Skip to main content
पडताळणी प्रलंबित

श्री शारदा पञ्चरत्न स्तुतिः

श्रीमच्छङ्करदेशिकेन्द्ररचिते तुङ्गापगातीरगे

शृङ्गेर्याख्यपुरस्थिते सुविमले सन्मौनिसंसेविते ।

पीठे तां रविकोटिदीप्तिसहितां राराज्यमानां शिवां

राजीवाक्षमुखामरार्चितपदां वन्दे सदा शारदाम् ॥ १ ॥

पादानम्रजनार्तिनाशनिपुणां नादानुसन्धायिनीं

वेदान्तप्रतिपाद्यमानविभवां वादादिशक्तिप्रदाम् ।

विद्याकल्पलतां चतुर्मुखमुखाम्भोजातसूर्यायितां

विद्यातीर्थगुरूत्तमैरहरहः संसेव्यमानां भजे ॥ २ ॥

ईषत्स्मेरमुखाम्बुजां कुचभरानम्रां त्रिलोकावनीं

दैत्यव्रातविनाशिनीं कचजितप्रावृट्पयोदां शिवम् ।

संसारार्णवमग्नदीनजनतासन्तापसन्नाशिनीं

वन्दे तां शुभदामनन्यशरणः स्वान्ते सदा शारदाम् ॥ ३ ॥

कारुण्यामृतवारिराशिमनिशं केयूरहारैर्वृतां

कामारेः सहजां कराब्जविलसत्कीरां कुबेरार्चिताम् ।

कामक्रोधमुखारिवर्गशमनीं कैवल्यसम्पत्प्रदां

कञ्जोद्भूतमनःप्रियां हृदि भजे भक्त्या सदा शारदाम् ॥ ४ ॥

नित्याऽनित्यविवेकदाननिपुणां स्तुत्यां मुकुन्दादिभिः

यत्याकारशशाङ्कमौलिविनुतां सत्यापितस्वाश्रवाम् ।

नत्या केवलमेव तुष्टहृदयां त्यक्त्वाऽन्यदेवानहं

भक्त्या मे हृदयाम्बुजेऽनवरतं वन्दे सदा शारदाम् ॥ ५ ॥

इति श्री शारदा पञ्चरत्न स्तुतिः ।

sri sharada pancharatna stuti