Skip to main content
पडताळणी प्रलंबित

श्री दुर्गा सहस्रनाम स्तोत्रम्

नारद उवाच ।

कुमार गुणगम्भीर देवसेनापते प्रभो ।

सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ॥ १ ॥

गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा ।

मङ्गलं ग्रहपीडादिशान्तिदं वक्तुमर्हसि ॥ २ ॥

स्कन्द उवाच ।

शृणु नारद देवर्षे लोकानुग्रहकाम्यया ।

यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् ॥ ३ ॥

माता मे लोकजननी हिमवन्नगसत्तमात् ।

मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया ॥ ४ ॥

महता तपसाऽऽराध्य शङ्करं लोकशङ्करम् ।

स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् ॥ ५ ॥

नगानामधिराजस्तु हिमवान् विरहातुरः ।

स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः ॥ ६ ॥

त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः ।

प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज ॥ ७ ॥

बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी ।

सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना ॥ ८ ॥

इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् ।

तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी ॥ ९ ॥

मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् ।

तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि ॥ १० ॥

इत्युक्त्वान्तर्हितायां तु हृदये स्फुरितं तदा ।

नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् ॥ ११ ॥

मङ्गलानां मङ्गलं तद्दुर्गानामसहस्रकम् ।

सर्वाभीष्टप्रदं पुंसां ब्रवीम्यखिलकामदम् ॥ १२ ॥

दुर्गादेवी समाख्याता हिमवानृषिरुच्यते ।

छन्दोऽनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा ॥ १३ ॥

अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य, हिमवान् ऋषिः, अनुष्टुप् छन्दः, दुर्गा भगवती देवता, श्रीदुर्गा प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

