Skip to main content
पडताळणी प्रलंबित

श्री प्रत्यङ्गिरा आपन्निवारण स्तुतिः

प्रत्यङ्गिरे महाकृत्ये दुस्तरापन्निवारिणि ।

सकलापन्निवृत्तिं मे सर्वदा कुरु सर्वदे ॥ १ ॥

प्रत्यङ्गिरे जगन्मातर्जयश्री परमेश्वरि ।

तीव्रदारिद्र्यदुःखं मे क्षिप्रमेव हराम्बिके ॥ २ ॥

प्रत्यङ्गिरे महामाये भीमे भीमपराक्रमे ।

मम शत्रूनशेषांस्त्वं दुष्टान्नाशय नाशय ॥ ३ ॥

प्रत्यङ्गिरे महदेवि ज्वालामालोज्ज्वलानने ।

क्रूरग्रहानशेषान् त्वं दह खादाग्निलोचने ॥ ४ ॥

प्रत्यङ्गिरे महाघोरे परमन्त्रांश्च कृत्रिमान् ।

परकृत्या यन्त्र तन्त्रजालं छेदय छेदय ॥ ५ ॥

प्रत्यङ्गिरे विशालाक्षि परात्परतरे शिवे ।

देहि मे पुत्रपौत्रादि पारम्पर्योछ्छ्रितां श्रियम् ॥ ६ ॥

प्रत्यङ्गिरे महादुर्गे भोगमोक्षफलप्रदे ।

सकलाभीष्टसिद्धिं मे देहि सर्वेश्वरेश्वरि ॥ ७ ॥

प्रत्यङ्गिरे महादेवि महादेवमनःप्रिये ।

मङ्गलं मे प्रयच्छाशु मनसा त्वां नमाम्यहम् ॥ ८ ॥

इति श्री प्रत्यङ्गिरा आपन्निवारण स्तुतिः ।

sri pratyangira apannivarana stuti