Skip to main content
पडताळणी प्रलंबित

श्री वाराही अष्टोत्तरशतनाम स्तोत्रम्

किरिचक्ररथारूढा शत्रुसंहारकारिणी ।

क्रियाशक्तिस्वरूपा च दण्डनाथा महोज्ज्वला ॥ १ ॥

हलायुधा हर्षदात्री हलनिर्भिन्नशात्रवा ।

भक्तार्तितापशमनी मुसलायुधशोभिनी ॥ २ ॥

कुर्वन्ती कारयन्ती च कर्ममालातरङ्गिणी ।

कामप्रदा भगवती भक्तशत्रुविनाशिनी ॥ ३ ॥

उग्ररूपा महादेवी स्वप्नानुग्रहदायिनी ।

कोलास्या चन्द्रचूडा च त्रिनेत्रा हयवाहना ॥ ४ ॥

पाशहस्ता शक्तिपाणिः मुद्गरायुधधारिणि ।

हस्ताङ्कुशा ज्वलन्नेत्रा चतुर्बाहुसमन्विता ॥ ५ ॥

विद्युद्वर्णा वह्निनेत्रा शत्रुवर्गविनाशिनी ।

करवीरप्रिया माता बिल्वार्चनवरप्रदा ॥ ६ ॥

वार्ताली चैव वाराही वराहास्या वरप्रदा ।

अन्धिनी रुन्धिनी चैव जम्भिनी मोहिनी तथा ॥ ७ ॥

स्तम्भिनी चेतिविख्याता देव्यष्टकविराजिता ।

उग्ररूपा महादेवी महावीरा महाद्युतिः ॥ ८ ॥

किरातरूपा सर्वेशी अन्तःशत्रुविनाशिनी ।

परिणामक्रमा वीरा परिपाकस्वरूपिणी ॥ ९ ॥

नीलोत्पलतिलैः प्रीता शक्तिषोडशसेविता ।

नारिकेलोदक प्रीता शुद्धोदक समादरा ॥ १० ॥

उच्चाटनी तदीशी च शोषणी शोषणेश्वरी ।

मारणी मारणेशी च भीषणी भीषणेश्वरी ॥ ११ ॥

त्रासनी त्रासनेशी च कम्पनी कम्पनीश्वरी ।

आज्ञाविवर्तिनी पश्चादाज्ञाविवर्तिनीश्वरी ॥ १२ ॥

वस्तुजातेश्वरी चाथ सर्वसम्पादनीश्वरी ।

निग्रहानुग्रहदक्षा च भक्तवात्सल्यशोभिनी ॥ १३ ॥

किरातस्वप्नरूपा च बहुधाभक्तरक्षिणी ।

वशङ्करी मन्त्ररूपा हुम्बीजेनसमन्विता ॥ १४ ॥

रंशक्तिः क्लीं कीलका च सर्वशत्रुविनाशिनी ।

जपध्यानसमाराध्या होमतर्पणतर्पिता ॥ १५ ॥

दंष्ट्राकरालवदना विकृतास्या महारवा ।

ऊर्ध्वकेशी चोग्रधरा सोमसूर्याग्निलोचना ॥ १६ ॥

रौद्रीशक्तिः पराव्यक्ता चेश्वरी परदेवता ।

विधिविष्णुशिवाद्यर्च्या मृत्युभीत्यपनोदिनी ॥ १७ ॥

जितरम्भोरुयुगला रिपुसंहारताण्डवा ।

भक्तरक्षणसंलग्ना शत्रुकर्मविनाशिनी ॥ १८ ॥

तार्क्ष्यारूढा सुवर्णाभा शत्रुमारणकारिणी ।

अश्वारूढा रक्तवर्णा रक्तवस्त्राद्यलङ्कृता ॥ १९ ॥

जनवश्यकरी माता भक्तानुग्रहदायिनी ।

दंष्ट्राधृतधरा देवी प्राणवायुप्रदा सदा ॥ २० ॥

दूर्वास्या भूप्रदा चापि सर्वाभीष्टफलप्रदा ।

त्रिलोचनऋषिप्रीता पञ्चमी परमेश्वरी ।

सेनाधिकारिणी चोग्रा वाराही च शुभप्रदा ॥ २१ ॥

इति श्री वाराही अष्टोत्तरशतनाम स्तोत्रम् ॥

sri varahi ashtottara shatanama stotram