Skip to main content
पडताळणी प्रलंबित

श्री ललिता सहस्रनाम स्तोत्रम्

अस्य श्रीललितासहस्रनामस्तोत्रमहामन्त्रस्य वशिन्यादिवाग्देवता ऋषयः, अनुष्टुप् छन्दः, श्रीललितापरमेश्वरी देवता, श्रीमद्वाग्भवकूटेति बीजं, मध्यकूटेति शक्तिः, शक्तिकूटेति कीलकं, मूलप्रकृतिरिति ध्यानम्, मूलमन्त्रेणाङ्गन्यासं करन्यासं च कुर्यात् । मम श्रीललितामहात्रिपुरसुन्दरी प्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः ।

ध्यानम् ।

सिन्दूरारुणविग्रहां त्रिणयनां माणिक्यमौलिस्फुर-

-त्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।

पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं

सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥

अरुणां करुणातरङ्गिताक्षीं

धृतपाशाङ्कुशपुष्पबाणचापाम् ।

अणिमादिभिरावृतां मयूखै-

-रहमित्येव विभावये भवानीम् ॥

ध्यायेत्पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं

हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।

सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं

श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥

सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां

समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।

अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां

जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥

लमित्यादि पञ्चपूजा ।

लं – पृथिवीतत्त्वात्मिकायै श्रीललितादेव्यै गन्धं परिकल्पयामि ।

हं – आकाशतत्त्वात्मिकायै श्रीललितादेव्यै पुष्पं परिकल्पयामि ।

यं – वायुतत्त्वात्मिकायै श्रीललितादेव्यै धूपं परिकल्पयामि ।

रं – वह्नितत्त्वात्मिकायै श्रीललितादेव्यै दीपं परिकल्पयामि ।

वं – अमृततत्त्वात्मिकायै श्रीललितादेव्यै अमृतनैवेद्यं परिकल्पयामि ।

सं – सर्वतत्त्वात्मिकायै श्रीललितादेव्यै सर्वोपचारान् परिकल्पयामि ।

अथ स्तोत्रम् ।

श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।

चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ॥ १ ॥

उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता ।

रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २ ॥

मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका ।

निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ॥ ३ ॥

चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।

कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ॥ ४ ॥

अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता ।

मुखचन्द्रकलङ्काभमृगनाभिविशेषका ॥ ५ ॥

वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका ।

वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ॥ ६ ॥

नवचम्पकपुष्पाभनासादण्डविराजिता ।

ताराकान्तितिरस्कारिनासाभरणभासुरा ॥ ७ ॥

कदम्बमञ्जरीक्लुप्तकर्णपूरमनोहरा ।

ताटङ्कयुगलीभूततपनोडुपमण्डला ॥ ८ ॥

पद्मरागशिलादर्शपरिभाविकपोलभूः ।

नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा ॥ ९ ॥

शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला ।

कर्पूरवीटिकामोदसमाकर्षद्दिगन्तरा ॥ १० ॥

निजसल्लापमाधुर्यविनिर्भर्त्सितकच्छपी ।

मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ॥ ११ ॥

अनाकलितसादृश्यचुबुकश्रीविराजिता ।

कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ॥ १२ ॥

कनकाङ्गदकेयूरकमनीयभुजान्विता ।

रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ॥ १३ ॥

कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी ।

नाभ्यालवालरोमालिलताफलकुचद्वयी ॥ १४ ॥

लक्ष्यरोमलताधारतासमुन्नेयमध्यमा ।

स्तनभारदलन्मध्यपट्‍टबन्धवलित्रया ॥ १५ ॥

अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी ।

रत्नकिङ्किणिकारम्यरशनादामभूषिता ॥ १६ ॥

कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।

माणिक्यमकुटाकारजानुद्वयविराजिता ॥ १७ ॥

इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका ।

गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ॥ १८ ॥

नखदीधितिसञ्छन्ननमज्जनतमोगुणा ।

पदद्वयप्रभाजालपराकृतसरोरुहा ॥ १९ ॥

शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा ।

मरालीमन्दगमना महालावण्यशेवधिः ॥ २० ॥

सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता ।

शिवा कामेश्वराङ्कस्था शिवस्वाधीनवल्लभा ॥ २१ ॥

सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका ।

चिन्तामणिगृहान्तःस्था पञ्चब्रह्मासनस्थिता ॥ २२ ॥

महापद्माटवीसंस्था कदम्बवनवासिनी ।

सुधासागरमध्यस्था कामाक्षी कामदायिनी ॥ २३ ॥

देवर्षिगणसङ्घातस्तूयमानात्मवैभवा ।

भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ॥ २४ ॥

सम्पत्करीसमारूढसिन्धुरव्रजसेविता ।

अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ॥ २५ ॥

चक्रराजरथारूढसर्वायुधपरिष्कृता ।

गेयचक्ररथारूढमन्त्रिणीपरिसेविता ॥ २६ ॥

किरिचक्ररथारूढदण्डनाथापुरस्कृता ।

ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ॥ २७ ॥

भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।

नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ॥ २८ ॥

भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता ।

मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ॥ २९ ॥ [विशुक्र]

विशुक्रप्राणहरणवाराहीवीर्यनन्दिता । [विषङ्ग]

कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ॥ ३० ॥

महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।

भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ॥ ३१ ॥

कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः ।

महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ॥ ३२ ॥

कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।

ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥ ३३ ॥

हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः ।

श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ॥ ३४ ॥

कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी ।

शक्तिकूटैकतापन्नकट्यधोभागधारिणी ॥ ३५ ॥

मूलमन्त्रात्मिका मूलकूटत्रयकलेबरा ।

कुलामृतैकरसिका कुलसङ्केतपालिनी ॥ ३६ ॥

कुलाङ्गना कुलान्तःस्था कौलिनी कुलयोगिनी ।

अकुला समयान्तःस्था समयाचारतत्परा ॥ ३७ ॥

मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी ।

मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥ ३८ ॥

आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी ।

सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥ ३९ ॥

तटिल्लतासमरुचिः षट्चक्रोपरिसंस्थिता ।

महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी ॥ ४० ॥

भवानी भावनागम्या भवारण्यकुठारिका ।

भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ॥ ४१ ॥

भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।

शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ४२ ॥

शाङ्करी श्रीकरी साध्वी शरच्चन्द्रनिभानना ।

शातोदरी शान्तिमती निराधारा निरञ्जना ॥ ४३ ॥

निर्लेपा निर्मला नित्या निराकारा निराकुला ।

निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ ४४ ॥

नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।

नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ ४५ ॥

निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा ।

नीरागा रागमथनी निर्मदा मदनाशिनी ॥ ४६ ॥

निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी ।

निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ ४७ ॥

निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।

निःसंशया संशयघ्नी निर्भवा भवनाशिनी ॥ ४८ ॥

निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।

निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ ४९ ॥

निस्तुला नीलचिकुरा निरपाया निरत्यया ।

दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥ ५० ॥

दुष्टदूरा दुराचारशमनी दोषवर्जिता ।

सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ ५१ ॥

सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा ।

सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ॥ ५२ ॥

सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी ।

माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ॥ ५३ ॥

महारूपा महापूज्या महापातकनाशिनी ।

महामाया महासत्त्वा महाशक्तिर्महारतिः ॥ ५४ ॥

महाभोगा महैश्वर्या महावीर्या महाबला ।

महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ॥ ५५ ॥

महातन्त्रा महामन्त्रा महायन्त्रा महासना ।

महायागक्रमाराध्या महाभैरवपूजिता ॥ ५६ ॥

महेश्वरमहाकल्पमहाताण्डवसाक्षिणी ।

महाकामेशमहिषी महात्रिपुरसुन्दरी ॥ ५७ ॥

चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी ।

महाचतुःषष्टिकोटियोगिनीगणसेविता ॥ ५८ ॥

मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा ।

चारुरूपा चारुहासा चारुचन्द्रकलाधरा ॥ ५९ ॥

चराचरजगन्नाथा चक्रराजनिकेतना ।

पार्वती पद्मनयना पद्मरागसमप्रभा ॥ ६० ॥

पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी ।

चिन्मयी परमानन्दा विज्ञानघनरूपिणी ॥ ६१ ॥

ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता ।

विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥ ६२ ॥

सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता ।

सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥ ६३ ॥

संहारिणी रुद्ररूपा तिरोधानकरीश्वरी ।

सदाशिवानुग्रहदा पञ्चकृत्यपरायणा ॥ ६४ ॥

भानुमण्डलमध्यस्था भैरवी भगमालिनी ।

पद्मासना भगवती पद्मनाभसहोदरी ॥ ६५ ॥

उन्मेषनिमिषोत्पन्नविपन्नभुवनावलिः ।

सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ॥ ६६ ॥

आब्रह्मकीटजननी वर्णाश्रमविधायिनी ।

निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ॥ ६७ ॥

श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका ।

सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका ॥ ६८ ॥

पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।

अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता ॥ ६९ ॥

नारायणी नादरूपा नामरूपविवर्जिता ।

ह्रीङ्कारी ह्रीमती हृद्या हेयोपादेयवर्जिता ॥ ७० ॥

राजराजार्चिता राज्ञी रम्या राजीवलोचना ।

रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ॥ ७१ ॥

रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।

रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ॥ ७२ ॥

काम्या कामकलारूपा कदम्बकुसुमप्रिया ।

कल्याणी जगतीकन्दा करुणारससागरा ॥ ७३ ॥

कलावती कलालापा कान्ता कादम्बरीप्रिया ।

वरदा वामनयना वारुणीमदविह्वला ॥ ७४ ॥

विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ।

विधात्री वेदजननी विष्णुमाया विलासिनी ॥ ७५ ॥

क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी ।

क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ॥ ७६ ॥

विजया विमला वन्द्या वन्दारुजनवत्सला ।

वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ॥ ७७ ॥

भक्तिमत्कल्पलतिका पशुपाशविमोचनी ।

संहृताशेषपाषण्डा सदाचारप्रवर्तिका ॥ ७८ ॥

तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका ।

तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥ ७९ ॥

चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी ।

स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः ॥ ८० ॥

परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।

मध्यमा वैखरीरूपा भक्तमानसहंसिका ॥ ८१ ॥

कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।

शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ॥ ८२ ॥

ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ।

रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ॥ ८३ ॥

सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।

षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ॥ ८४ ॥

नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी ।

नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ॥ ८५ ॥

प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।

मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ॥ ८६ ॥

व्यापिनी विविधाकारा विद्याऽविद्यास्वरूपिणी ।

महाकामेशनयनकुमुदाह्लादकौमुदी ॥ ८७ ॥

भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः ।

शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥ ८८ ॥

शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।

अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥ ८९ ॥

चिच्छक्तिश्चेतनारूपा जडशक्तिर्जडात्मिका ।

गायत्री व्याहृतिः सन्ध्या द्विजबृन्दनिषेविता ॥ ९० ॥

तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता ।

निःसीममहिमा नित्ययौवना मदशालिनी ॥ ९१ ॥

मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः ।

चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया ॥ ९२ ॥

कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।

कुलकुण्डालया कौलमार्गतत्परसेविता ॥ ९३ ॥

कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः ।

शान्तिः स्वस्तिमती कान्तिर्नन्दिनी विघ्ननाशिनी ॥ ९४ ॥

तेजोवती त्रिनयना लोलाक्षीकामरूपिणी ।

मालिनी हंसिनी माता मलयाचलवासिनी ॥ ९५ ॥

सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।

कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥ ९६ ॥

वज्रेश्वरी वामदेवी वयोऽवस्थाविवर्जिता ।

सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥ ९७ ॥

विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना ।

खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ॥ ९८ ॥

पायसान्नप्रिया त्वक्‍स्था पशुलोकभयङ्करी ।

अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ॥ ९९ ॥

अनाहताब्जनिलया श्यामाभा वदनद्वया ।

दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता ॥ १०० ॥

कालरात्र्यादिशक्त्यौघवृता स्निग्धौदनप्रिया ।

महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ॥ १०१ ॥

मणिपूराब्जनिलया वदनत्रयसम्युता ।

वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥ १०२ ॥

रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा ।

समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ॥ १०३ ॥

स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा ।

शूलाद्यायुधसम्पन्ना पीतवर्णाऽतिगर्विता ॥ १०४ ॥

मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता ।

दध्यन्नासक्तहृदया काकिनीरूपधारिणी ॥ १०५ ॥

मूलाधाराम्बुजारूढा पञ्चवक्त्राऽस्थिसंस्थिता ।

अङ्कुशादिप्रहरणा वरदादिनिषेविता ॥ १०६ ॥

मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी ।

आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ॥ १०७ ॥

मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता ।

हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ॥ १०८ ॥

सहस्रदलपद्मस्था सर्ववर्णोपशोभिता ।

सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ॥ १०९ ॥

सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी ।

स्वाहा स्वधाऽमतिर्मेधा श्रुतिः स्मृतिरनुत्तमा ॥ ११० ॥

पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना ।

पुलोमजार्चिता बन्धमोचनी बर्बरालका ॥ १११ ॥ [बन्धुरालका]

विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः ।

सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ॥ ११२ ॥

अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी ।

कात्यायनी कालहन्त्री कमलाक्षनिषेविता ॥ ११३ ॥

ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा ।

मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥ ११४ ॥

नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी ।

मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ॥ ११५ ॥

पराशक्तिः परानिष्ठा प्रज्ञानघनरूपिणी ।

माध्वीपानालसा मत्ता मातृकावर्णरूपिणी ॥ ११६ ॥

महाकैलासनिलया मृणालमृदुदोर्लता ।

महनीया दयामूर्तिर्महासाम्राज्यशालिनी ॥ ११७ ॥

आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।

श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका ॥ ११८ ॥

कटाक्षकिङ्करीभूतकमलाकोटिसेविता ।

शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुःप्रभा ॥ ११९ ॥

हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ।

दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ॥ १२० ॥

दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी ।

गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभूः ॥ १२१ ॥

देवेशी दण्डनीतिस्था दहराकाशरूपिणी ।

प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ॥ १२२ ॥

कलात्मिका कलानाथा काव्यालापविनोदिनी ।

सचामररमावाणीसव्यदक्षिणसेविता ॥ १२३ ॥

आदिशक्तिरमेयात्मा परमा पावनाकृतिः ।

अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ॥ १२४ ॥

क्लीङ्कारी केवला गुह्या कैवल्यपददायिनी ।

त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी ॥ १२५ ॥

त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता ।

उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ॥ १२६ ॥

विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी ।

ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ १२७ ॥

सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ।

लोपामुद्रार्चिता लीलाक्लुप्तब्रह्माण्डमण्डला ॥ १२८ ॥

अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।

योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥ १२९ ॥

इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।

सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ॥ १३० ॥

अष्टमूर्तिरजाजैत्री लोकयात्राविधायिनी ।

एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥ १३१ ॥

अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी ।

बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥ १३२ ॥

भाषारूपा बृहत्सेना भावाभावविवर्जिता ।

सुखाराध्या शुभकरी शोभना सुलभा गतिः ॥ १३३ ॥

राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ।

राजत्कृपा राजपीठनिवेशितनिजाश्रिता ॥ १३४ ॥

राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी ।

साम्राज्यदायिनी सत्यसन्धा सागरमेखला ॥ १३५ ॥

दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी ।

सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ॥ १३६ ॥

देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।

सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥ १३७ ॥

सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता ।

सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ॥ १३८ ॥

कुलोत्तीर्णा भगाराध्या माया मधुमती मही ।

गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ॥ १३९ ॥

स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी ।

सनकादिसमाराध्या शिवज्ञानप्रदायिनी ॥ १४० ॥

चित्कलाऽऽनन्दकलिका प्रेमरूपा प्रियङ्करी ।

नामपारायणप्रीता नन्दिविद्या नटेश्वरी ॥ १४१ ॥

मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।

लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥ १४२ ॥

भवदावसुधावृष्टिः पापारण्यदवानला ।

दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ॥ १४३ ॥

भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना ।

रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ॥ १४४ ॥

महेश्वरी महाकाली महाग्रासा महाशना ।

अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी ॥ १४५ ॥

क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ।

त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥ १४६ ॥

स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः ।

ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥ १४७ ॥

दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया ।

महती मेरुनिलया मन्दारकुसुमप्रिया ॥ १४८ ॥

वीराराध्या विराड्रूपा विरजा विश्वतोमुखी ।

प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥ १४९ ॥

मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः ।

त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥ १५० ॥

सत्यज्ञानानन्दरूपा सामरस्यपरायणा ।

कपर्दिनी कलामाला कामधुक्कामरूपिणी ॥ १५१ ॥

कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।

पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ १५२ ॥

परञ्ज्योतिः परन्धाम परमाणुः परात्परा ।

पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी ॥ १५३ ॥

मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानसहंसिका ।

सत्यव्रता सत्यरूपा सर्वान्तर्यामिणी सती ॥ १५४ ॥

ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।

प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥ १५५ ॥

प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी ।

विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥ १५६ ॥

मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी ।

भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ॥ १५७ ॥

छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।

उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ॥ १५८ ॥

जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी ।

सर्वोपनिषदुद्घुष्टा शान्त्यतीतकलात्मिका ॥ १५९ ॥

गम्भीरा गगनान्तस्था गर्विता गानलोलुपा ।

कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा ॥ १६० ॥

कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता ।

कनत्कनकताटङ्का लीलाविग्रहधारिणी ॥ १६१ ॥

अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी ।

अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ॥ १६२ ॥

त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।

निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥ १६३ ॥

संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता ।

यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ॥ १६४ ॥

धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी ।

विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ॥ १६५ ॥

विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।

अयोनिर्योनिनिलया कूटस्था कुलरूपिणी ॥ १६६ ॥

वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।

विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥ १६७ ॥

तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी ।

सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ॥ १६८ ॥

सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी ।

स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥ १६९ ॥

चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया ।

सदोदिता सदातुष्टा तरुणादित्यपाटला ॥ १७० ॥

दक्षिणादक्षिणाराध्या दरस्मेरमुखाम्बुजा ।

कौलिनीकेवलाऽनर्घ्यकैवल्यपददायिनी ॥ १७१ ॥

स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा ।

मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ १७२ ॥

विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।

प्रगल्भा परमोदारा परामोदा मनोमयी ॥ १७३ ॥

व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।

पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ॥ १७४ ॥

पञ्चमी पञ्चभूतेशी पञ्चसङ्ख्योपचारिणी ।

शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥ १७५ ॥

धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी ।

लोकातीता गुणातीता सर्वातीता शमात्मिका ॥ १७६ ॥

बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी ।

सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥ १७७ ॥

सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा ।

बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥ १७८ ॥

दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी ।

ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी ॥ १७९ ॥

योनिमुद्रा त्रिखण्डेशी त्रिगुणाऽम्बा त्रिकोणगा ।

अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ॥ १८० ॥

अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ।

अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ॥ १८१ ॥

आबालगोपविदिता सर्वानुल्लङ्घ्यशासना ।

श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ॥ १८२ ॥

श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ।

एवं श्रीललितादेव्या नाम्नां साहस्रकं जगुः ॥ १८३ ॥

इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे श्रीललिता रहस्यनामसाहस्र स्तोत्रकथनं नाम द्वितीयोऽध्यायः ॥

श्री ललिता सहस्रनाम स्तोत्रम् – उत्तरपीठिका >>

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri lalitha sahasranama stotram in hindi