Skip to main content
पडताळणी प्रलंबित

श्री कमला अष्टोत्तरशतनाम स्तोत्रम्

श्री शिव उवाच ।

शतमष्टोत्तरं नाम्नां कमलाया वरानने ।

प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् ॥ १ ॥

ओं महामाया महालक्ष्मीर्महावाणी महेश्वरी ।

महादेवी महारात्रिर्महिषासुरमर्दिनी ॥ २ ॥

कालरात्रिः कुहूः पूर्णानन्दाद्या भद्रिका निशा ।

जया रिक्ता महाशक्तिर्देवमाता कृशोदरी ॥ ३ ॥

शचीन्द्राणी शक्रनुता शङ्करप्रियवल्लभा ।

महावराहजननी मदनोन्मथिनी मही ॥ ४ ॥

वैकुण्ठनाथरमणी विष्णुवक्षःस्थलस्थिता ।

विश्वेश्वरी विश्वमाता वरदाऽभयदा शिवा ॥ ५ ॥

शूलिनी चक्रिणी मा च पाशिनी शङ्खधारिणी ।

गदिनी मुण्डमाला च कमला करुणालया ॥ ६ ॥

पद्माक्षधारिणी ह्यम्बा महाविष्णुप्रियङ्करी ।

गोलोकनाथरमणी गोलोकेश्वरपूजिता ॥ ७ ॥

गया गङ्गा च यमुना गोमती गरुडासना ।

गण्डकी सरयूस्तापी रेवा चैव पयस्विनी ॥ ८ ॥

नर्मदा चैव कावेरी केदारस्थलवासिनी ।

किशोरी केशवनुता महेन्द्रपरिवन्दिता ॥ ९ ॥

ब्रह्मादिदेवनिर्माणकारिणी वेदपूजिता ।

कोटिब्रह्माण्डमध्यस्था कोटिब्रह्माण्डकारिणी ॥ १० ॥

श्रुतिरूपा श्रुतिकरी श्रुतिस्मृतिपरायणा ।

इन्दिरा सिन्धुतनया मातङ्गी लोकमातृका ॥ ११ ॥

त्रिलोकजननी तन्त्रा तन्त्रमन्त्रस्वरूपिणी ।

तरुणी च तमोहन्त्री मङ्गला मङ्गलायना ॥ १२ ॥

मधुकैटभमथनी शुम्भासुरविनाशिनी ।

निशुम्भादिहरा माता हरिशङ्करपूजिता ॥ १३ ॥

सर्वदेवमयी सर्वा शरणागतपालिनी ।

शरण्या शम्भुवनिता सिन्धुतीरनिवासिनी ॥ १४ ॥

गन्धर्वगानरसिका गीता गोविन्दवल्लभा ।

त्रैलोक्यपालिनी तत्त्वरूपा तारुण्यपूरिता ॥ १५ ॥

चन्द्रावली चन्द्रमुखी चन्द्रिका चन्द्रपूजिता ।

चन्द्रा शशाङ्कभगिनी गीतवाद्यपरायणा ॥ १६ ॥

सृष्टिरूपा सृष्टिकरी सृष्टिसंहारकारिणी ।

इति ते कथितं देवि रमानामशताष्टकम् ॥ १७ ॥

त्रिसन्ध्यं प्रयतो भूत्वा पठेदेतत्समाहितः ।

यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ १८ ॥

इमं स्तवं यः पठतीह मर्त्यो

वैकुण्ठपत्न्याः परमादरेण ।

धनाधिपाद्यैः परिवन्दितः स्यात्

प्रयास्यति श्रीपदमन्तकाले ॥ १९ ॥

इति श्री कमलाष्टोत्तरशतनामस्तोत्रम् ।

sri kamala ashtottara shatanama stotram