Skip to main content
पडताळणी प्रलंबित

श्री सुब्रह्मण्य मङ्गलाष्टकम्

शिवयोस्तनुजायास्तु श्रितमन्दारशाखिने ।

शिखिवर्यतुरङ्गाय सुब्रह्मण्याय मङ्गलम् ॥ १ ॥

भक्ताभीष्टप्रदायास्तु भवरोगविनाशिने ।

राजराजादिवन्द्याय रणधीराय मङ्गलम् ॥ २ ॥

शूरपद्मादिदैतेयतमिस्रकुलभानवे ।

तारकासुरकालाय बालकायास्तु मङ्गलम् ॥ ३ ॥

वल्लीवदनराजीव मधुपाय महात्मने ।

उल्लसन्मणिकोटीरभासुरायास्तु मङ्गलम् ॥ ४ ॥

कन्दर्पकोटिलावण्यनिधये कामदायिने ।

कुलिशायुधहस्ताय कुमारायास्तु मङ्गलम् ॥ ५ ॥

मुक्ताहारलसत्कण्ठराजये मुक्तिदायिने ।

देवसेनासमेताय दैवतायास्तु मङ्गलम् ॥ ६ ॥

कनकाम्बरसंशोभिकटये कलिहारिणे ।

कमलापतिवन्द्याय कार्तिकेयाय मङ्गलम् ॥ ७ ॥

शरकाननजाताय शूराय शुभदायिने ।

शीतभानुसमास्याय शरण्यायास्तु मङ्गलम् ॥ ८ ॥

मङ्गलाष्टकमेतद्ये महासेनस्य मानवाः ।

पठन्ती प्रत्यहं भक्त्या प्राप्नुयुस्ते परां श्रियम् ॥ ९ ॥

इति श्री सुब्रह्मण्य मङ्गलाष्टकम् ।

sri subrahmanya mangala ashtakam