Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती स्तवम् (अश्वतर कृतम्)

अश्वतर उवाच ।

जगद्धात्रीमहं देवीमारिराधयिषुः शुभाम् ।

स्तोष्ये प्रणम्य शिरसा ब्रह्मयोनिं सरस्वतीम् ॥ १ ॥

सदसद्देवि यत्किञ्चिन्मोक्षवच्चार्थवत्पदम् ।

तत् सर्वं त्वय्यसम्योगं योगवद्देवि संस्थितम् ॥ २ ॥

त्वमक्षरं परं देवि यत्र सर्वं प्रतिष्ठितम् ।

अक्षरं परमं देवि संस्थितं परमाणुवत् ॥ ३ ॥

अक्षरं परमं ब्रह्म विश्वं चैतत् क्षरात्मकम् ।

दारुण्यवस्थितो वह्निर्भौमाश्च परमाणवः ॥ ४ ॥

तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ।

ओङ्काराक्षरसंस्थानं यत्तु देवि स्थिरास्थिरम् ॥ ५ ॥

तत्र मात्रात्रयं सर्वमस्ति यद्देवि नास्ति च ।

त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् ॥ ६ ॥

त्रीणि ज्योतींषि वर्णाश्च त्रयो धर्मागमास्तथा ।

त्रयो गुणास्त्रयः शब्दस्त्रयो वेदास्तथाश्रमाः ॥ ७ ॥

त्रयः कालास्तथावस्थाः पितरोऽहर्निशादयः ।

एतन्मात्रात्रयं देवि तव रूपं सरस्वति ॥ ८ ॥

विभिन्नदर्शिनामाद्या ब्रह्मणो हि सनातनाः ।

सोमसंस्था हविः संस्थाः पाकसंस्थाश्च सप्त याः ॥ ९ ॥

तास्त्वदुच्चारणाद्देवि क्रियन्ते ब्रह्मवादिभिः ।

अनिर्देश्यं तथा चान्यदर्धमात्रान्वितं परम् ॥ १० ॥

अविकार्यक्षयं दिव्यं परिणामविवर्जितम् ।

तवैतत्परमं रूपं यन्न शक्यं मयोदितुम् ॥ ११ ॥

न चास्येन च तज्जिह्वा ताम्रोष्ठादिभिरुच्यते ।

इन्द्रोऽपि वसवो ब्रह्मा चन्द्रार्कौ ज्योतिरेव च ॥ १२ ॥

विश्वावासं विश्वरूपं विश्वेशं परमेश्वरम् ।

साङ्ख्यवेदान्तवादोक्तं बहुशाखास्थिरीकृतम् ॥ १३ ॥

अनादिमध्यनिधनं सदसन्न सदेव यत् ।

एकन्त्वनेकं नाप्येकं भवभेदसमाश्रितम् ॥ १४ ॥

अनाख्यं षड्गुणाख्यं च वर्गाख्यं त्रिगुणाश्रयम् ।

नानाशक्तिमतामेकं शक्तिवैभविकं परम् ॥ १५ ॥

सुखासुखं महासौख्यरूपं त्वयि विभाव्यते ।

एवं देवि त्वया व्याप्तं सकलं निष्कलं च यत् ।

अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥ १६ ॥

येऽर्था नित्या ये विनश्यन्ति चान्ये

ये वा स्थूला ये च सूक्ष्मातिसूक्ष्माः ।

ये वा भूमौ येऽन्तरिक्षेऽन्यतो वा

तेषां तेषां त्वत्त एवोपलब्धिः ॥ १७ ॥

यच्चामूर्तं यच्च मूर्तं समस्तं

यद्वा भूतेष्वेकमेकं च किञ्चित् ।

यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वा

त्वत्सम्बन्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥ १८ ॥

इति श्रीमार्कण्डेयपुराणे त्रयोविंशोऽध्याये अश्वतर कृत श्री सरस्वती स्तोत्रम् ॥

sri maha saraswati stavam