Skip to main content
पडताळणी प्रलंबित

श्री बटुकभैरव स्तवराजः (अष्टोत्तरशतनाम स्तोत्रम् च)

कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।

शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ १

श्रीपार्वत्युवाच ।

भगवन् सर्वधर्मज्ञ सर्वशास्त्रागमादिषु ।

आपदुद्धारणं मन्त्रं सर्वसिद्धिप्रदं नृणाम् ॥ २

सर्वेषां चैव भूतानां हितार्थं वाञ्छितं मया ।

विशेषतस्तु राज्ञां वै शान्तिपुष्टिप्रसाधनम् ॥ ३

अङ्गन्यास करन्यास बीजन्यास समन्वितम् ।

वक्तुमर्हसि देवेश मम हर्षविवर्धनम् ॥ ४

श्रीभगवानुवाच ।

शृणु देवि महामन्त्रमापदुद्धारहेतुकम् ।

सर्वदुःखप्रशमनं सर्वशत्रुनिबर्हणम् ॥ ५

अपस्मारादिरोगाणां ज्वरादीनां विशेषतः ।

नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये ॥ ६

ग्रहराजभयानां च नाशनं सुखवर्धनम् ।

स्नेहाद्वक्ष्यामि ते मन्त्रं सर्वसारमिमं प्रिये ॥ ७

सर्वकामार्थदं मन्त्रं राज्यभोगप्रदं नृणाम् ।

प्रणवं पूर्वमुच्चार्य देवी प्रणवमुद्धरेत् ॥ ८

बटुकायेति वै पश्चादापदुद्धारणाय च ।

कुरु द्वयं ततः पश्चाद्बटुकाय पुनः क्षिपेत् ॥ ९

देवी प्रणवमुद्धृत्य मन्त्रराजमिमं प्रिये ।

मन्त्रोद्धारमिमं देवि त्रैलोक्यस्यापि दुर्लभम् ॥ १०

अप्रकाश्यमिमं मन्त्रं सर्वशक्तिसमन्वितम् ।

स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः ॥ ११

विद्रवन्ति भयार्ता वै कालरुद्रादिव प्रजाः ।

पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ॥ १२

नाग्निचौरभयं वापि ग्रहराजभयं तथा ।

न च मारीभयं तस्य सर्वत्र सुखवान् भवेत् ॥ १३

आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिसम्पदः ।

भवन्ति सततं तस्य पुस्तकस्यापि पूजनात् ॥ १४

श्रीपार्वत्युवाच ।

य एष भैरवो नाम आपदुद्धारको मतः ।

त्वया च कथितो देव भैरवः कल्प उत्तमः ॥ १५

तस्य नामसहस्राणि अयुतान्यर्बुदानि च ।

सारमुद्धृत्य तेषां वै नामाष्टशतकं वद ॥ १६

श्रीभगवानुवाच ।

यस्तु सङ्कीर्तयेदेतत् सर्वदुष्टनिबर्हणम् ।

सर्वान् कामानवाप्नोति साधकः सिद्धिमेव च ॥ १७

शृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः ।

आपदुद्धारकस्येह नामाष्टशतमुत्तमम् ॥ १८

सर्वपापहरं पुण्यं सर्वापद्विनिवारकम् ।

सर्वकामार्थदं देवि साधकानां सुखावहम् ॥ १९

देहाङ्गन्यसनं चैव पूर्वं कुर्यात् समाहितः ।

भैरवं मूर्ध्नि विन्यस्य ललाटे भीमदर्शनम् ॥ २०

अक्ष्णोर्भूताश्रयं न्यस्य वदने तीक्ष्णदर्शनम् ।

क्षेत्रपं कर्णयोर्मध्ये क्षेत्रपालं हृदि न्यसेत् ॥ २१

क्षेत्राख्यं नाभिदेशे च कट्यां सर्वाघनाशनम् ।

त्रिनेत्रमूर्वोर्विन्यस्य जङ्घयो रक्तपाणिकम् ॥ २२

पादयोर्देवदेवेशं सर्वाङ्गे वटुकं न्यसेत् ।

एवं न्यासविधिं कृत्वा तदनन्तरमुत्तमम् ॥ २३

नामाष्टशतकस्यापि छन्दोऽनुष्टुबुदाहृतम् ।

बृहदारण्यको नाम ऋषिश्च परिकीर्तितः ॥ २४

देवता कथिता चेह सद्भिर्वटुकभैरवः ।

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ २५

(अष्टोत्तरशतनाम स्तोत्रम्)

