Skip to main content
पडताळणी प्रलंबित

श्री शारदा भुजङ्ग प्रयाताष्टकम्

सुवक्षोजकुम्भां सुधापूर्णकुम्भां

प्रसादावलम्बां प्रपुण्यावलम्बाम् ।

सदास्येन्दुबिम्बां सदानोष्ठबिम्बां

भजे शारदाम्बामजस्रं मदम्बाम् ॥ १ ॥

कटाक्षे दयार्द्रां करे ज्ञानमुद्रां

कलाभिर्विनिद्रां कलापैः सुभद्राम् ।

पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां

भजे शारदाम्बामजस्रं मदम्बाम् ॥ २ ॥

ललामाङ्कफालां लसद्गानलोलां

स्वभक्तैकपालां यशःश्रीकपोलाम् ।

करे त्वक्षमालां कनत्प्रत्नलोलां

भजे शारदाम्बामजस्रं मदम्बाम् ॥ ३ ॥

सुसीमन्तवेणीं दृशा निर्जितैणीं

रमत्कीरवाणीं नमद्वज्रपाणीम् ।

सुधामन्थरास्यां मुदा चिन्त्यवेणीं

भजे शारदाम्बामजस्रं मदम्बाम् ॥ ४ ॥

सुशान्तां सुदेहां दृगन्ते कचान्तां

लसत् सल्लताङ्गीमनन्तामचिन्त्याम् ।

स्मरेत्तापसैः सर्गपूर्वस्थितां तां

भजे शारदाम्बामजस्रं मदम्बाम् ॥ ५ ॥

कुरङ्गे तुरङ्गे मृगेन्द्रे खगेन्द्रे

मराले मदेभे महोक्षेऽधिरूढाम् ।

महत्यां नवम्यां सदा सामरूपां

भजे शारदाम्बामजस्रं मदम्बाम् ॥ ६ ॥

ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं

भजे मानसाम्भोजसुभ्रान्तभृङ्गीम् ।

निजस्तोत्रसङ्गीतनृत्यप्रभाङ्गीं

भजे शारदाम्बामजस्रं मदम्बाम् ॥ ७ ॥

भवाम्भोजनेत्राजसम्पूज्यमानां

लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।

चलच्चञ्चलाचारुताटङ्ककर्णां

भजे शारदाम्बामजस्रं मदम्बाम् ॥ ८ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री शारदा भुजङ्ग प्रयाताष्टकम् ॥

sharada bhujanga prayata ashtakam