ध्यानम् –

कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां

शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।

सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं

ध्यायेद्दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥

॥ ओं ह्रीम् ॥

अथ स्तोत्रम् –

शिवाऽथोमा रमा शक्तिरनन्ता निष्कलाऽमला ।

शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा ॥ १ ॥

अचिन्त्या केवलाऽनन्ता शिवात्मा परमात्मिका ।

अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला ॥ २ ॥

एकानेकविभागस्था मायातीता सुनिर्मला ।

महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ ३ ॥

काष्ठा सर्वान्तरस्थाऽपि चिच्छक्तिश्चात्रिलालिता ।

सर्वा सर्वात्मिका विश्वा ज्योतीरूपाऽक्षराऽमृता ॥ ४ ॥

शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा ।

व्योममूर्तिर्व्योमसंस्था व्योमाधाराऽच्युताऽतुला ॥ ५ ॥

अनादिनिधनाऽमोघा कारणात्मकलाकुला ।

ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया ॥ ६ ॥

प्राणेश्वरप्रिया नम्या महामहिषघातिनी ।

प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ ७ ॥

सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी ।

सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ ८ ॥

अङ्गदादिधरा चैव तथा मुकुटधारिणी ।

सनातनी महानन्दाऽऽकाशयोनिस्तथोच्यते ॥ ९ ॥

चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी ।

महामाया सुदुष्पारा मूलप्रकृतिरीशिका ॥ १० ॥

संसारयोनिः सकला सर्वशक्तिसमुद्भवा ।

संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा ॥ ११ ॥

प्राणशक्तिश्च सेव्या च योगिनी परमा कला ।

महाविभूतिर्दुर्दर्शा मूलप्रकृतिसम्भवा ॥ १२ ॥

अनाद्यनन्तविभवा परार्था पुरुषारणिः ।

सर्गस्थित्यन्तकृच्चैव सुदुर्वाच्या दुरत्यया ॥ १३ ॥

शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा ।

प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ १४ ॥

पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी ।

पूतान्तरस्था कूटस्था महापुरुषसञ्ज्ञिता ॥ १५ ॥

जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी ।

वाञ्छाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी ॥ १६ ॥

क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा ।

मलापवर्जिताऽनादिमाया त्रितयतत्त्विका ॥ १७ ॥

प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते ।

महामाया नगोत्पन्ना तामसी च ध्रुवा तथा ॥ १८ ॥

व्यक्ताव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा ।

प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी ॥ १९ ॥

सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी ।

ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी ॥ २० ॥

अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया ।

महालक्ष्मीः समुद्भावभावितात्मा महेश्वरी ॥ २१ ॥

महाविमानमध्यस्था महानिद्रा सकौतुका ।

सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा ॥ २२ ॥

अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी ।

अनेकानेकहस्ता च कालत्रयविवर्जिता ॥ २३ ॥

ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका ।

ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसञ्ज्ञिता ॥ २४ ॥

व्यक्ता प्रथमजा ब्राह्मी महारात्रिः प्रकीर्तिता ।

ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी ॥ २५ ॥

धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका ।

अपाम्योनिः स्वयम्भूता मानसी तत्त्वसम्भवा ॥ २६ ॥

ईश्वरस्य प्रिया प्रोक्ता शङ्करार्धशरीरिणी ।

भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽम्बिका ॥ २७ ॥

महेश्वरसमुत्पन्ना भुक्तिमुक्तिप्रदायिनी ।

सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा ॥ २८ ॥

महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी ।

ईश्वरार्धासनगता महेश्वरपतिव्रता ॥ २९ ॥

संसारशोषिणी चैव पार्वती हिमवत्सुता ।

परमानन्ददात्री च गुणाग्र्या योगदा तथा ॥ ३० ॥

ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा ।

अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा ॥ ३१ ॥

सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी ।

सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ ३२ ॥

वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका ।

वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ ३३ ॥

ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता ।

स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः ॥ ३४ ॥

सुनीतिः सङ्कृतिश्चैव कीर्तिता नरवाहिनी ।

पूजाविभाविनी सौम्या भोग्यभाग्भोगदायिनी ॥ ३५ ॥

शोभावती शाङ्करी च लोला मालाविभूषिता ।

परमेष्ठिप्रिया चैव त्रिलोकसुन्दरी मता ॥ ३६ ॥

नन्दा सन्ध्या कामधात्री महादेवी सुसात्त्विका ।

महामहिषदर्पघ्नी पद्ममालाऽघहारिणी ॥ ३७ ॥

विचित्रमुकुटा रामा कामदाता प्रकीर्तिता ।

पिताम्बरधरा दिव्यविभूषणविभूषिता ॥ ३८ ॥

दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता ।

निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका ॥ ३९ ॥

