Skip to main content
पडताळणी प्रलंबित

अरुणाचलाष्टकम्

दर्शनादभ्रसदसि जननात्कमलालये ।

काश्यां तु मरणान्मुक्तिः स्मरणादरुणाचले ॥ १ ॥

करुणापूरितापाङ्गं शरणागतवत्सलम् ।

तरुणेन्दुजटामौलिं स्मरणादरुणाचलम् ॥ २ ॥

समस्तजगदाधारं सच्चिदानन्दविग्रहम् ।

सहस्ररथसोपेतं स्मरणादरुणाचलम् ॥ ३ ॥

काञ्चनप्रतिमाभासं वाञ्छितार्थफलप्रदम् ।

मां च रक्ष सुराध्यक्षं स्मरणादरुणाचलम् ॥ ४ ॥

बद्धचन्द्रजटाजूटमर्धनारीकलेबरम् ।

वर्धमानदयाम्भोधिं स्मरणादरुणाचलम् ॥ ५ ॥

काञ्चनप्रतिमाभासं सूर्यकोटिसमप्रभम् ।

बद्धव्याघ्रपुरीध्यानम् स्मरणादरुणाचलम् ॥ ६ ॥

शिक्षयाखिलदेवारि भक्षितक्ष्वेलकन्धरम् ।

रक्षयाखिलभक्तानां स्मरणादरुणाचलम् ॥ ७ ॥

अष्टभूतिसमायुक्तमिष्टकामफलप्रदम् ।

शिष्टभक्तिसमायुक्तान् स्मरणादरुणाचलम् ॥ ८ ॥

विनायकसुराध्यक्षं विष्णुब्रह्मेन्द्रसेवितम् ।

विमलारुणपादाब्जं स्मरणादरुणाचलम् ॥ ९ ॥

मन्दारमल्लिकाजातिकुन्दचम्पकपङ्कजैः ।

इन्द्रादिपूजितां देवीं स्मरणादरुणाचलम् ॥ १० ॥

सम्पत्करं पार्वतीशं सूर्यचन्द्राग्निलोचनम् ।

मन्दस्मितमुखाम्भोजं स्मरणादरुणाचलम् ॥ ११ ॥

इति श्रीअरुणाचलाष्टकम् ॥

arunachala ashtakam