Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती स्तोत्रम् (रुद्रयामले बृहस्पति कृतम्)

बृहस्पतिरुवाच ।

सरस्वति नमस्यामि चेतनां हृदि संस्थिताम् ।

कण्ठस्थां पद्मयोनिं त्वां ह्रीङ्कारां सुप्रियां सदा ॥ १ ॥

मतिदां वरदां चैव सर्वकामफलप्रदाम् ।

केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदाम् ॥ २ ॥

मन्त्रप्रियां सदा हृद्यां कुमतिध्वंसकारिणीम् ।

स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम् ॥ ३ ॥

मोक्षप्रियां शुभां नित्यां सुभगां शोभनप्रियाम् ।

पद्मोपविष्टां कुण्डलिनीं शुक्लवस्त्रां मनोहराम् ॥ ४ ॥

आदित्यमण्डले लीनां प्रणमामि जनप्रियाम् ।

ज्ञानाकारां जगद्द्वीपां भक्तविघ्नविनाशिनीम् ॥ ५ ॥

इति सत्यं स्तुता देवी वागीशेन महात्मना ।

आत्मानं दर्शयामास शरदिन्दुसमप्रभाम् ॥ ६ ॥

श्रीसरस्वत्युवाच ।

वरं वृणीष्व भद्रं त्वं यत्ते मनसि वर्तते ।

बृहस्पतिरुवाच ।

प्रसन्ना यदि मे देवि परं ज्ञानं प्रयच्छ मे ॥ ७ ॥

श्रीसरस्वत्युवाच ।

दत्तं ते निर्मलं ज्ञानं कुमतिध्वंसकारकम् ।

स्तोत्रेणानेन मां भक्त्या ये स्तुवन्ति सदा नराः ॥ ८ ॥

लभन्ते परमं ज्ञानं मम तुल्यपराक्रमाः ।

कवित्वं मत्प्रसादेन प्राप्नुवन्ति मनोगतम् ॥ ९ ॥

त्रिसन्ध्यं प्रयतो भूत्वा यस्त्विमं पठते नरः ।

तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ १० ॥

इति श्रीरुद्रयामले श्रीबृहस्पतिकृत श्री सरस्वती स्तोत्रम् ॥

sri saraswati stotram rudrayamale bruhaspati krutam