Skip to main content
पडताळणी प्रलंबित

श्री शारदा स्तुतिः

करोतु कल्याणपरम्परां नः

कारुण्यवाराशिरपाङ्गपातैः ।

कल्याणशैलप्रतिमस्तनाढ्या

कञ्जातसञ्जातमनोज्ञजाया ॥ १ ॥

एणाङ्कगर्वापहृतिप्रचण्ड-

-तुण्डाधराधःकृतपक्वबिम्बा ।

एकान्तवासादरशालिमौनि-

-लभ्याङ्घ्रिपद्मावतु वाक्सवित्री ॥ २ ॥

ईशाजविष्ण्वादिसुरार्च्यमाना

कुन्देन्दुशङ्खस्फटिकाच्छकान्तिः ।

ईहावियुक्ताप्यनिजस्वरूपा

बालेन्दुचूडावतु भारती नः ॥ ३ ॥

लक्ष्मीशिवाशोभितपार्श्वभागा

शचीप्रमुख्यामरमानिनीड्या ।

ललामराजन्निटिलप्रदेशा

वीणालसत्पाणिरवत्वजस्रम् ॥ ४ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितं श्री शारदा स्तुतिः ॥

sri sharada stuti