Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती स्तोत्रम् – १

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।

विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ १ ॥

पद्मपत्रविशालाक्षि पद्मकेसरवर्णिनि ।

नित्यं पद्मालये देवि सा मां पातु सरस्वती ॥ २ ॥

सरस्वतीं सत्यवासां सुधांशुसमविग्रहाम् ।

स्फटिकाक्षस्रजं पद्मं पुस्तकं च शुकं करैः ॥ ३ ॥

चतुर्भिर्दधतीं देवीं चन्द्रबिम्बसमाननाम् ।

वल्लभामखिलार्थानां वल्लकीवादनप्रीत्याम् ॥ ४ ॥

भारतीं भावये देवीं भाषाणामधिदेवताम् ।

भावितां हृदये सद्भिः भामिनीं परमेष्ठिनः ॥ ५ ॥

चतुर्भुजां चन्द्रवर्णां चतुराननवल्लभाम् ।

आराधयामि वाणीं तां आश्रितार्थप्रदायिनीम् ॥ ६ ॥

कुन्दप्रसूनरदनां मन्दस्मितशुभाननाम् ।

गन्धर्वपूजितां वन्दे नीरजासनवल्लभाम् ॥ ७ ॥

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।

या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ८ ॥

बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे ।

मृडत्वं च हरेर्देवि त्राहि मां शरणागतम् ॥ ९ ॥

इति श्री सरस्वती स्तोत्रम् ॥

sri saraswati stotram 1