Skip to main content
पडताळणी प्रलंबित

श्री ब्रह्म स्तवम् (अभीष्टद)

नमो हिरण्यगर्भाय ब्रह्मणे ब्रह्मरूपिणे ।

अविज्ञातस्वरूपाय कैवल्यायामृताय च ॥ १ ॥

यं न देवा विजानन्ति मनो यत्रापि कुण्ठितम् ।

न यत्र वाक् प्रसरति नमस्तस्मै चिदात्मने ॥ २ ॥

योगिनो यं हृदाकाशे प्रणिधानेन निश्चलाः ।

ज्योतिरूपं प्रपश्यन्ति तस्मै श्रीब्रह्मणे नमः ॥ ३ ॥

कालात् पराय कालाय स्वेच्छया पुरुषाय च ।

गुणत्रयस्वरूपाय नमः प्रकृतिरूपिणे ॥ ४ ॥

विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे ।

तमसे रुद्ररूपाय स्थितिसर्गान्तकारिणे ॥ ५ ॥

नमो बुद्धिस्वरूपाय त्रिधाहङ्कृतये नमः ।

पञ्चतन्मात्ररूपाय पञ्चकर्मेन्द्रियात्मने ॥ ६ ॥

नमो मनः स्वरूपाय पञ्चबुद्धीन्द्रियात्मने ।

क्षित्यादि पञ्चरूपाय नमस्ते विषयात्मने ॥ ७ ॥

नमो ब्रह्माण्डरूपाय तदन्तर्वर्तिने नमः ।

अर्वाचीन पराचीन विश्वरूपाय ते नमः ॥ ८ ॥

अनित्यनित्यरूपाय सदसत्पतये नमः ।

समस्तभक्तकृपया स्वेच्छाविष्कृतविग्रह ॥ ९ ॥

तव निश्वसितं देवाः तव स्वेदोऽखिलं जगत् ।

विश्वा भूतानि ते पादः शीर्ष्णो द्यौः समवर्तत ॥ १० ॥

नाभ्या आसीदन्तरिक्षं लोमानि च वनस्पतिः ।

चन्द्रमा मनसो जातः चक्षोः सूर्यस्तव प्रभो ॥ ११ ॥

त्वमेव सर्वं त्वयि देव सर्वं

स्तोता स्तुति स्तव्य इह त्वमेव ।

ईशा त्वया वास्यमिदं हि सर्वं

नमोऽस्तु भूयोऽपि नमो नमस्ते ॥ १२ ॥

इति स्तुत्वा विधिं देवाः निपेतुर्दण्डवत् क्षितौ ।

परितुष्टस्तदा ब्रह्मा प्रत्युवाच दिवौकसः ॥ १३ ॥

ब्रह्मोवाच ।

यथार्थयाऽनया स्तुत्या तुष्टोऽस्मि प्रणताः सुराः ।

उत्तिष्ठत प्रसन्नोऽस्मि वृणुध्वं वरमुत्तमम् ॥ १४ ॥

यः स्तोष्यत्यनया स्तुत्या श्रद्धावान् प्रत्यहं शुचिः ।

मां वा हरं वा विष्णुं वा तस्य तुष्टाः सदा वयम् ॥ १५ ॥

दास्यामः सकलान् कामान् पुत्रान् पौत्रान् पशून् वसु ।

सौभाग्यमायुरारोग्यं निर्भयत्वं रणे जयम् ॥ १६ ॥

ऐहिकामुष्मिकान् भोगान् अपवर्गं तथाऽक्षयम् ।

यद्यदिष्टतमं तस्य तत्तत्सर्वं भविष्यति ॥ १७ ॥

तस्मात् सर्वप्रयत्नेन पठितव्यः स्तवोत्तमः ।

अभीष्टद इति ख्यातः स्तवोऽयं सर्वसिद्धिदः ॥ १८ ॥

इति श्रीस्कान्दपुराणे काशीखण्डे अभीष्टद नाम श्री ब्रह्म स्तवम् ॥

abhistada sri brahma stotram