Skip to main content
पडताळणी प्रलंबित

मीनाक्षी स्तोत्रम्

श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते

श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके ।

श्रीवाणीगिरिजानुताङ्घ्रिकमले श्रीशाम्भवि श्रीशिवे

मध्याह्ने मलयध्वजाधिपसुते मां पाहि मीनाम्बिके ॥ १ ॥

चक्रस्थेऽचपले चराचरजगन्नाथे जगत्पूजिते

आर्तालीवरदे नताभयकरे वक्षोजभारान्विते ।

विद्ये वेदकलापमौलिविदिते विद्युल्लताविग्रहे

मातः पूर्णसुधारसार्द्रहृदये मां पाहि मीनाम्बिके ॥ २ ॥

कोटीराङ्गदरत्नकुण्डलधरे कोदण्डबाणाञ्चिते

कोकाकारकुचद्वयोपरिलसत्प्रालम्बहाराञ्चिते ।

शिञ्जन्नूपुरपादसारसमणीश्रीपादुकालङ्कृते

मद्दारिद्र्यभुजङ्गगारुडखगे मां पाहि मीनाम्बिके ॥ ३ ॥

ब्रह्मेशाच्युतगीयमानचरिते प्रेतासनान्तस्थिते

पाशोदङ्कुशचापबाणकलिते बालेन्दुचूडाञ्चिते ।

बाले बालकुरङ्गलोलनयने बालार्ककोट्युज्ज्वले

मुद्राराधितदैवते मुनिसुते मां पाहि मीनाम्बिके ॥ ४ ॥

गन्धर्वामरयक्षपन्नगनुते गङ्गाधरालिङ्गिते

गायत्रीगरुडासने कमलजे सुश्यामले सुस्थिते ।

खातीते खलदारुपावकशिखे खद्योतकोट्युज्ज्वले

मन्त्राराधितदैवते मुनिसुते मां पाही मीनाम्बिके ॥ ५ ॥

नादे नारदतुम्बुराद्यविनुते नादान्तनादात्मिके

नित्ये नीललतात्मिके निरुपमे नीवारशूकोपमे ।

कान्ते कामकले कदम्बनिलये कामेश्वराङ्कस्थिते

मद्विद्ये मदभीष्टकल्पलतिके मां पाहि मीनाम्बिके ॥ ६ ॥

वीणानादनिमीलितार्धनयने विस्रस्तचूलीभरे

ताम्बूलारुणपल्लवाधरयुते ताटङ्कहारान्विते ।

श्यामे चन्द्रकलावतंसकलिते कस्तूरिकाफालिके

पूर्णे पूर्णकलाभिरामवदने मां पाहि मीनाम्बिके ॥ ७ ॥

शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयी

नित्यानन्दमयी निरञ्जनमयी तत्त्वंमयी चिन्मयी ।

तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयी

सर्वैश्वर्यमयी सदाशिवमयी मां पाहि मीनाम्बिके ॥ ८ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ मीनाक्षी स्तोत्रम् ।

meenakshi stotram