Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती स्तवम् (वासुदेवानन्दसरस्वती कृतम्)

जुषस्व बालवाक्यवत् स्तवं ममाम्ब भारती ।

असत्सदप्यदस्त्वयि भ्रमाद्विभाति केवले ॥ १ ॥

क्षराक्षरात्परं हि यत्त्वमेव तत्पदं ध्रुवम् ।

जले यथोर्मिबुद्बुदास्तथा त्वयीशजीवदृक् ॥ २ ॥

त्र्यधीश ओङ्कृतेऽखिलं त्वमेव चास्य मङ्गलम् ।

यदर्धमात्रमूर्जितं क्रियाविकारवर्जितम् ॥ ३ ॥

त्रिसप्तयागसाधिके सुभुक्तिमुक्तिदायके ।

स्वरार्णकारणे स्तवः स्वयं नु कैः कृतस्तव ॥ ४ ॥

प्रकाशकप्रकाशके श्रुतिश्रुतादिधारके ।

त्वमेव सर्वकारणं त्वमेव सर्वतारणम् ॥ ५ ॥

सुशक्तभक्तभावितं हि तेन सर्वथा ततम् ।

तदेव धाम ते वरं यदीक्ष्यते बुधैः परम् ॥ ६ ॥

स्थिराश्चराश्च गोचराः परत्र चात्र वाऽम्ब ये ।

त्वदेव तत्समागमः प्रमाणमत्र चागमः ॥ ७ ॥

नमोऽस्तु ते सरस्वति ध्यवित्रि वाजिनीवति ।

प्रसीद बुद्धिचेतने स्वभक्तहृन्निकेतने ॥ ८ ॥

स्तुतैवं विष्णुजिह्वा सा प्रसन्ना सूनृतेरका ।

प्राहाविष्कृत्य चात्मानं तुष्टास्मि वरयेप्सितम् ॥ ९ ॥

सकम्बलस्य कुरु मे सहायं शम्भुगायने ।

सुस्वरत्वादि यच्छेति ययाचेऽहिः सरस्वतीम् ॥ १० ॥

वागीशाहोभयोरस्तु दिव्यनादरहस्यमित् ।

स्तोत्रं चास्तु स्खलद्गीष्ट्वधीजाड्यादिहरं त्विदम् ॥ ११ ॥

इति श्रीवासुदेवानन्दसरस्वती विरचितं श्री सरस्वती स्तवम् ॥

sri saraswati stavam vasudevananda saraswati krutam