Skip to main content
पडताळणी प्रलंबित

श्री वाराह्यनुग्रहाष्टकम्

ईश्वर उवाच ।

मातर्जगद्रचननाटकसूत्रधार-

-स्त्वद्रूपमाकलयितुं परमार्थतोऽयम् ।

ईशोऽप्यमीश्वरपदं समुपैति तादृक्

कोऽन्यः स्तवं किमिव तावकमादधातु ॥ १ ॥

नामानि किन्तु गृणतस्तव लोकतुण्डे

नाडम्बरं स्पृशति दण्डधरस्य दण्डः ।

यल्लेशलम्बितभवाम्बुनिधिर्यतोऽयत्

त्वन्नामसंस्मृतिरियं न नुनः स्तुतिस्ते ॥ २ ॥

त्वच्चिन्तनादरसमुल्लसदप्रमेया-

-ऽऽनन्दोदयात्समुदितः स्फुटरोमहर्षः ।

मातर्नमामि सुदिनानि सदेत्यमुं त्वा-

-मभ्यर्थयेऽर्थमिति पूरयताद्दयालो ॥ ३ ॥

इन्द्रेन्दुमौलिविधिकेशवमौलिरत्न-

-रोचिश्चयोज्ज्वलितपादसरोजयुग्मे ।

चेतो नतौ मम सदा प्रतिबिम्बिता त्वं

भूया भवानि भवनाशिनि भावये त्वाम् ॥ ४ ॥

लीलोद्धृतक्षितितलस्य वराहमूर्ते-

-र्वाराहमूर्तिरखिलार्थकरी त्वमेव ।

प्रालेयरश्मिसुकलोल्लसितावतंसा

त्वं देवि वामतनुभागहरा हरस्य ॥ ५ ॥

त्वामम्ब तप्तकनकोज्ज्वलकान्तिमन्त-

-र्ये चिन्तयन्ति युवतीतनु मागलान्ताम् ।

चक्रायुधां त्रिनयनां वरपोतृवक्त्रां

तेषां पदाम्बुजयुगं प्रणमन्ति देवाः ॥ ६ ॥

त्वत्सेवनस्खलितपापचयस्य मात-

-र्मोक्षोऽपि यस्य न सतो गणनामुपैति ।

देवासुरोरगनृपूजितपादपीठः

कस्याः श्रियः स खलु भाजनतां न धत्ते ॥ ७ ॥

किं दुष्करं त्वयि मनोविषयं गतायां

किं दुर्लभं त्वयि विधानुवदर्चितायाम् ।

किं दुर्भरं त्वयि सकृत् स्मृतिमागतायां

किं दुर्जयं त्वयि कृतस्तुतिवादपुंसाम् ॥ ८ ॥

इति श्री वाराह्यनुग्रहाष्टकम् ।

sri varahi anugraha ashtakam