Skip to main content
पडताळणी प्रलंबित

रुद्राध्याय स्तुतिः (रुद्र नमक स्तोत्रम्)

ध्यानम् ।

आपाताल नभः स्थलान्त भुवन ब्रह्माण्डमाविस्फुर-

-ज्ज्योतिःस्फाटिकलिङ्ग मौलिविलसत् पूर्णेन्दु वान्तामृतैः ।

अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकान् जपन्

ध्यायेदीप्सितसिद्धये ध्रुवपदं विप्रोऽभिषिञ्चेच्छिवम् ॥

ब्रह्माण्डव्याप्तदेहा भसित हिमरुचा भासमाना भुजङ्गैः

कण्ठे कालाः कपर्दाः कलितशशिकलाश्चण्ड कोदण्ड हस्ताः ।

त्र्यक्षा रुद्राक्षमालाः सुललितवपुषः शाम्भवा मूर्तिभेदाः

रुद्राः श्रीरुद्रसूक्त प्रकटित विभवाः नः प्रयच्छन्तु सौख्यम् ॥

इत्युक्त्वा सत्वरं साम्बं स्मृत्वा शङ्करपादुके ।

ध्यात्वा ययौ गणाधीशः शिवसन्निधिमादरात् ॥

ततः प्रणम्य बहुधा कृताञ्जलिपुटः प्रभुम् ।

शम्भुं स्तोतुं मतिं चक्रे सर्वाभीष्टप्रदायकम् ॥

गणेश उवाच ।

नमस्ते देवदेवाय नमस्ते रुद्रमन्यवे ।

नमस्ते चन्द्रचूडायाप्युतोत इषवे नमः ॥ १ ॥

नमस्ते पार्वतीकान्तायैकरूपाय धन्वने । [मेरुधन्वने]

