Skip to main content
पडताळणी प्रलंबित

श्री छिन्नमस्ता देवि स्तोत्रम्

ईश्वर उवाच ।

स्तवराजमहं वन्दे वै रोचन्याश्शुभप्रदं ।

नाभौ शुभ्रारविन्दं तदुपरि विलसन्मण्डलं चण्डरश्मेः

संसारस्यैकसारां त्रिभुवनजननीं धर्मकामार्थदात्रीं ।

तस्मिन्नध्ये त्रिभागे त्रितयतनुधरां छिन्नमस्तां प्रशस्तां

तां वन्दे छिन्नमस्तां शमनभयहरां योगिनीं योगमुद्राम् ॥ १ ॥

नाभौ शुद्धसरोजवक्त्रविलसद्बन्धूकपुष्पारुणं

भास्वद्भास्करमण्डलं तदुदरे तद्योनिचक्रं महत् ।

तन्मध्ये विपरीतमैथुनरत प्रद्युम्नसत्कामिनी

पृष्ठंस्यात्तरुणार्य कोटिविलसत्तेजस्स्वरूपां भजे ॥ २ ॥

वामे छिन्नशिरोधरां तदितरे पाणौ महत्कर्तृकां

प्रत्यालीढपदां दिगन्तवसनामुन्मुक्त केशव्रजां ।

छिन्नात्मीय शिरस्समच्चल दमृद्धारां पिबन्तीं परां

बालादित्य समप्रकाश विलसन्नेत्रत्रयोद्भासिनीम् ॥ ३ ॥

वामादन्यत्र नालं बहुगहनगलद्रक्तधाराभिरुच्चै-

र्गायन्तीमस्थिभूषां करकमललसत्कर्तृकामुग्ररूपां ।

रक्तामारक्तकेशीमवगतवसनावर्णनीमात्मशक्तिं

प्रत्यालीढोरुपादामरुणि तनयनां योगिनीं योगनिद्राम् ॥ ४ ॥

दिग्वस्त्रां मुक्तकेशीं प्रलयघनघटा घोररूपां

प्रचण्डां दम्ष्ट्रादुःप्रेक्ष्यवक्त्रोदरविवरलसल्लोलजिह्वाग्रभासां ।

विद्युल्लोलाक्षियुग्मां हृदयतटलसद्भोगिनीं भीममूर्तिं

सद्यः छिन्नात्मकण्ठप्रगलितरुधिरैर्डाकिनी वर्धयन्तीम् ॥ ५ ॥

ब्रह्मेशानाच्युताद्यैश्शिरसि विनिहिता मन्दपादारविन्दै

राज्ञैर्योगीन्द्रमुख्यैः प्रतिपदमनिशं चिन्तितां चिन्त्यरूपां ।

संसारे सारभूतां त्रिभुवनजननीं छिन्नमस्तां प्रशस्तां

इष्टां तामिष्टदात्रीं कलिकलुषहरां चेतसा चिन्तयामि ॥ ६ ॥

उत्पत्ति स्थितिसंहृतीर्घटयितुं धत्ते त्रिरूपां तनुं

त्रैगुण्याज्जगतोयदीयविकृति ब्रह्माच्युतश्शूलभृत् ।

तामाद्यां प्रकृतिं स्मरामि मनसा सर्वार्थसंसिद्धये

यस्मात्म्सेरपदारविन्दयुगले लाभं भजन्ते नराः ॥ ७ ॥

अभिलषित परस्त्री योगपूजापरोऽहं

बहुविधजन भावारम्भसम्भावितोऽहं ।

पशुजनविरतोऽहं भैरवी संस्थितोऽहं

गुरुचरणपरोऽहं भैरवोहं शिवोऽहम् ॥ ८ ॥

इदं स्तोत्रं महापुण्यं ब्रह्मणा भाषितं पुरा ।

सर्वसिद्धिप्रदं साक्षान्महापातकनाशनम् ॥ ९ ॥

यःपठेत्प्रातरुत्थाय देव्यास्सन्निहितोपि वा ।

तस्य सिद्धिर्भवेद्देवी वाञ्छितार्थ प्रदायिनी ॥ १० ॥

धनं धान्यं सुतं जायां हयं हस्तिनमेव च ।

वसुन्धरां महाविद्यामष्टसिद्धिं लभेद्धृवम् ॥ ११ ॥

वैयाघ्राजिनरञ्जितस्वजघनेऽरण्ये प्रलम्बोदरे

खर्वे निर्वचनीयपर्वसुभगे मुण्डावलीमण्डिते ।

कर्तीं कुन्दरुचिं विचित्रवनितां ज्ञाने दधाने पदे

मातर्भक्तजनानुकम्पिनि महामायेस्तु तुभ्यं नमः ॥ १२ ॥

इति श्री छिन्नमस्तादेवी स्तोत्रम् ।

sri chinnamastha devi stotram