Skip to main content
पडताळणी प्रलंबित

किरात वाराही स्तोत्रम्

अस्य श्री किरात वाराही स्तोत्र महामन्त्रस्य दूर्वासो भगवान् ऋषिः, अनुष्टुप् छन्दः, श्रीकिरातवाराही मुद्रारूपिणी देवता, हुं बीजं, रं शक्तिः, क्लीं कीलकं,मम सर्वशत्रुक्षयार्थं श्रीकिरातवाराहीस्तोत्रजपे विनियोगः ।

उग्ररूपां महादेवीं शत्रुनाशनतत्पराम् ।

क्रूरां किरातवाराहीं वन्देऽहं कार्यसिद्धये ॥ १ ॥

स्वापहीनां मदालस्यामप्रमत्तामतामसीम् ।

दंष्ट्राकरालवदनां विकृतास्यां महारवाम् ॥ २ ॥

ऊर्ध्वकेशीमुग्रधरां सोमसूर्याग्निलोचनाम् ।

लोचनाग्निस्फुलिङ्गाद्यैर्भस्मीकृत्वाजगत्त्रयम् ॥ ३ ॥

जगत्त्रयं मोदयन्तीमट्‍टहासैर्मुहुर्मुहुः ।

खड्गं च मुसलं चैव पाशं शोणितपात्रकम् ॥ ४ ॥

दधतीं पञ्चशाखैः स्वैः स्वर्णाभरणभूषिताम् ।

गुञ्जामालां शङ्खमालां नानारत्नविभूषिताम् ॥ ५ ॥

वैरिपत्नीकण्ठसूत्रच्छेदनक्षुररूपिणीम् ।

क्रोधोद्धतां प्रजाहन्तृ क्षुरिकेवस्थितां सदा ॥ ६ ॥

जितरम्भोरुयुगलां रिपुसंहारताण्डवीम् ।

रुद्रशक्तिं परां व्यक्तामीश्वरीं परदेवताम् ॥ ७ ॥

विभज्य कण्ठदंष्ट्राभ्यां पिबन्तीमसृजं रिपोः ।

गोकण्ठमिव शार्दूलो गजकण्ठं यथा हरिः ॥ ८ ॥

कपोतायाश्च वाराही पतत्यशनया रिपौ ।

सर्वशत्रुं च शुष्यन्ती कम्पन्ती सर्वव्याधयः ॥ ९ ॥

विधिविष्णुशिवेन्द्राद्या मृत्युभीतिपरायणाः ।

एवं जगत्त्रयक्षोभकारकक्रोधसम्युताम् ॥ १० ॥

साधकानां पुरः स्थित्वा प्रवदन्तीं मुहुर्मुहुः ।

प्रचरन्तीं भक्षयामि तपः साधकते रिपून् ॥ ११ ॥

तेपि यानो ब्रह्मजिह्वा शत्रुमारणतत्पराम् ।

त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लानि सर्वदा ॥ १२ ॥

भक्षयन्तीं भक्तशत्रोरचिरात्प्राणहारिणीम् ।

एवं विधां महादेवीं याचेहं शत्रुपीडनम् ॥ १३ ॥

शत्रुनाशनरूपाणि कर्माणि कुरु पञ्चमि ।

सर्वशत्रुविनाशार्थं त्वामहं शरणं गतः ॥ १४ ॥

तस्मादवश्यं शत्रूणां वाराहि कुरु नाशनम् ।

पातुमिच्छामि वाराहि देवि त्वं रिपुकर्मतः ॥ १५ ॥

मारयाशु महादेवी तत्कथां तेन कर्मणा ।

आपदः शत्रुभूताया ग्रहोत्था राजकाश्च याः ॥ १६ ॥

नानाविधाश्च वाराहि स्तम्भयाशु निरन्तरम् ।

शत्रुग्रामगृहान्देशान्राष्ट्रान्यपि च सर्वदा ॥ १७ ॥

उच्चाटयाशु वाराहि वृकवत्प्रमथाशु तान् ।

अमुकामुकसञ्ज्ञांश्च शत्रूणां च परस्परम् ॥ १८ ॥

विद्वेषय महादेवि कुर्वन्तं मे प्रयोजनम् ।

यथा नश्यन्ति रिपवस्तथा विद्वेषणं कुरु ॥ १९ ॥

यस्मिन् काले रिपुस्तम्भं भक्षणाय समर्पितम् ।

इदानीमेव वाराहि भुङ्क्ष्वेदं कालमृत्युवत् ॥ २० ॥

मां दृष्ट्वा ये जना नित्यं विद्वेषन्ति हसन्ति च ।

दूषयन्ति च निन्दन्ति वाराह्येतान् प्रमारय ॥ २१ ॥

हन्तु ते मुसलः शत्रून् अशनेः पतनादिव ।

शत्रुदेहान् हलं तीक्ष्णं करोतु शकलीकृतान् ॥ २२ ॥

हन्तु गात्राणि शत्रूणां दंष्ट्रा वाराहि ते शुभे ।

सिंहदंष्ट्रैः पादनखैर्हत्वा शत्रून् सुदुःसहान् ॥ २३ ॥

पादैर्निपीड्य शत्रूणां गात्राणि महिषो यथा ।

तांस्ताडयन्ती शृङ्गाभ्यां रिपुं नाशय मेधुना ॥ २४ ॥

किमुक्तैर्बहुभिर्वाक्यैरचिराच्छत्रुनाशनम् ।

कुरु वश्यं कुरु कुरु वाराही भक्तवत्सले ॥ २५ ॥

एतत्किरातवाराह्यं स्तोत्रमापन्निवारणम् ।

मारकं सर्वशत्रूणां सर्वाभीष्टफलप्रदम् ॥ २६ ॥

त्रिसन्ध्यं पठते यस्तु स्तोत्रोक्त फलमश्नुते ।

मुसलेनाथ शत्रूंश्च मारयन्ति स्मरन्ति ये ॥ २७ ॥

तार्क्ष्यारूढां सुवर्णाभां जपेत्तेषां न संशयः ।

अचिराद्दुस्तरं साध्यं हस्तेनाकृष्य दीयते ॥ २८ ॥

एवं ध्यायेज्जपेद्देवीमाकर्षणफलं लभेत् ।

अश्वारूढां रक्तवर्णां रक्तवस्त्राद्यलङ्कृताम् ॥ २९ ॥

एवं ध्यायेज्जपेद्देवीं जनवश्यमाप्नुयात् ।

दंष्ट्राधृतभुजां नित्यं प्राणवायुं प्रयच्छति ॥ ३० ॥

दूर्वास्यां संस्मरेद्देवीं भूलाभं याति बुद्धिमान् ।

सकलेष्टार्थदा देवी साधकस्तत्र दुर्लभः ॥ ३१ ॥

इति श्री किरातवाराही स्तोत्रम् ।

kiraata varahi stotram