्य-

-मालीललीलालकमायताक्षम् ।

मन्दस्मितं ते वदनं महेशि

स्तुत्यानया शङ्करधर्मपत्नीम् ॥ ८ ॥

मातङ्गिनीं वागधिदेवतां तां

स्तुवन्ति ये भक्तियुता मनुष्याः ।

परां श्रियं नित्यमुपाश्रयन्ति

परत्र कैलासतले वसन्ति ॥ ९ ॥

उद्यद्भानुमरीचिवीचिविलसद्वासो वसानां परां

गौरीं सङ्गतिपानकर्परकरामानन्दकन्दोद्भवाम् ।

गुञ्जाहारचलद्विहारहृदयामापीनतुङ्गस्तनीं

मत्तस्मेरमुखीं नमामि सुमुखीं शावासनासेदुषीम् ॥ १० ॥

इति श्रीरुद्रयामले मातङ्गी स्तोत्रम् ।

sri mathangi stotram