Skip to main content
पडताळणी प्रलंबित

श्री श्यामलाष्टोत्तरशतनाम स्तोत्रम्

मातङ्गी विजया श्यामा सचिवेशी शुकप्रिया ।

नीपप्रिया कदम्बेशी मदघूर्णितलोचना ॥ १ ॥

भक्तानुरक्ता मन्त्रेशी पुष्पिणी मन्त्रिणी शिवा ।

कलावती रक्तवस्त्राऽभिरामा च सुमध्यमा ॥ २ ॥

त्रिकोणमध्यनिलया चारुचन्द्रावतंसिनी ।

रहःपूज्या रहःकेलिः योनिरूपा महेश्वरी ॥ ३ ॥

भगप्रिया भगाराध्या सुभगा भगमालिनी ।

रतिप्रिया चतुर्बाहुः सुवेणी चारुहासिनी ॥ ४ ॥

मधुप्रिया श्रीजननी शर्वाणी च शिवात्मिका ।

राज्यलक्ष्मीप्रदा नित्या नीपोद्याननिवासिनी ॥ ५ ॥

वीणावती कम्बुकण्ठी कामेशी यज्ञरूपिणी ।

सङ्गीतरसिका नादप्रिया नीलोत्पलद्युतिः ॥ ६ ॥

मतङ्गतनया लक्ष्मीः व्यापिनी सर्वरञ्जिनी ।

दिव्यचन्दनदिग्धाङ्गी यावकार्द्रपदाम्बुजा ॥ ७ ॥

कस्तूरीतिलका सुभ्रूर्बिम्बोष्ठी च मदालसा ।

विद्याराज्ञी भगवती सुधापानानुमोदिनी ॥ ८ ॥

शङ्खताटङ्किनी गुह्या योषित्पुरुषमोहिनी ।

किङ्करीभूतगीर्वाणी कौलिन्यक्षररूपिणी ॥ ९ ॥

विद्युत्कपोलफलिका मुक्तारत्नविभूषिता ।

सुनासा तनुमध्या च श्रीविद्या भुवनेश्वरी ॥ १० ॥

पृथुस्तनी ब्रह्मविद्या सुधासागरवासिनी ।

गुह्यविद्याऽनवद्याङ्गी यन्त्रिणी रतिलोलुपा ॥ ११ ॥

त्रैलोक्यसुन्दरी रम्या स्रग्विणी कीरधारिणी ।

आत्मैक्यसुमुखीभूतजगदाह्लादकारिणी ॥ १२ ॥

कल्पातीता कुण्डलिनी कलाधारा मनस्विनी ।

अचिन्त्यानन्तविभवा रत्नसिंहासनेश्वरी ॥ १३ ॥

पद्मासना कामकला स्वयम्भूकुसुमप्रिया ।

कल्याणी नित्यपुष्पा च शाम्भवी वरदायिनी ॥ १४ ॥

सर्वविद्याप्रदा वाच्या गुह्योपनिषदुत्तमा ।

नृपवश्यकरी भोक्त्री जगत्प्रत्यक्षसाक्षिणी ॥ १५ ॥

ब्रह्मविष्ण्वीशजननी सर्वसौभाग्यदायिनी ।

गुह्यातिगुह्यगोप्त्री च नित्यक्लिन्नाऽमृतोद्भवा ॥ १६ ॥

कैवल्यदात्री वशिनी सर्वसम्पत्प्रदायिनी ।

श्यामलाया नामशतं साष्टकं पठतो वशे ।

श्रीः कीर्तिर्वाक्पटुत्वं च विद्वत्संमाननं जयः ॥ १७ ॥

इति श्री श्यामलाष्टोत्तरशतनाम स्तोत्रम् ।

sri shyamala ashtottara shatanama stotram