ओं भैरवो भूतनाथश्च भूतात्मा भूतभावनः ।

क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् ॥ २६

श्मशानवासी मांसाशी खर्पराशी मखान्तकृत् ।

रक्तपः प्राणपः सिद्धः सिद्धिदः सिद्धसेवितः ॥ २७

करालः कालशमनः कलाकाष्ठातनुः कविः ।

त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥ २८

शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः ।

अभीरुर्भैरवो भीरुर्भूतपो योगिनीपतिः ॥ २९

धनदो धनहारी च धनपः प्रतिभाववान् ।

नागहारो नागकेशो व्योमकेशः कपालभृत् ॥ ३०

कालः कपालमाली च कमनीयः कलानिधिः ।

त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकपात् ॥ ३१

त्रिवृत्तनयनो डिम्भः शान्तः शान्तजनप्रियः ।

वटुको वटुकेशश्च खट्वाङ्गवरधारकः ॥ ३२

भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः ।

धूर्तो दिगम्बरः सौरिर्हरिणः पाण्डुलोचनः ॥ ३३

प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः ।

अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तमोमयः ॥ ३४

अष्टाधारः कलाधारः सर्पयुक्तः शशीशिखः ।

भूधरो भूधराधीशो भूपतिर्भूधरात्मकः ॥ ३५

कङ्कालधारी मुण्डी च व्यालयज्ञोपवीतवान् ।

जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥ ३६

शुद्धनीलाञ्जनप्रख्यदेहो मुण्डविभूषितः ।

बलिभुक् बलिभूतात्मा कामी कामपराक्रमः ॥ ३७

सर्वापत्तारको दुर्गो दुष्टभूतनिषेवितः ।

कामी कलानिधिः कान्तः कामिनीवशकृद्वशी ।

सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुः प्रभाववान् ॥ ३८

(फलश्रुतिः)

अष्टोत्तरशतं नाम भैरवस्य महात्मनः ।

मया ते कथितं देवि रहस्यं सर्वकामिकम् ॥ ३९

य इदं पठति स्तोत्रम् नामाष्टशतमुत्तमम् ।

न तस्य दुरितं किञ्चन्न रोगेभ्यो भयं तथा ।

न शत्रुभ्यो भयं किञ्चित् प्राप्नोति मानवः क्वचित् ॥ ४०

पातकानां भयं नैव पठेत् स्तोत्रमनन्यधीः ।

मारीभये राजभये तथा चौराग्निजे भये ॥ ४१

औत्पातिके महाघोरे यथा दुःस्वप्नदर्शने ।

बन्धने च तथा घोरे पठेत् स्तोत्रम् समाहितः ॥ ४२

सर्वे प्रशमनं यान्ति भयाद्भैरवकीर्तनात् ।

एकादशसहस्रं तु पुरश्चरणमुच्यते ॥ ४३

त्रिसन्ध्यं यः पठेद्देवि संवत्सरमतन्द्रितः ।

स सिद्धिं प्राप्नुयादिष्टां दुर्लभमपि मानुषः ॥ ४४

षण्मासान् भूमिकामस्तु स जप्त्वा लभते महीम् ।

राजा शत्रुविनाशाय जपेन्मासाष्टकं पुनः ॥ ४५

रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् ।

जपेन्मासत्रयं रात्रौ राजानं वशमानयेत् ॥ ४६

धनार्थी च सुतार्थी च दारार्थी यस्तु मानवः ।

पठेद्वारत्रयं यद्वा वारमेकं तथा निशि ॥ ४७

धनं पुत्रांस्तथा दारान् प्राप्नुयान्नात्र संशयः ।

रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ ४८

भीतो भयात् प्रमुच्येत देवि सत्यं न संशयः ।

यान् यान् समी हते कामांस्तांस्तानाप्नोति निश्चितम् ।

अप्रकाश्यमिदं गुह्यं न देयं यस्य कस्यचित् ॥ ४९

सत्कुलीनाय शान्ताय ऋजवे दम्भवर्जिते ।

दद्यात् स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम् ।

ध्यानम् वक्ष्यामि देवस्य यथा ध्यात्वा पठेन्नरः ॥ ५०

ओं शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् ।

अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ॥ ५१

भुजङ्गमेखलं देवमग्निवर्णशिरोरुहम् ।

दिगम्बरं कुमारीशं वटुकाख्यं महाबलम् ॥ ५२

खट्वाङ्गमसिपाशं च शूलं चैव तथा पुनः ।

डमरुं च कपालं च वरदं भुजगं तथा ॥ ५३

नीलजीमूतसङ्काशं नीलाञ्जनचयप्रभम् ।

दंष्ट्राकरालवदनं नूपुराङ्गदभूषितम् ॥ ५४

आत्मवर्णसमोपेतसारमेयसमन्वितम् ।

ध्यात्वा जपेत् सुसंहृष्टः सर्वान् कामानवाप्नुयात् ॥ ५५

एतच्छ्रुत्वा ततो देवी नामाष्टशतमुत्तमम् ।

भैरवाय प्रहृष्टाभूत् स्वयं चैव महेश्वरी ॥ ५६

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरव स्तवराजः समाप्तः ॥

sri batuka bhairava stavaraja ashtottara shatanama stotram cha