Skip to main content
पडताळणी प्रलंबित

श्री वैद्यनाथाष्टकम्

श्रीरामसौमित्रिजटायुवेद

षडाननादित्य कुजार्चिताय ।

श्रीनीलकण्ठाय दयामयाय

श्रीवैद्यनाथाय नमः शिवाय ॥ १ ॥

गङ्गाप्रवाहेन्दु जटाधराय

त्रिलोचनाय स्मर कालहन्त्रे ।

समस्त देवैरभिपूजिताय

श्रीवैद्यनाथाय नमः शिवाय ॥ २ ॥

भक्तप्रियाय त्रिपुरान्तकाय

पिनाकिने दुष्टहराय नित्यम् ।

प्रत्यक्षलीलाय मनुष्यलोके

श्रीवैद्यनाथाय नमः शिवाय ॥ ३ ॥

प्रभूतवातादि समस्तरोग-

-प्रणाशकर्त्रे मुनिवन्दिताय ।

प्रभाकरेन्द्वग्निविलोचनाय

श्रीवैद्यनाथाय नमः शिवाय ॥ ४ ॥

वाक्ष्रोत्रनेत्राङ्घ्रि विहीनजन्तोः

वाक्ष्रोत्रनेत्राङ्घ्रि सुखप्रदाय ।

कुष्ठादिसर्वोन्नतरोगहन्त्रे

श्रीवैद्यनाथाय नमः शिवाय ॥ ५ ॥

वेदान्तवेद्याय जगन्मयाय

योगीश्वरध्येयपदाम्बुजाय ।

त्रिमूर्तिरूपाय सहस्रनाम्ने

श्रीवैद्यनाथाय नमः शिवाय ॥ ६ ॥

स्वतीर्थमृद्भस्मभृताङ्गभाजां

पिशाचदुःखार्तिभयापहाय ।

आत्मस्वरूपाय शरीरभाजां

श्रीवैद्यनाथाय नमः शिवाय ॥ ७ ॥

श्रीनीलकण्ठाय वृषध्वजाय

स्रक्गन्धभस्माद्यभिशोभिताय ।

सुपुत्रदारादि सुभाग्यदाय

श्रीवैद्यनाथाय नमः शिवाय ॥ ८ ॥

बालाम्बिकेश वैद्येश भवरोगहरेति च ।

जपेन्नामत्रयं नित्यं महारोगनिवारणम् ॥ ९ ॥

इति श्री वैद्यनाथाष्टकम् ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

vaidyanathashtakam in hindi