Skip to main content
पडताळणी प्रलंबित

पञ्चस्तवि – २

सौन्दर्यविभ्रमभुवो भुवनाधिपत्य-

-सङ्कल्पकल्पतरवस्त्रिपुरे जयन्ति ।

एते कवित्वकुमदप्रकरावबोध-

-पूर्णेन्दवस्त्वयि जगज्जननि प्रणामाः ॥ १ ॥

देवि स्तुतिव्यतिकरे कृतबुद्धयस्ते

वाचस्पति प्रभृतयोऽपि जडी भवन्ति ।

तस्मान्निसर्गजडिमा कतमोऽहमत्र

स्तोत्रं तव त्रिपुरतापनपत्नि कर्तुम् ॥ २ ॥

मातस्तथापि भवतीं भवतीव्रताप-

-विच्छित्तये स्तुतिमहार्णव कर्णधारः ।

स्तोतुं भवानि स भवच्चरणारविन्द-

-भक्तिग्रहः किमपि मां मुखरी करोति ॥ ३ ॥

सूते जगन्ति भवती भवती बिभर्ति

जागर्ति तत्क्षयकृते भवती भवानि ।

मोहं भिनत्ति भवती भवती रुणद्धि

लीलायितं जयति चित्रमिदं भवत्याः ॥ ४ ॥

यस्मिन्मनागपि नवाम्बुजपत्रगौरीं

गौरीं प्रसादमधुरां दृशमादधासि ।

तस्मिन्निरन्तरमनङ्गशरावकीर्ण-

-सीमन्तिनीनयनसन्ततयः पतन्ति ॥ ५ ॥

पृथ्वीभुजोऽप्युदयनप्रभवस्य तस्य

विद्याधर प्रणति चुम्बित पादपीठः ।

तच्चक्रवर्तिपदवीप्रणयः स एषः

त्वत्पादपङ्कजरजः कणजः प्रसादः ॥ ६ ॥

त्वत्पादपङ्कजरज प्रणिपातपूर्वैः

पुण्यैरनल्पमतिभिः कृतिभिः कवीन्द्रैः ।

क्षीरक्षपाकरदुकूलहिमावदाता

कैरप्यवापि भुवनत्रितयेऽपि कीर्तिः ॥ ७ ॥

कल्पद्रुमप्रसवकल्पितचित्रपूजां

उद्दीपित प्रियतमामदरक्तगीतिम् ।

नित्यं भवानि भवतीमुपवीणयन्ति

विद्याधराः कनकशैलगुहागृहेषु ॥ ८ ॥

लक्ष्मीवशीकरणकर्मणि कामिनीनां

आकर्षणव्यतिकरेषु च सिद्धमन्त्रः ।

नीरन्ध्रमोहतिमिरच्छिदुरप्रदीपो

देवि त्वदङ्घ्रिजनितो जयति प्रसादः ॥ ९ ॥

देवि त्वदङ्घ्रिनखरत्नभुवो मयूखाः

प्रत्यग्रमौक्तिकरुचो मुदमुद्वहन्ति ।

सेवानतिव्यतिकरे सुरसुन्दरीणां

सीमन्तसीम्नि कुसुमस्तबकायितं यैः ॥ १० ॥

मूर्ध्नि स्फुरत्तुहिनदीधितिदीप्तिदीप्तं

मध्ये ललाटममरायुधरश्मिचित्रम् ।

हृच्चक्रचुम्बि हुतभुक्कणिकानुकारि

ज्योतिर्यदेतदिदमम्ब तव स्वरूपम् ॥ ११ ॥

रूपं तव स्फुरितचन्द्रमरीचिगौरं

आलोकते शिरसि वागधिदैवतं यः ।

निःसीमसूक्तिरचनामृतनिर्झरस्य

तस्य प्रसादमधुराः प्रसरन्ति वाचः ॥ १२ ॥

सिन्दूरपांसुपटलच्छुरितामिव द्यां

त्वत्तेजसा जतुरसस्नपितामिवोर्वीम् ।

यः पश्यति क्षणमपि त्रिपुरे विहाय

व्रीडां मृडानि सुदृशस्तमनुद्रवन्ति ॥ १३ ॥

मातर्मुहूर्तमपि यः स्मरति स्वरूपं

लाक्षारसप्रसरतन्तुनिभं भवत्याः ।

ध्यायन्त्यनन्यमनसस्तमनङ्गतप्ताः

प्रद्युम्नसीम्नि सुभगत्वगुणं तरुण्यः ॥ १४ ॥

योऽयं चकास्ति गगनार्णवरत्नमिन्दुः

योऽयं सुरासुरगुरुः पुरुषः पुराणः ।

यद्वाममर्धमिदमन्धकसूदनस्य

देवि त्वमेव तदिति प्रतिपादयन्ति ॥ १५ ॥

इच्छानुरूपमनुरूपगुणप्रकर्ष

सङ्कर्षिणि त्वमभिमृश्य यदा बिभर्षि ।

जायेत स त्रिभुवनैक गुरुस्तदानीं

