Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती सरसशान्ति सुधारस स्तोत्रम्

सकलमङ्गलवृद्धिविधायिनि

सकलसद्गुणसन्ततिदायिनि ।

सकलमञ्जुलसौख्यविकाशिनि

हरतु मे दुरितानि सरस्वति ॥ १ ॥

अमरदानवमानवसेविता

जगति जाड्यहरा श्रुतदेवता ।

विशदपक्षविहङ्गविहारिणि

हरतु मे दुरितानि सरस्वति ॥ २ ॥

प्रवरपण्डितपुरुषपूजिता

प्रवरकान्तिविभूषणराजिता ।

प्रवरदेहविभाभरमण्डिता

हरतु मे दुरितानि सरस्वति ॥ ३ ॥

सकलशीतमरीचिसमानना

विहितसेवकबुद्धिविकाशना ।

धृतकमण्डलुपुस्तकमालिका

हरतु मे दुरितानि सरस्वती ॥ ४ ॥

सकलमानससंशयहारिणि

भवभवोर्जितपापनिवारिणि ।

सकलसद्गुणसन्ततिधारिणि

हरतु मे दुरितानि सरस्वति ॥ ५ ॥

प्रबलवैरिसमूहविमर्दिनि

नृपसभादिषुमानविवर्धिनि ।

नतजनोदतसङ्कटभेदिनि

हरतु मे दुरितानि सरस्वति ॥ ६ ॥

सकलसद्गुणभूषितविग्रहा

निजतनुद्युतितर्जितविग्रहा ।

विशदवस्त्रधराविशदद्युति

हरतु मे दुरितानि सरस्वति ॥ ७ ॥

भवदवानलशान्तितनूनपा-

-द्धितकरैङ्कृतिमन्त्रकृतकृपा ।

भविकचित्तविशुद्धविधायिनि

हरतु मे दुरितानि सरस्वति ॥ ८ ॥

तनुभृतां जडतामपहृत्य या

विबुधतां ददते मुदिताऽर्चया ।

मतिमतां जननीति मताऽत्रसा

हरतु मे दुरितानि सरस्वति ॥ ९ ॥

सकलशास्त्रपयोनिधिनौःपरा

विशदकीर्तिधराऽङ्गितमोहरा ।

जिनवराननपद्मनिवासिनि

हरतु मे दुरितानि सरस्वति ॥ १० ॥

इत्थं श्रीश्रुतदेवताभगवती विद्वज्जनानां प्रसूः

सम्यग्ज्ञानवरप्रदा घनतमोनिर्नाशिनी देहिनाम् ।

श्रेयः श्रीवरदायिनी सुविधिना सम्पूजिता संस्तुता

दुष्कर्माण्यपहृत्य मे विदधतां सम्यक् श्रुतं सर्वदा ॥ ११ ॥

इति चिरन्तनाचार्य विरचितं श्री सरस्वती सरसशान्ति सुधारस स्तोत्रम् ॥

sri saraswati sarasashanti sudharasa stotram