आदित्यवर्णा कौमारी मयूरवरवाहिनी ।

पद्मासनगता गौरी महाकाली सुरार्चिता ॥ ४० ॥

अदितिर्नियता रौद्री पद्मगर्भा विवाहना ।

विरूपाक्षा केशिवाहा गुहापुरनिवासिनी ॥ ४१ ॥

महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा ।

भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना ॥ ४२ ॥

कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी ।

बहुरूपा सुरूपा च विरूपा रूपवर्जिता ॥ ४३ ॥

भक्तार्तिशमना भव्या भवभावविनाशिनी ।

सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका ॥ ४४ ॥

पिकस्वनी सामगीता भवाङ्कनिलया प्रिया ।

दीक्षा विद्याधरी दीप्ता महेन्द्राहितपातिनी ॥ ४५ ॥

सर्वदेवमया दक्षा समुद्रान्तरवासिनी ।

अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ ४६ ॥

कामधेनुर्बृहद्गर्भा धीमती मौननाशिनी ।

निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ ४७ ॥

ज्वालामाला सहस्राढ्या देवदेवी मनोमया ।

सुभगा सुविशुद्धा च वसुदेवसमुद्भवा ॥ ४८ ॥

महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।

ज्ञानज्ञेया परातीता वेदान्तविषया मतिः ॥ ४९ ॥

दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता ।

योगमाया विभागज्ञा महामोहा गरीयसी ॥ ५० ॥

सन्ध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रयाऽदितिः ।

बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः ॥ ५१ ॥

ख्यातिः प्रज्ञावती सञ्ज्ञा महाभोगीन्द्रशायिनी ।

हीङ्कृतिः शङ्करी शान्तिर्गन्धर्वगणसेविता ॥ ५२ ॥

वैश्वानरी महाशूला देवसेना भवप्रिया ।

महारात्री परानन्दा शची दुःस्वप्ननाशिनी ॥ ५३ ॥

ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी ।

गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता ॥ ५४ ॥

हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता ।

जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा ॥ ५५ ॥

सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा ।

दैत्यहन्त्री स्वेष्टदात्री मङ्गलैकसुविग्रहा ॥ ५६ ॥

पुरुषान्तर्गता चैव समाधिस्था तपस्विनी ।

दिविस्थिता त्रिणेत्रा च सर्वेन्द्रियमनोधृतिः ॥ ५७ ॥

सर्वभूतहृदिस्था च तथा संसारतारिणी ।

वेद्या ब्रह्म विवेद्या च महालीला प्रकीर्तिता ॥ ५८ ॥

ब्राह्मणि बृहती ब्राह्मी ब्रह्मभूताऽघहारिणी ।

हिरण्मयी महादात्री संसारपरिवर्तिका ॥ ५९ ॥

सुमालिनी सुरूपा च भास्विनी धारिणी तथा ।

उन्मूलिनी सर्वसमा सर्वप्रत्ययसाक्षिणी ॥ ६० ॥

सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।

सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी ॥ ६१ ॥

जगत्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।

विमानस्था विशोका च शोकनाशिन्यनाहता ॥ ६२ ॥

हेमकुण्डलिनी काली पद्मवासा सनातनी ।

सदाकीर्तिः सर्वभूतशया देवी सतां प्रिया ॥ ६३ ॥

ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी ।

व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परा गतिः ॥ ६४ ॥

क्षोभिका खण्डिकाभेद्या भेदाभेदविवर्जिता ।

अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी ॥ ६५ ॥

गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी ।

भगिनी च निराधारा निराहारा प्रकीर्तिता ॥ ६६ ॥

निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका ।

स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता ॥ ६७ ॥

परावरविधानज्ञा महापुरुषपूर्वजा ।

परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया ॥ ६८ ॥

विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ।

सहस्ररश्मिः सत्वस्था महेश्वरपदाश्रया ॥ ६९ ॥

ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका ।

महाश्रया महामन्त्रा महादेवमनोरमा ॥ ७० ॥

व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा ।

विश्वेश्वरी भगवती सकला कालहारिणी ॥ ७१ ॥

सर्ववेद्या सर्वभद्रा गुह्या गूढा गुहारणी ।

प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा ॥ ७२ ॥

कामदा कनका कान्ता कञ्जगर्भप्रभा तथा ।

पुण्यदा कालकेशा च भोक्त्री पुष्करिणी तथा ॥ ७३ ॥

सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता ।

पञ्चब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा ॥ ७४ ॥

वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा ।

मनोहरा महोरस्का तामसी वेदरूपिणी ॥ ७५ ॥

वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।

योगेश्वरेश्वरी माया महाशक्तिर्महामयी ॥ ७६ ॥

विश्वान्तःस्था वियन्मूर्तिर्भार्गवी सुरसुन्दरी ।

सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा ॥ ७७ ॥

भारती परमानन्दा परावरविभेदिका ।

सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ ७८ ॥

अनन्तानन्दविभवा हृल्लेखा कनकप्रभा ।

कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥ ७९ ॥

त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया ।

सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ॥ ८० ॥

शान्ता प्रभास्वरूपा च पङ्कजायतलोचना ।

इन्द्राक्षी हृदयान्तःस्था शिवा माता च सत्क्रिया ॥ ८१ ॥

गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा ।

दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा ॥ ८२ ॥

हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका ।

मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ ८३ ॥

रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी ।

पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा ॥ ८४ ॥

नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया ।

महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला ॥ ८५ ॥

वामा च पञ्चतपसां वरदात्री प्रकीर्तिता ।

वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा ॥ ८६ ॥

कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ।

भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ ८७ ॥

कराला पिङ्गलाकारा कामभेत्त्री महामनाः ।

यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ ८८ ॥

शङ्खिनी पद्मिनी सङ्ख्या साङ्ख्ययोगप्रवर्तिका ।

चैत्रादिर्वत्सरारूढा जगत्सम्पूरणीन्द्रजा ॥ ८९ ॥

शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता ।

खगारूढा महैश्वर्या सुपद्मनिलया तथा ॥ ९० ॥

विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया ।

शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी ॥ ९१ ॥

जगत्त्रयारणी सिद्धसङ्कल्पा कामदा तथा ।

सर्वविज्ञानदात्री चानल्पकल्मषहारिणी ॥ ९२ ॥

सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा ।

सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती ॥ ९३ ॥

विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी ।

शिवा धृता लोहिताक्षी सर्पमालाविभूषणा ॥ ९४ ॥

निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी ।

अशेषध्येयमूर्तिश्च देवतानां च देवता ॥ ९५ ॥

वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ।

सुवर्णा स्वर्णलसिताऽनन्तवर्णा सदाधृता ॥ ९६ ॥

शाङ्करी शान्तहृदया अहोरात्रविधायिका ।

विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा ॥ ९७ ॥

गौरी शाकम्भरी सत्यसन्धा सन्ध्यात्रयीधृता ।

सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता ॥ ९८ ॥

साङ्ख्ययोगसमाख्याता अप्रमेया मुनीडिता ।

विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता ॥ ९९ ॥

शम्भुवामाङ्कगा चैव शशितुल्यनिभानना ।

वनमालाविराजन्ती अनन्तशयनादृता ॥ १०० ॥

नरनारायणोद्भूता नारसिंही प्रकीर्तिता ।

दैत्यप्रमाथिनी शङ्खचक्रपद्मगदाधरा ॥ १०१ ॥

सङ्कर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया ।

सुवृता सुन्दरी चैव धर्मकामार्थदायिनी ॥ १०२ ॥

मोक्षदा भक्तिनिलया पुराणपुरुषादृता ।

महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा ॥ १०३ ॥

अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी ।

सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता ॥ १०४ ॥

वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ।

विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ १०५ ॥

ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा ।

मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १०६ ॥

अमन्युरमृतास्वादा पुरन्दरपरिष्टुता ।

अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १०७ ॥

हिरण्यजननी भीमा हेमाभरणभूषिता ।

विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १०८ ॥

महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता ।

दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः ॥ १०९ ॥

महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता ।

त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया ॥ ११० ॥

शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका ।

चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी ॥ १११ ॥

काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका ।

त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी ॥ ११२ ॥

नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी ।

कौशिकी ललिता लीला परावरविभाविनी ॥ ११३ ॥

वरेण्याऽद्भुतमाहात्म्या वडवा वामलोचना ।

सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी ॥ ११४ ॥

जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।

त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता ॥ ११५ ॥

सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका ।

सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी ॥ ११६ ॥

ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।

प्रद्युम्नजननी बिम्बसमोष्ठी पद्मलोचना ॥ ११७ ॥

मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।

वृषाधीशा परात्मा च विन्ध्यपर्वतवासिनी ॥ ११८ ॥

हिमवन्मेरुनिलया कैलासपुरवासिनी ।

चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः ॥ ११९ ॥

व्रतस्नाता धर्मशीला सिंहासननिवासिनी ।

वीरभद्रादृता वीरा महाकालसमुद्भवा ॥ १२० ॥

विद्याधरार्चिता सिद्धसाध्याराधितपादुका ।

श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका ॥ १२१ ॥

महाद्भुता वारिजाक्षी सिंहवाहनगामिनी ।

मनीषिणी सुधावाणी वीणावादनतत्परा ॥ १२२ ॥

श्वेतवाहनिषेव्या च लसन्मतिररुन्धती ।

हिरण्याक्षी तथा चैव महानन्दप्रदायिनी ॥ १२३ ॥

