Skip to main content
पडताळणी प्रलंबित

श्री कालिका अर्गल स्तोत्रम्

अस्य श्री कालिकार्गल स्तोत्रस्य भैरव ऋषिरनुष्टुप् छन्दः श्रीकालिका देवता मम सर्वसिद्धिसाधने विनियोगः ।

ओं नमस्ते कालिके देवि आद्यबीजत्रय प्रिये ।

वशमानय मे नित्यं सर्वेषां प्राणिनां सदा ॥ १ ॥

कूर्चयुग्मं ललाटे च स्थातु मे शववाहिना ।

सर्वसौभाग्यसिद्धिं च देहि दक्षिण कालिके ॥ २ ॥

भुवनेश्वरि बीजयुग्मं भ्रूयुगे मुण्डमालिनी ।

कन्दर्परूपं मे देहि महाकालस्य गेहिनि ॥ ३ ॥

दक्षिणे कालिके नित्ये पितृकाननवासिनि ।

नेत्रयुग्मं च मे देहि ज्योतिरालेपनं महत् ॥ ४ ॥

श्रवणे च पुनर्लज्जाबीजयुग्मं मनोहरम् ।

महाश्रुतिधरत्वं च मे देहि मुक्त कुन्तले ॥ ५ ॥

ह्रीं ह्रीं बीजद्वयं देवि पातु नासापुटे मम ।

देहि नानाविधि मह्यं सुगन्धिं त्वं दिगम्बरे ॥ ६ ॥

पुनस्त्रिबीजप्रथमं दन्तोष्ठरसनादिकम् ।

गद्यपद्यमयीं वाजीं काव्यशास्त्राद्यलङ्कृताम् ॥ ७ ॥

अष्टादशपुराणानां स्मृतीनां घोरचण्डिके ।

कविता सिद्धिलहरीं मम जिह्वां निवेशय ॥ ८ ॥

वह्निजाया महादेवि घण्टिकायां स्थिरा भव ।

देहि मे परमेशानि बुद्धिसिद्धिरसायकम् ॥ ९ ॥

तुर्याक्षरी चित्स्वरूपा कालिका मन्त्रसिद्धिदा ।

सा च तिष्ठतु हृत्पद्मे हृदयानन्दरूपिणी ॥ १० ॥

षडक्षरी महाकाली चण्डकाली शुचिस्मिता ।

रक्तासिनी घोरदंष्ट्रा भुजयुग्मे सदाऽवतु ॥ ११ ॥

सप्ताक्षरी महाकाली महाकालरतोद्यता ।

स्तनयुग्मे सूर्यकर्णो नरमुण्डसुकुन्तला ॥ १२ ॥

तिष्ठ स्वजठरे देवि अष्टाक्षरी शुभप्रदा ।

पुत्रपौत्रकलत्रादि सुहृन्मित्राणि देहि मे ॥ १३ ॥

दशाक्षरी महाकाली महाकालप्रिया सदा ।

नाभौ तिष्ठतु कल्याणी श्मशानालयवासिनी ॥ १४ ॥

चतुर्दशार्णवा या च जयकाली सुलोचना ।

लिङ्गमध्ये च तिष्ठस्व रेतस्विनी ममाङ्गके ॥ १५ ॥

गुह्यमध्ये गुह्यकाली मम तिष्ठ कुलाङ्गने ।

सर्वाङ्गे भद्रकाली च तिष्ठ मे परमात्मिके ॥ १६ ॥

कालि पादयुगे तिष्ठ मम सर्वमुखे शिवे ।

कपालिनी च या शक्तिः खड्गमुण्डधरा शिवा ॥ १७ ॥

पादद्वयाङ्गुलिष्वङ्गे तिष्ठ स्वपापनाशिनि ।

कुल्लादेवी मुक्तकेशी रोमकूपेषु वै मम ॥ १८ ॥

तिष्ठतु उत्तमाङ्गे च कुरुकुल्ला महेश्वरी ।

विरोधिनी विरोधे च मम तिष्ठतु शङ्करी ॥ १९ ॥

विप्रचित्ते महेशानि मुण्डधारिणि तिष्ठ माम् ।

मार्गे दुर्मार्गगमने उग्रा तिष्ठतु सर्वदा ॥ २० ॥

प्रभादिक्षु विदिक्षु माम् दीप्तां दीप्तं करोतु माम् ।

नीलाशक्तिश्च पाताले घना चाकाशमण्डले ॥ २१ ॥

पातु शक्तिर्बलाका मे भुवं मे भुवनेश्वरी ।

मात्रा मम कुले पातु मुद्रा तिष्ठतु मन्दिरे ॥ २२ ॥

मिता मे योगिनी या च तथा मित्रकुलप्रदा ।

सा मे तिष्ठतु देवेशि पृथिव्यां दैत्यदारिणी ॥ २३ ॥

ब्राह्मी ब्रह्मकुले तिष्ठ मम सर्वार्थदायिनी ।

नारायणी विष्णुमाया मोक्षद्वारे च तिष्ठ मे ॥ २४ ॥

माहेश्वरी वृषारूढा काशिकापुरवासिनी ।

शिवतां देहि चामुण्डे पुत्रपौत्रादि चानघे ॥ २५ ॥

कौमारी च कुमाराणां रक्षार्थं तिष्ठ मे सदा ।

अपराजिता विश्वरूपा जये तिष्ठ स्वभाविनी ॥ २६ ॥

वाराही वेदरूपा च सामवेदपरायणा ।

नारसिंही नृसिंहस्य वक्षःस्थलनिवासिनी ॥ २७ ॥

सा मे तिष्ठतु देवेशि पृथिव्यां दैत्यदारिणी ।

सर्वेषां स्थावरादीनां जङ्गमानां सुरेश्वरी ॥ २८ ॥

स्वेदजोद्भिजाण्डजानां चराणां च भयादिकम् ।

विनाश्याप्यभिमतिं च देहि दक्षिण कालिके ॥ २९ ॥

य इदं चार्गलं देवि यः पठेत्कालिकार्चने ।

सर्वसिद्धिमवाप्नोति खेचरो जायते तु सः ॥ ३० ॥

इति श्री काली अर्गल स्तोत्रम् ।

sri kalika argala stotram