Skip to main content
पडताळणी प्रलंबित

श्री सुब्रह्मण्य कवच स्तोत्रम्

अस्य श्रीसुब्रह्मण्यकवचस्तोत्रमहामन्त्रस्य, ब्रह्मा ऋषिः, अनुष्टुप्छन्दः, श्रीसुब्रह्मण्यो देवता, ओं नम इति बीजं, भगवत इति शक्तिः, सुब्रह्मण्यायेति कीलकं, श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः –

ओं सां अङ्गुष्ठाभ्यां नमः ।

ओं सीं तर्जनीभ्यां नमः ।

ओं सूं मध्यमाभ्यां नमः ।

ओं सैं अनामिकाभ्यां नमः ।

ओं सौं कनिष्ठिकाभ्यां नमः ।

ओं सः करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः –

ओं सां हृदयाय नमः ।

ओं सीं शिरसे स्वाहा ।

ओं सूं शिखायै वषट् ।

ओं सैं कवचाय हुम् ।

ओं सौं नेत्रत्रयाय वौषट् ।

ओं सः अस्त्राय फट् ।

भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् ।

सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभिः

दिव्यैराभरणैर्विभूषिततनुं स्वर्गादिसौख्यप्रदम् ।

अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागोज्ज्वलं

सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥

लमित्यादि पञ्चपूजा ।

ओं लं पृथिव्यात्मने सुब्रह्मण्याय गन्धं समर्पयामि ।

ओं हं आकाशात्मने सुब्रह्मण्याय पुष्पाणि समर्पयामि ।

ओं यं वाय्वात्मने सुब्रह्मण्याय धूपमाघ्रापयामि ।

ओं रं अग्न्यात्मने सुब्रह्मण्याय दीपं दर्शयामि ।

ओं वं अमृतात्मने सुब्रह्मण्याय स्वादन्नं निवेदयामि ।

कवचम् ।

सुब्रह्मण्योऽग्रतः पातु सेनानीः पातु पृष्ठतः ।

गुहो मां दक्षिणे पातु वह्निजः पातु वामतः ॥ १ ॥

शिरः पातु महासेनः स्कन्दो रक्षेल्ललाटकम् ।

नेत्रे मे द्वादशाक्षश्च श्रोत्रे रक्षतु विश्वभृत् ॥ २ ॥

मुखं मे षण्मुखः पातु नासिकां शङ्करात्मजः ।

ओष्ठौ वल्लीपतिः पातु जिह्वां पातु षडाननः ॥ ३ ॥

देवसेनापतिर्दन्तान् चिबुकं बहुलोद्भवः ।

कण्ठं तारकजित्पातु बाहू द्वादशबाहुकः ॥ ४ ॥

हस्तौ शक्तिधरः पातु वक्षः पातु शरोद्भवः ।

हृदयं वह्निभूः पातु कुक्षिं पात्वम्बिकासुतः ॥ ५ ॥

नाभिं शम्भुसुतः पातु कटिं पातु हरात्मजः ।

ऊरू पातु गजारूढो जानू मे जाह्नवीसुतः ॥ ६ ॥

जङ्घे विशाखो मे पातु पादौ मे शिखिवाहनः ।

सर्वाण्यङ्गानि भूतेशः सर्वधातूंश्च पावकिः ॥ ७ ॥

सन्ध्याकाले निशीथिन्यां दिवा प्रातर्जलेऽग्निषु ।

दुर्गमे च महारण्ये राजद्वारे महाभये ॥ ८ ॥

तुमुले रण्यमध्ये च सर्वदुष्टमृगादिषु ।

चोरादिसाध्वसेऽभेद्ये ज्वरादिव्याधिपीडने ॥ ९ ॥

दुष्टग्रहादिभीतौ च दुर्निमित्तादिभीषणे ।

अस्त्रशस्त्रनिपाते च पातु मां क्रौञ्चरन्ध्रकृत् ॥ १० ॥

यः सुब्रह्मण्यकवचं इष्टसिद्धिप्रदं पठेत् ।

तस्य तापत्रयं नास्ति सत्यं सत्यं वदाम्यहम् ॥ ११ ॥

धर्मार्थी लभते धर्ममर्थार्थी चार्थमाप्नुयात् ।

कामार्थी लभते कामं मोक्षार्थी मोक्षमाप्नुयात् ॥ १२ ॥

यत्र यत्र जपेद्भक्त्या तत्र सन्निहितो गुहः ।

पूजाप्रतिष्ठाकाले च जपकाले पठेदिदम् ॥ १३ ॥

तेषामेव फलावाप्तिः महापातकनाशनम् ।

यः पठेच्छृणुयाद्भक्त्या नित्यं देवस्य सन्निधौ ।

सर्वान्कामानिह प्राप्य सोऽन्ते स्कन्दपुरं व्रजेत् ॥ १४ ॥

उत्तरन्यासः ॥

करन्यासः –

ओं सां अङ्गुष्ठाभ्यां नमः ।

ओं सीं तर्जनीभ्यां नमः ।

ओं सूं मध्यमाभ्यां नमः ।

ओं सैं अनामिकाभ्यां नमः ।

ओं सौं कनिष्ठिकाभ्यां नमः ।

ओं सः करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः –

ओं सां हृदयाय नमः ।

ओं सीं शिरसे स्वाहा ।

ओं सूं शिखायै वषट् ।

ओं सैं कवचाय हुम् ।

ओं सौं नेत्रत्रयाय वौषट् ।

ओं सः अस्त्राय फट् ।

भूर्भुवस्सुवरोमिति दिग्विमोकः ॥

इति श्री सुब्रह्मण्य कवच स्तोत्रम् ।

sri subrahmanya kavacha stotram in hindi