नमस्ते भगवन् शम्भो बाहुभ्यामुत ते नमः ॥ २ ॥

इषुः शिवतमा या ते तया मृडाय रुद्र माम् ।

शिवं धनुर्यद्बभूव तेनापि मृडयाधुना ॥ ३ ॥

शरव्या या शिवतमा तयापि मृडय प्रभो ।

या ते रुद्र शिवा नित्यं सर्वमङ्गलसाधनम् ॥ ४ ॥

तयाभिचाकशीहि त्वं तनुवा मामुमापते ।

अघोरयापि तनुवा रुद्राद्या पापकाशिनी ॥ ५ ॥

या तया मृडय स्वामिन् सदा शन्तमया प्रभो ।

गिरिशन्तं महारुद्र हस्ते यामिषुमस्तवे ॥ ६ ॥

बिभर्षि तां गिरित्राद्य शिवां कुरु शिवापते ।

शिवेन वचसा रुद्र नित्यं वाचा वदामसि ॥ ७ ॥

त्वद्भक्ति परिपूताङ्गं महिंसीः पुरुषं जगत् ।

यच्च शर्व जगत्सर्वमयक्ष्मं सुमना असत् ॥ ८ ॥

यथा तथावमां रुद्र तदन्यधापि मे प्रभो ।

रुद्र त्वं प्रथमो दैव्यो भिषक् पापविनाशकः ॥ ९ ॥

अधिवक्ताऽध्यवोचन्मां भावलिङ्गार्चकं मुदा ।

अहीन् सर्वान् यातु धान्यः सर्वा अप्यद्य जम्भयन् ॥ १० ॥

असौ ताम्रोरुणो बभ्रुः नीलग्रीवः सुमङ्गलः ।

विलोहितोस्त्वयं शम्भो त्वदधिष्ठान एव हि ॥ ११ ॥

नमो नमस्ते भगवन् नीलग्रीवाय मीढुषे ।

सहस्राक्षाय शुद्धाय सच्चिदानन्दमूर्तये ॥ १२ ॥

उभयोगार्त्नियोर्ज्या या धन्वनस्तां प्रमुञ्चताम् ।

सम्प्राप्य धनुरन्येषां भयाय प्रभविष्यति ॥ १३ ॥

अस्मद्भय विनाशार्थ मधुनाभयद प्रभो ।

याश्च ते हस्त इषवः परता भगवो वाप ॥ १४ ॥

अवतत्य धनुश्च त्वं सहस्राक्ष शतेषुधे ।

मुखा निशीर्य शल्यानां शिवो नः सुमना भव ॥ १५ ॥

विज्यं धनुरिदं भूयात् विशल्यो बाणवानपि ।

अनेशन्निषवश्चापि ह्याभुरस्तु निषङ्गथिः ॥ १६ ॥

कपर्दिनो महेशस्य यदि नाभुर्निषङ्गथिः ।

इषवो पि समर्थाश्चेत् सामर्थ्येतु भयं भवेत् ॥ १७ ॥

या ते हेतिर्धनुर्हस्ते मीढुष्टम बभूव या ।

तयाऽस्मान् विश्वतस्तेन पालय त्वमयक्ष्मया ॥ १८ ॥

अनाततायायुधाय नमस्ते धृष्णवे नमः ।

बाहुभ्यां धन्वने शम्भो नमो भूयो नमो नमः ॥ १९ ॥

परिते धन्वनो हेतिः विश्वतोऽस्मान् वृणक्तु नः ।

इषुधिस्तव या तावदस्मदारे निधेहि तम् ॥ २० ॥

हिरण्यबाहवे तुभ्यं सेनान्ये ते नमो नमः ।

दिशां च पतये तुभ्यं पशूनां पतये नमः ॥ २१ ॥

त्विषीमते नमस्तुभ्यं नमः सस्पिञ्जराय ते ।

नमः पथीनां पतये बभ्लुशाय नमो नमः ॥ २२ ॥

नमो विव्याधिनेन्नानां पतये प्रभवे नमः ।

नमस्ते हरिकेशाय रुद्रायास्तूपवीतिने ॥ २३ ॥

पुष्टानां पतये तुभ्यं जगतां पतये नमः ।

संसार हेति रूपाय रुद्रायाप्याततायिने ॥ २४ ॥

क्षेत्राणां पतये तुभ्यं सूताय सुकृतात्मने ।

अहन्त्याय नमस्तुभ्यं वनानां पतये नमः ॥ २५ ॥

रोहिताय स्थपतये मन्त्रिणे वाणिजाय च ।

कक्षाणां पतये तुभ्यं नमस्तुभ्यं भुवन्तये ॥ २६ ॥

तद्वारिवस्कृतायास्तु महादेवाय ते नमः ।

ओषाधीनां च पतये नमस्तुभ्यं महात्मने ॥ २७ ॥

उच्चैर्घोषाय धीराय धीरान् क्रन्दयते नमः ॥ २८ ॥

पत्तीनां पतये तुभ्यं कृत्स्नवीताय ते नमः ।

