Skip to main content
पडताळणी प्रलंबित

श्री दुर्गा परमेश्वरी स्तोत्रम्

(शृङ्गेरी जगद्गुरु विरचितम्)

[** अधुना सर्वत्र जगति प्रसरतः जनानं प्राणापायकरस्य कॊरोना नामकस्य रोगविशेषस्य निवारणार्थं शृंगेरी जगद्गुरु विरचित श्री दुर्गा परमेश्वरी स्तोत्र पारायणं करिष्ये । **]

एतावन्तं समयं

सर्वापद्भ्योऽपि रक्षणं कृत्वा ।

देशस्य परमिदानीं

ताटस्थ्यं केन वहसि दुर्गाम्ब ॥ १ ॥

अपराधा बहुशः खलु

पुत्राणां प्रतिपदं भवन्त्येव ।

को वा सहते लोके

सर्वांस्तान्मातरं विहायैकाम् ॥ २ ॥

मा भज मा भज दुर्गे

ताटस्थ्यं पुत्रकेषु दीनेषु ।

के वा गृह्णन्ति सुतान्

मात्रा त्यक्तान्वदाम्बिके लोके ॥ ३ ॥

इतः परं वा जगदम्ब जातु

देशस्य रोगप्रमुखापदोऽस्य ।

न स्युस्तथा कुर्वचलां कृपां

इत्यभ्यर्थनां मे सफलीकुरुष्व ॥ ४ ॥

पापहीनजनतावनदक्षाः

सन्ति निर्जरवरा न कियन्तः ।

पापपूर्णजनरक्षणदक्षां

त्वां विना भुवि परां न विलोके ॥ ५ ॥

इति शृङ्गेरी जगद्गुरु विरचितं श्री दुर्गा परमेश्वरी स्तोत्रम् ॥

sri durga parameshwari stotram by sringeri jagadguru