Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणास्य भुजङ्गप्रयात स्तुतिः

भवाम्भोधिपारं नयन्तं स्वभक्ता-

-न्कृपापूरपूर्णैरपाङ्गैः स्वकीयैः ।

समस्तागमान्तप्रगीतापदानं

सदा दक्षिणास्यं तमाराधयेऽहम् ॥ १ ॥

चतुर्विंशदर्णस्य मन्त्रोत्तमस्य

प्रजापाद्दृढं वश्यभावं समेत्य ।

प्रयच्छत्यरं यश्च विद्याममोघां

सदा दक्षिणास्यं तमाराधयेऽहम् ॥ २ ॥

जडायापि विद्यां प्रयच्छन्तमाशु

प्रपन्नार्तिविध्वंसदक्षाभिधानम् ।

जराजन्ममृत्यून् हरन्तं प्रमोदात्

सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ३ ॥

यमाराध्य पद्माक्षपद्मोद्भवाद्याः

सुराग्र्याः स्वकार्येषु शक्ता बभूवुः ।

रमाभारतीपार्वतीस्तूयमानं

सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ४ ॥

सुधासूतिबालोल्लसन्मौलिभागं

सुधाकुम्भमालालसत्पाणिपद्मम् ।

सपुत्रं सदारं सशिष्यं सवाहं

सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ५ ॥

गजास्याग्निभूसेव्यपादारविन्दं

गजाश्वादिसम्पत्तिहेतुप्रणामम् ।

निजानन्दवाराशिराकासुधांशुं

शुचीन्द्वर्कनेत्रं भजे दक्षिणास्यम् ॥ ६ ॥

गुणान्षट्शमादीनिहामुत्र भोगे

विरक्तिं विवेकं ध्रुवानित्ययोश्च ।

मुमुक्षां च शीघ्रं लभेत प्रसादात्

तमानन्दकन्दं भजे दक्षिणास्यम् ॥ ७ ॥

जडो जन्ममूकोऽपि यन्मन्त्रजप्तुः

करस्पर्शनात्स्यात्सुराचार्यतुल्यः ।

तमज्ञानवारान्निधेर्वाडवाग्निं

मुदा सर्वकालं भजे दक्षिणास्यम् ॥ ८ ॥

जहौ मृत्युभीतिं यदीयाङ्घ्रिपद्मं

सदा पूजयित्वा मृकण्डोस्तनूजः ।

तमद्रीन्द्रकन्यासमाश्लिष्टदेहं

कृपावारिराशिं भजे दक्षिणास्यम् ॥ ९ ॥

पुरा कामयाना पतिं स्वानुरूपां

चरित्वा तपो दुष्करं शैलकन्या ।

अवापादराद्या रुचा कामगर्वं

हरन्तं तमन्तर्भजे दक्षिणास्यम् ॥ १० ॥

यदीयाङ्घ्रिसेवापराणां नराणां

सुसाध्या भवेयुर्जवात्सर्वयोगाः ।

हठाद्याः शिवान्ता यमाद्यङ्गयुक्ता

मुदा सन्ततं तं भजे दक्षिणास्यम् ॥ ११ ॥

वटागस्य मूले वसन्तं सुरस्त्री-

-कदम्बैः सदा सेव्यमानं प्रमोदात् ।

वरान् कामितान्नम्रपङ्क्त्यै दिशन्तं

दयाजन्मभूमिं भजे दक्षिणास्यम् ॥ १२ ॥

विधूताभिमानैस्तनौ चक्षुरादा-

-वहन्त्वेन सम्प्राप्यमेकाग्रचित्तैः ।

यतीन्द्रैर्गुरुश्रेष्ठविज्ञाततत्त्वै-

-र्महावाक्यगूढं भजे दक्षिणास्यम् ॥ १३ ॥

शुकाद्या मुनीन्द्रा विरक्ताग्रगण्याः

समाराध्य यं ब्रह्मविद्यामवापुः ।

तमल्पार्चनातुष्टचेतोऽम्बुजातं

चिदानन्दरूपं भजे दक्षिणास्यम् ॥ १४ ॥

श्रुतेर्युक्तितश्चिन्तनाद्ध्यानयोगा-

-द्भवेद्यस्य साक्षात्कृतिः पुण्यभाजाम् ।

अखण्डं सदानन्दचिद्रूपमन्तः

सदाहं मुदा तं भजे दक्षिणास्यम् ॥ १५ ॥

सुवर्णाद्रिचापं रमानाथबाणं

दिनेशेन्दुचक्रं धरास्यन्दनाग्र्यम् ।

विधिं सारथिं नागनाथं च मौर्वीं

प्रकुर्वाणमीशं भजे दक्षिणास्यम् ॥ १६ ॥

कराम्भोरुहैः पुस्तकं बोधमुद्रां

सुधापूर्णकुम्भं स्रजं मौक्तिकानाम् ।

दधानं धराधीशमौलौ शयानं

शशाङ्कार्धचूडं भजे दक्षिणास्यम् ॥ १७ ॥

कलादानदक्षं तुलाशून्यवक्त्रं

शिलादात्मजेड्यं वलारातिपूज्यम् ।

जलाद्यष्टमूर्तिं कलालापयुक्तं

फलालिं दिशन्तं भजे दक्षिणास्यम् ॥ १८ ॥

यदालोकमात्रान्नतानां हृदब्जे

शमाद्या गुणाः सत्वरं सम्भवन्ति ।

प्रणम्रालिचेतःसरोजातभानुं

गुरुं तं सुरेड्यं नमामो भजामः ॥ १९ ॥

पिनद्धानि भक्त्याख्यसूत्रेण कण्ठे

सदेमानि रत्नानि धत्ते दृढं यः ।

मुदा मुक्तिकान्ता द्रुतं तं वृणीते

स्वयं शान्तिदान्तिप्रमुख्यालियुक्ता ॥ २० ॥

इति श्रीजगद्गुरु श्रीसच्चिदानन्द शिवाभिनव नृसिंह भारती स्वामिभिः विरचितं श्री दक्षिणास्य भुजङ्गप्रयात स्तुतिः ॥

sri dakshinamurthy bhujanga prayata stuti