धावते धवलायापि सत्त्वनां पतये नमः ॥ २९ ॥

आव्याधिनीनां पतये ककुभाय निषङ्गिणे ।

स्तेनानां पतये तुभ्यं दिव्येषुधिमते नमः ॥ ३० ॥

तस्कराणां च पतये वञ्चते परिवञ्चते ।

स्तायूनां पतये तुभ्यं नमस्तेऽस्तु निचेरवे ॥ ३१ ॥

नमः परिचरायाऽपि महारुद्राय ते नमः ।

अरण्यानां च पतये मुष्णतां पतये नमः ॥ ३२ ॥

उष्णीषिणे नमस्तुभ्यं नमो गिरिचराय ते ।

कुलुञ्चानां च पतये नमस्तुभ्यं भवाय च ॥ ३३ ॥

नमो रुद्राय शर्वाय तुभ्यं पशुपते नमः ।

नम उग्राय भीमाय नमश्चाग्रेवधाय च ॥ ३४ ॥

नमो दूरेवधायाऽपि नमो हन्त्रे नमो नमः ।

हनीयसे नमस्तुभ्यं नीलग्रीवाय ते नमः ॥ ३५ ॥

नमस्ते शितिकण्ठाय नमस्तेऽस्तु कपर्दिने ।

नमस्ते व्युप्तकेशाय सहस्राक्षाय मीढुषे ॥ ३६ ॥

गिरिशाय नमस्तेऽस्तु शिपिविष्टाय ते नमः ।

नमस्ते शम्भवे तुभ्यं मयोभव नमोऽस्तु ते ॥ ३७ ॥

मयस्कर नमस्तुभ्यं शङ्कराय नमो नमः ।

नमः शिवाय शर्वाय नमः शिवतराय च ॥ ३८ ॥

नमस्तीर्थ्याय कूल्याय नमः पार्याय ते नमः ।

आवार्याय नमस्तेऽस्तु नमः प्रतरणाय च ॥ ३९ ॥

नम उत्तरणायाऽपि हरातार्याय ते नमः ।

आलाद्याय नमस्तेऽस्तु भक्तानां वरदाय च ॥ ४० ॥

नमः शष्प्याय फेन्याय सिकत्याय नमो नमः ।

प्रवाह्याय नमस्तेऽस्तु ह्रस्वायाऽस्तु नमो नमः ॥ ४१ ॥

वामनाय नमस्तेऽस्तु बृहते च नमो नमः ।

वर्षीयसे नमस्तेऽस्तु नमो वृद्धाय ते नमः ॥ ४२ ॥

संवृध्वने नमस्तुभ्यमग्रियाय नमो नमः ।

प्रथमाय नमस्तुभ्यमाशवे चाजिराय च ॥ ४३ ॥

शीघ्रियाय नमस्तेऽस्तु शीभ्याय च नमो नमः ।

नम ऊर्म्याय शर्वायाऽप्यवस्वन्याय ते नमः ॥ ४४ ॥

स्रोतस्याय नमस्तुभ्यं द्वीप्याय च नमो नमः ।

ज्येष्ठाय च नमस्तुभ्यं कनिष्ठाय नमो नमः ॥ ४५ ॥

पूर्वजाय नमस्तुभ्यं नमोस्त्वपरजाय च ।

मध्यमाय नमस्तुभ्यमपगल्भाय ते नमः ॥ ४६ ॥

जघन्याय नमस्तुभ्यं बुध्नियाय नमो नमः ।

सोभ्याय प्रतिसर्याय याम्याय च नमो नमः ॥ ४७ ॥

क्षेम्याय च नमस्तुभ्यं याम्याय च नमो नमः ।

उर्वर्याय नमस्तुभ्यं खल्याय च नमो नमः ॥ ४८ ॥

श्लोक्याय चावसान्यायावस्वन्याय च ते नमः ।

नमो वन्याय कक्ष्याय मौञ्ज्याय च नमो नमः ॥ ४९ ॥

श्रवाय च नमस्तुभ्यं प्रतिश्रव नमो नमः ।

आशुषेणाय शूराय नमोस्त्वाऽशुरथाय च ॥ ५० ॥

वरूथिने पर्मिणे च बिल्मिने च नमो नमः ।

श्रुताय श्रुतसेनाय नमः कवचिने नमः ॥ ५१ ॥

दुन्दुभ्याय नमस्तुभ्यमाहनन्याय ते नमः ।

प्रहिताय नमस्तुभ्यं धृष्णवे प्रमृशाय च ॥ ५२ ॥

पाराय पारविन्दाय नमस्तीक्ष्णेषवे नमः ।

सुधन्वने नमस्तुभ्यं स्वायुधाय नमो नमः ॥ ५३ ॥

नमः स्रुत्याय पथ्याय नमः काट्याय ते नमः ।

नमो नीप्याय सूद्याय सरस्याय च ते नमः ॥ ५४ ॥

नमो नाद्याय भव्याय वैशन्ताय नमो नमः ।

अवट्याय नमस्तुभ्यं नमः कूप्याय ते नमः ॥ ५५ ॥

