Skip to main content
पडताळणी प्रलंबित

श्री भद्रकाली स्तुतिः

ब्रह्मविष्णु ऊचतुः ।

नमामि त्वां विश्वकर्त्रीं परेशीं

नित्यामाद्यां सत्यविज्ञानरूपाम् ।

वाचातीतां निर्गुणां चातिसूक्ष्मां

ज्ञानातीतां शुद्धविज्ञानगम्याम् ॥ १ ॥

पूर्णां शुद्धां विश्वरूपां सुरूपां

देवीं वन्द्यां विश्ववन्द्यामपि त्वाम् ।

सर्वान्तःस्थामुत्तमस्थानसंस्था-

-मीडे कालीं विश्वसम्पालयित्रीम् ॥ २ ॥

मायातीतां मायिनीं वापि मायां

भीमां श्यामां भीमनेत्रां सुरेशीम् ।

विद्यां सिद्धां सर्वभूताशयस्था-

-मीडे कालीं विश्वसंहारकर्त्रीम् ॥ ३ ॥

नो ते रूपं वेत्ति शीलं न धाम

नो वा ध्यानम् नापि मन्त्रं महेशि ।

सत्तारूपे त्वां प्रपद्ये शरण्ये

विश्वाराध्ये सर्वलोकैकहेतुम् ॥ ४ ॥

द्यौस्ते शीर्षं नाभिदेशो नभश्च

चक्षूंषि ते चन्द्रसूर्यानलास्ते ।

उन्मेषास्ते सुप्रबोधो दिवा च

रात्रिर्मातश्चक्षुषोस्ते निमेषम् ॥ ५ ॥

वाक्यं देवा भूमिरेषा नितम्बं

पादौ गुल्फं जानुजङ्घस्त्वधस्ते ।

प्रीतिर्धर्मोऽधर्मकार्यं हि कोपः

सृष्टिर्बोधः संहृतिस्ते तु निद्रा ॥ ६ ॥

अग्निर्जिह्वा ब्राह्मणास्ते मुखाब्जं

सन्ध्ये द्वे ते भ्रूयुगं विश्वमूर्तिः ।

श्वासो वायुर्बाहवो लोकपालाः

क्रीडा सृष्टिः संस्थितिः संहृतिस्ते ॥ ७ ॥

एवम्भूतां देवि विश्वात्मिकां त्वां

कालीं वन्दे ब्रह्मविद्यास्वरूपाम् ।

मातः पूर्णे ब्रह्मविज्ञानगम्ये

दुर्गेऽपारे साररूपे प्रसीद ॥ ८ ॥

इति श्रीमहाभागवते महापुराणे ब्रह्मविष्णुकृता श्री भद्रकाली स्तुतिः ।

sri bhadrakali stuti