देवः शिवोऽपि भुवनत्रयसूत्रधारः ॥ १६ ॥

ध्यातासि हैमवति येन हिमांशुरश्मि-

-मालामलद्युतिरकल्मषमानसेन ।

तस्याविलम्बमनवद्यमनन्तकल्पं

अल्पैर्दिनैः सृजसि सुन्दरि वाग्विलासम् ॥ १७ ॥

आधारमारुतनिरोधवशेन येषां

सिन्दूररञ्जितसरोजगुणानुकारि ।

दीप्तं हृदि स्फुरति देवि वपुस्त्वदीयं

ध्यायन्ति तानिह समीहितसिद्धिसार्थाः ॥ १८ ॥

ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति

रूपं तवाम्ब नवयावकपङ्कपिङ्गम् ।

तेषां सदैव कुसुमायुधबाणभिन्न-

-वक्षःस्थला मृगदृशो वशगा भवन्ति ॥ १९ ॥

त्वामैन्दवीमिव कलामनुफालदेशं

उद्भासिताम्बरतलामवलोकयन्तः ।

सद्यो भवानि सुधियः कवयो भवन्ति

त्वं भावनाहितधियां कुलकामधेनुः ॥ २० ॥

शर्वाणि सर्वजनवन्दितपादपद्मे

पद्मच्छदद्युतिविडम्बितनेत्रलक्ष्मि ।

निष्पापमूर्तिजनमानसराजहंसि

हंसि त्वमापदमनेकविधां जनस्य ॥ २१ ॥

उत्तप्तहेमरुचिरे त्रिपुरे पुनीहि

चेतश्चिरन्तनमघौघवनं लुनीहि ।

कारागृहे निगलबन्धनयन्त्रितस्य

त्वत्संस्मृतौ झटिति मे निगलास्त्रुटन्ति ॥ २२ ॥

त्वां व्यापिनीति सुमना इति कुण्डलीति

त्वां कामिनीति कमलेति कलावतीति ।

त्वां मालिनीति ललितेत्यपराजितेति

देवि स्तुवन्ति विजयेति जयेत्युमेति ॥ २३ ॥

उद्दामकामपरमार्थसरोजखण्ड-

चण्डद्युतिद्युतिमपासितषड्विकाराम् ।

मोहद्विपेन्द्रकदनोद्यतबोधसिंह-

-लीलागुहां भगवतीं त्रिपुरां नमामि ॥ २४ ॥

गणेशवटुकस्तुता रतिसहायकामान्विता

स्मरारिवरविष्टरा कुसुमबाणबाणैर्युता ।

अनङ्गकुसुमादिभिः परिवृता च सिद्धैस्त्रिभिः

कदम्बवनमध्यगा त्रिपुरसुन्दरी पातु नः ॥ २५ ॥

रुद्राणि विद्रुममयीं प्रतिमामिव त्वां

ये चिन्तयन्त्यरुणकान्तिमनन्यरूपाम् ।

तानेत्य पक्ष्मलदृशः प्रसभं भजन्ते

कण्ठावसक्तमृदुबाहुलतास्तरुण्यः ॥ २६ ॥

त्वद्रूपैकनिरूपणप्रणयिताबन्धो दृशोस्त्वद्गुण-

-ग्रामाकर्णनरागिता श्रवणयोस्त्वत्संस्मृतिश्चेतसि ।

त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तितं वाचि मे

कुत्रापि त्वदुपासनव्यसनिता मे देवि मा शाम्यतु ॥ २७ ॥

त्वद्रूपमुल्लसितदाडिमपुष्परक्तं

उद्भावयेन्मदनदैवतमक्षरं यः ।

तं रूपहीनमपि मन्मथनिर्विशेषं

आलोकयन्त्युरुनितम्बतटास्तरुण्यः ॥ २८ ॥

ब्रह्मेन्द्ररुद्रहरिचन्द्रसहस्ररश्मि-

-स्कन्दद्विपाननहुताशनवन्दितायै ।

वागीश्वरि त्रिभुवनेश्वरि विश्वमातः

अन्तर्बहिश्च कृतसंस्थितये नमस्ते ॥ २९ ॥

कस्तोत्रमेतदनुवासरमीश्वरायाः

श्रेयस्करं पठति वा यदि वा शृणोति ।

तस्येप्सितं फलति राजभिरीड्यतेऽसौ

जायेत स प्रियतमो मदिरेक्षणानाम् ॥ ३० ॥

इति श्रीकालिदास विरचित पञ्चस्तव्यां द्वितीयः चर्चास्तवः ।

पञ्चस्तवि ३. घटस्तवः >>

panchastavi 2 charcha stava