Skip to main content
पडताळणी प्रलंबित

श्री गर्भरक्षाम्बिका स्तोत्रम्

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

वापीतटे वामभागे

वामदेवस्य देवस्य देवि स्थिता त्वम् ।

मान्या वरेण्या वदान्या

पाहि गर्भस्थजन्तून् तथा भक्तलोकान् ॥ १ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

श्रीगर्भरक्षापुरे या

दिव्यसौन्दर्ययुक्ता सुमाङ्गल्यगात्री ।

धात्री जनित्री जनानां

दिव्यरूपां दयार्द्रां मनोज्ञां भजे त्वाम् ॥ २ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

आषाढमासे सुपुण्ये

शुक्रवारे सुगन्धेन गन्धेन लिप्ता ।

दिव्याम्बराकल्पवेषा

वाजपेयादियागस्थभक्तैः सुदृष्टा ॥ ३ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

कल्याणदात्रीं नमस्ये

वेदिकाढ्यस्त्रिया गर्भरक्षाकरीं त्वाम् ।

बालैस्सदा सेविताङ्घ्रिं

गर्भरक्षार्थमारादुपेतैरुपेताम् ॥ ४ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

ब्रह्मोत्सवे विप्रवीथ्यां

वाद्यघोषेण तुष्टां रथे सन्निविष्टाम् ।

सर्वार्थदात्रीं भजेऽहं

देववृन्दैरपीड्यां जगन्मातरं त्वाम् ॥ ५ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

एतत् कृतं स्तोत्ररत्नं

दीक्षितानन्तरामेण देव्याश्च तुष्ट्यै ।

नित्यं पठेद्यस्तु भक्त्या

पुत्रपौत्रादि भाग्यं भवेत्तस्य नित्यम् ॥ ६ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

इति श्रीअनन्तरामदीक्षितवर्य विरचितं गर्भरक्षाम्बिका स्तोत्रम् ॥

garbha rakshambika stotram