Skip to main content
पडताळणी प्रलंबित

श्री महात्रिपुरसुन्दरी षट्कम्

मनोज्ञमणिकुण्डलां महितचक्रराजालयां

मनोऽम्बुजविहारिणीं परशिवस्य वामाङ्कगाम् ।

महाहरिमुखामरप्रणतपादपङ्केरुहां

महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ १ ॥

मतङ्गमुनिपूजितां मथितपापसङ्घां जवा-

-न्मदारुणितलोचनां मदमुखारिनिर्वापिणीम् ।

मनःसु यमिनां सदा स्थितिविहारिणीं मोदतो

महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ २ ॥

विचित्रकविताप्रदां नतततेर्विलम्बं विना

विधीन्द्रहरिवन्दितां विधिनिषेधसक्तार्चिताम् ।

विनायकविभावसूद्भवविभासिपार्श्वद्वयां

महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ३ ॥

विनिन्दितविभावरीविटसहस्रगर्वाननां

विनिर्मितजगत्त्रयीं विधुसमानमन्दस्मिताम् ।

विबोधनपटीयसीं विनतसन्ततेः सत्वरं

महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ४ ॥

विमानचरमानिनीविहितपादसेवां मुदा

विशालनयनाम्बुजां विधृतचापपाशाङ्कुशाम् ।

विशुद्धिसरसीरुहे कृतनिजासनां सर्वदा

महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ५ ॥

विरागिजनसेवितां विमलबुद्धिसन्दायिनीं

विराधरिपुपूजितां विविधरत्नभूषोज्ज्वलाम् ।

विरिञ्चिहरिसुन्दरीकलितचामरावीजनां

महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ६ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह भारतीस्वामिभिः विरचितं श्री महात्रिपुरसुन्दरी षट्कम् ।

maha tripura sundari shatkam