Skip to main content
पडताळणी प्रलंबित

श्री बाला स्तोत्रम् २

ऐश्वर्यं मनसेप्सितं मृदुवचो गाम्भीर्यमत्युन्नतिं

शिष्टाचार विहार पालन मथो वेदोक्तमायुः श्रियम् ।

मेधावृद्धिमपत्यदारजसुखं वैराग्यमत्युन्नतं

नित्यं त्वच्चरणारविन्दभजने भक्तिं दृढां देहि मे ॥ १ ॥

क्लीं त्वं कामशराजिते करशुकीसल्लापसम्मोहिते

सौन्दर्याम्बुधिमन्थनोद्भवकलानाथानने भामिनि ।

कोकाकार कुचाग्रसीमविलसद्वीणानुगानोद्यते

त्वत्पादाम्बुजसेवया खलु शिवे सर्वां समृद्धिं भजे ॥ २ ॥

सौम्ये पावनि पद्मसम्भवसखीं कर्पूरचन्द्रप्रभां

शुद्धस्फाटिकविद्रुमग्रथितसद्रत्नाढ्यमालाधराम् ।

धर्त्रीं पुस्तकमिष्टदानमभयं शुक्लाक्षमालां करैः

यस्त्वां ध्यायति चक्रराजसदने सम्याति विद्यां गुरोः ॥ ३ ॥

इति श्री बाला स्तोत्रम् ।

sri bala stotram 2