Skip to main content
पडताळणी प्रलंबित

हेरम्ब स्तोत्रम्

गौर्युवाच ।

गजानन ज्ञानविहारकानि-

-न्न मां च जानासि परावमर्षाम् ।

गणेश रक्षस्व न चेच्छरीरं

त्यजामि सद्यस्त्वयि भक्तियुक्ता ॥ १ ॥

विघ्नेश हेरम्ब महोदर प्रिय

लम्बोदर प्रेमविवर्धनाच्युत ।

विघ्नस्य हर्ताऽसुरसङ्घहर्ता

मां रक्ष दैत्यात्त्वयि भक्तियुक्ताम् ॥ २ ॥

किं सिद्धिबुद्धिप्रसरेण मोह-

-युक्तोऽसि किं वा निशि निद्रितोऽसि ।

किं लक्षलाभार्थविचारयुक्तः

किं मां च विस्मृत्य सुसंस्थितोऽसि ॥ ३ ॥

किं भक्तसङ्गेन च देवदेव

नानोपचारैश्च सुयन्त्रितोऽसि ।

किं मोदकार्थे गणपाद्भृतोऽसि

नानाविहारेषु च वक्रतुण्ड ॥ ४ ॥

स्वानन्दभोगेषु परिहृतोऽसि

दासीं च विस्मृत्य महानुभाव ।

आनन्त्यलीलासु च लालसोऽसि

किं भक्तरक्षार्थसुसङ्कटस्थः ॥ ५ ॥

अहो गणेशामृतपानदक्षा-

-मरैस्तथा वासुरपैः स्मृतोऽसि ।

तदर्थनानाविधिसम्युतोऽसि

विसृज्य मां दासीमनन्यभावाम् ॥ ६ ॥

रक्षस्व मां दीनतमा परेश

सर्वत्र चित्तेषु च संस्थितस्त्वम् ।

प्रभो विलम्बेन विनायकोऽसि

ब्रह्मेश किं देव नमो नमस्ते ॥ ७ ॥

भक्ताभिमानीति च नाम मुख्यं

वेदे त्वभावान् नहि चेन्महात्मन् ।

आगत्य हत्वाऽदितिजं सुरेश

मां रक्ष दासीं हृदि पादनिष्ठाम् ॥ ८ ॥

अहो न दूरं तव किञ्चिदेव

कथं न बुद्धीश समागतोऽसि ।

सुचिन्त्यदेव प्रजहामि देहं

यशः करिष्ये विपरीतमेवम् ॥ ९ ॥

रक्ष रक्ष दयासिन्धोऽपराधान्मे क्षमस्व च ।

क्षणे क्षणे त्वहं दासी रक्षितव्या विशेषतः ॥ १० ॥

स्तुवत्यामेव पार्वत्यां शङ्करो बोधसम्युतः ।

बभूव गणपानां वै श्रुत्वा हाहारवं विधेः ॥ ११ ॥

गणेशं मनसा स्मृत्वा वृषारूढः समाययौ ।

क्षणेन दैत्यराजं तं दृष्ट्वा डमरुणा हनत् ॥ १२ ॥

ततः सोऽपि शिवं वीक्ष्यालिङ्गितुं धावितोऽभवत् ।

शिवस्य शूलिकादीनि शस्त्राणि कुण्ठितानि वै ॥ १३ ॥

तं दृष्ट्वा परमाश्चर्यं भयभीतो महेश्वरः ।

सस्मार गणपं सोऽपि निर्विघ्नार्थं प्रजापते ॥ १४ ॥

इति मुद्गलपुराणे हेरम्ब स्तोत्रम् ।

heramba ganapati stotram