वसुप्रभा सुमाल्याप्तकन्धरा पङ्कजानना ।

परावरा वरारोहा सहस्रनयनार्चिता ॥ १२४ ॥

श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया ।

श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी ॥ १२५ ॥

श्रीकलाऽनन्तदृष्टिश्च ह्यक्षुद्राऽऽरातिसूदनी ।

रक्तबीजनिहन्त्री च दैत्यसङ्घविमर्दिनी ॥ १२६ ॥

सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी ।

सुकीर्तिसहिता छिन्नसंशया रसवेदिनी ॥ १२७ ॥

गुणाभिरामा नागारिवाहना निर्जरार्चिता ।

नित्योदिता स्वयञ्ज्योतिः स्वर्णकाया प्रकीर्तिता ॥ १२८ ॥

वज्रदण्डाङ्किता चैव तथाऽमृतसञ्जीविनी ।

वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ॥ १२९ ॥

माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी ।

गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा ॥ १३० ॥

सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा ।

एकानङ्गा च शास्त्रार्थकुशला धर्मचारिणी ॥ १३१ ॥

धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया ।

धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ॥ १३२ ॥

विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा ।

धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा ॥ १३३ ॥

धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ।

कपालिनी शाकलिनी कलाकलितविग्रहा ॥ १३४ ॥

सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा ।

कंसप्राणहरा चैव युगधर्मधरा तथा ॥ १३५ ॥

युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा ।

स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ॥ १३६ ॥

आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा ।

पद्मासनगता प्रोक्ता खड्गबाणशरासना ॥ १३७ ॥

शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता ।

शतरूपा शतावर्ता वितता रासमोदिनी ॥ १३८ ॥

सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी ।

सूर्यान्तरस्थिता चैव सत्प्रतिष्ठितविग्रहा ॥ १३९ ॥

निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा ।

कात्यायनी चण्डिका च चण्डी हैमवती तथा ॥ १४० ॥

दाक्षायणी सती चैव भवानी सर्वमङ्गला ।

धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी ॥ १४१ ॥

योगनिद्रा योगभद्रा समुद्रतनया तथा ।

देवप्रियङ्करी शुद्धा भक्तभक्तिप्रवर्धिनी ॥ १४२ ॥

त्रिनेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका ।

अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी ॥ १४३ ॥

कुमारलालनासक्ता हरबाहूपधानिका ।

विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ॥ १४४ ॥

सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा ।

अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना ॥ १४५ ॥

कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी ।

कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा ॥ १४६ ॥

सुरासुरप्रवन्द्याङ्घ्रिर्मोहघ्नी ज्ञानदायिनी ।

षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा ॥ १४७ ॥

भूतसेव्या भूतदात्री भूतपीडाविमर्दिका ।

नारदस्तुतचारित्रा वरदेशा वरप्रदा ॥ १४८ ॥

वामदेवस्तुता चैव कामदा सोमशेखरा ।

दिक्पालसेविता भव्या भामिनी भावदायिनी ॥ १४९ ॥

स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी ।

व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा ।

वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ॥ १५० ॥

॥ फलश्रुतिः ॥

इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् ।

त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ १ ॥

ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् ।

बालग्रहादिपीडायाः शान्तिर्भवति कीर्तनात् ॥ २ ॥

मारिकादिमहारोगे पठतां सौख्यदं नृणाम् ।

व्यवहारे च जयदं शत्रुबाधानिवारकम् ॥ ३ ॥

दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् ।

आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम् ॥ ४ ॥

विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् ।

शुभदं शुभकार्येषु पठतां शृण्वतामपि ॥ ५ ॥

यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः ।

पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि ॥ ६ ॥

तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः ।

यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् ॥ ७ ॥

किं तस्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि ।

दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् ॥ ८ ॥

न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे ।

तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् ॥ ९ ॥

एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमन्त्रवित् ।

देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् ॥ १० ॥

इत्येतन्नगराजेन कीर्तितं मुनिसत्तम ।

गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् ॥ ११ ॥

भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् ।

हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् ॥ १२ ॥

इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे दुर्गा सहस्रनाम स्तोत्रम् ॥

sri durga sahasranama stotram