अवर्ष्याय च वर्ष्याय मेघ्याय च नमो नमः ।

विद्युत्याय नमस्तुभ्यमीध्रियाय नमो नमः ॥ ५६ ॥

आतप्याय नमस्तुभ्यं वात्याय च नमो नमः ।

रेष्मियाय नमस्तुभ्यं वास्तव्याय च ते नमः ॥ ५७ ॥

वास्तुपाय नमस्तुभ्यं नमः सोमाय ते नमः ।

नमो रुद्राय ताम्रायाऽप्यरुणाय च ते नमः ॥ ५८ ॥

नम उग्राय भीमाय नमः शङ्गाय ते नमः ।

नमस्तीर्थ्याय कूल्याय सिकत्याय नमो नमः ॥ ५९ ॥

प्रवाह्याय नमस्तुभ्यमिरिण्याय नमो नमः ।

नमस्ते चन्द्रचूडाय प्रपथ्याय नमो नमः ॥ ६० ॥

किंशिलाय नमस्तेऽस्तु क्षयणाय च ते नमः ।

कपर्दिने नमस्तेऽस्तु नमस्तेऽस्तु पुलस्तये ॥ ६१ ॥

नमो गोष्ठ्याय गृह्याय ग्रहाणां पतये नमः ।

नमस्तल्प्याय गेह्याय गुहावासाय ते नमः ॥ ६२ ॥

काट्याय गह्वरेष्ठाय ह्रदय्याय च ते नमः ।

निवेष्प्याय नमस्तुभ्यं पांसव्याय ते नमः ॥ ६३ ॥

रजस्याय नमस्तुभ्यं परात्पर तराय च ।

नमस्ते हरिकेशाय शुष्क्याय च नमो नमः ॥ ६४ ॥

हरित्याय नमस्तुभ्यं हरिद्वर्णाय ते नमः ।

नमः उर्म्याय सूर्म्याय पर्ण्याय च नमो नमः ॥ ६५ ॥

नमोपगुरमाणाय पर्णशद्याय ते नमः ।

अभिघ्नते चाख्खिदते नमः प्रख्खिदते नमः ॥ ६६ ॥

विश्वरूपाय विश्वाय विश्वाधाराय ते नमः ।

त्र्यम्बकाय च रुद्राय गिरिजापतये नमः ॥ ६७ ॥

मणिकोटीरकोटिस्थ कान्तिदीप्ताय ते नमः ।

वेदवेदान्त वेद्याय वृषारूढाय ते नमः ॥ ६८ ॥

अविज्ञेयस्वरूपाय सुन्दराय नमो नमः ।

उमाकान्त नमस्तेऽस्तु नमस्ते सर्वसाक्षिणे ॥ ६९ ॥

हिरण्यबाहवे तुभ्यं हिरण्याभरणाय च ।

नमो हिरण्यरूपाय रूपातीताय ते नमः ॥ ७० ॥

हिरण्यपतये तुभ्यमम्बिकापतये नमः ।

उमायाः पतये तुभ्यं नमः पापप्रणाशक ॥ ७१ ॥

मीढुष्टमाय दुर्गाय कद्रुद्राय प्रचेतसे ।

तव्यसे बिल्वपूज्याय नमः कल्याणरूपिणे ॥ ७२ ॥

अपार कल्याण गुणार्णवाय

श्री नीलकण्ठाय निरञ्जनाय ।

कालान्तकायापि नमो नमस्ते

दिक्कालरूपाय नमो नमस्ते ॥ ७३ ॥

वेदान्तबृन्दस्तुत सद्गुणाय

गुणप्रवीणाय गुणाश्रयाय ।

श्री विश्वनाथाय नमो नमस्ते

काशीनिवासाय नमो नमस्ते ॥ ७४ ॥

अमेय सौन्दर्य सुधानिधान

समृद्धिरूपाय नमो नमस्ते ।

धराधराकार नमो नमस्ते

धारास्वरूपाय नमो नमस्ते ॥ ७५ ॥

नीहार शैलात्मज हृद्विहार

प्रकाशहार प्रविभासि वीर ।

वीरेश्वरापार दयानिधान

पाहि प्रभो पाहि नमो नमस्ते ॥ ७६ ॥

व्यास उवाच ।

एवं स्तुत्वा महादेवं प्रणिपत्य पुनः पुनः ।

कृताञ्जलिपुटस्तस्थौ पार्श्वे डुण्ठिविनायकः ॥ ७७ ॥

तमालोक्य सुतं प्राप्तं वेदं वेदाङ्गपारगम् ।

स्नेहाश्रुधारा संवीतं प्राह डुण्ठिं सदाशिवः ॥ ७८ ॥

इति श्री शिवरहस्ये हराख्ये तृतीयांशे पूर्वार्थे गणेशकृत रुद्राध्याय स्तुतिः नाम दशमोऽध्यायः ।

अनेन श्रीगणेशकृत श्लोकात्मक रुद्रध्याय पारायणेन श्री विश्वेश्वरः सुप्रीतः सुप्रसन्नो वरदो भवतु ।

rudradhyaya stuti shatarudriyam