Skip to main content
पडताळणी प्रलंबित

श्री कमलाम्बिका स्तोत्रम्

बन्धूकद्युतिमिन्दुबिम्बवदनां बृन्दारकैर्वन्दितां

मन्दारादि समर्चितां मधुमतीं मन्दस्मितां सुन्दरीम् ।

बन्धच्छेदनकारिणीं त्रिनयनां भोगापवर्गप्रदां

वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ १ ॥

श्रीकामेश्वरपीठमध्यनिलयां श्रीराजराजेश्वरीं

श्रीवाणीपरिसेविताङ्घ्रियुगलां श्रीमत्कृपासागराम् ।

शोकापद्भयमोचिनीं सुकवितानन्दैकसन्दायिनीं

वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ २ ॥

माया मोहविनाशिनीं मुनिगणैराराधितां तन्मयीं

श्रेयःसञ्चयदायिनीं गुणमयीं वाय्वादि भूतां सताम् ।

प्रातःकालसमानशोभमकुटां सामादि वेदैस्तुतां

वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ३ ॥

बालां भक्तजनौघचित्तनिलयां बालेन्दुचूडाम्बरां

सालोक्यादि चतुर्विधार्थफलदां नीलोत्पलाक्षीमजाम् ।

कालारिप्रियनायिकां कलिमलप्रध्वंसिनीं कौलिनीं

वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ४ ॥

आनन्दामृतसिन्धुमध्यनिलयामज्ञानमूलापहां

ज्ञानानन्दविवर्धिनीं विजयदां मीनेक्षणां मोहिनीम् ।

ज्ञानानन्दपरां गणेशजननीं गन्धर्वसम्पूजितां

वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ५ ॥

षट्चक्रोपरि नादबिन्दुनिलयां सर्वेश्वरीं सर्वगां

षट्शास्त्रागमवेदवेदितगुणां षट्कोणसंवासिनीम् ।

षट्कालेन समर्चितात्मविभवां षड्वर्गसञ्छेदिनीं

वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ६ ॥

योगानन्दकरीं जगत्सुखकरीं योगीन्द्रचित्तालयां

एकामीशसुखप्रदां द्विजनुतामेकान्तसञ्चारिणीम् ।

वागीशां विधिविष्णुशम्भुवरदां विश्वेश्वरीं वैणिकीं

वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ७ ॥

बोधानन्दमयीं बुधैरभिनुतां मोदप्रदामम्बिकां

श्रीमद्वेदपुरीशदासविनुतां ह्रीङ्कारसन्धालयाम् ।

भेदाभेदविवर्जितां बहुविधां वेदान्तचूडामणिं

वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ८ ॥

इत्थं श्रीकमलाम्बिकाप्रियकरं स्तोत्रं पठेद्यः सदा

पुत्रश्रीप्रदमष्टसिद्धिफलदं चिन्ताविनाशास्पदम् ।

एति ब्रह्मपदं निजं निरुपमं निष्कल्मषं निष्कलं

योगीन्द्रैरपि दुर्लभं पुनरयं चिन्ताविनाशं परम् ॥ ९ ॥

इति श्री कमलाम्बिका स्तोत्रम् ।

sri kamalambika stotram