Skip to main content
पडताळणी प्रलंबित

श्री सोमसुन्दर स्तोत्रम् (कुलशेखरपाण्ड्य कृतम्)

कुलशेखरपाण्ड्य उवाच –

महानीपारण्यान्तर कनकपद्माकरतटी

महेन्द्रानीताष्टद्विपधृतविमानान्तरगतम् ।

महालीलाभूतप्रकटितविशिष्टात्मविभवं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ १ ॥

नमन्नालीकाक्षाम्बुज भवसुनाशीर मकुटी

वमन्माणिक्याम्शुस्फुरदरुणपादाब्जयुगलम् ।

अमन्दानन्दाब्धिं हरिनयनपद्मार्चितपदं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ २ ॥

महामातङ्गासृग्वरवसनमदीन्द्रतनया

महाभाग्यं मत्तान्धककरटिकण्ठीरववरम् ।

महाभोगीन्द्रोद्यत्फणगणिगणालङ्कृततनुं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ ३ ॥

समीराहारेन्द्राङ्गदमखिललोकैकजननं

समीराहारात्मा प्रणतजनहृत्पद्मनिलयम् ।

सुमीनाक्षी वक्त्राम्बुज तरुणसूरं सुमनसं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ ४ ॥

नताघौघारण्यानलमनिलभुङ्नाथवलयं

सुधाम्शोरर्धाम्शं शिरसि दधतं जह्नुतनयाम् ।

वदान्यानामाद्यं वरविबुधवन्द्यं वरगुणं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ ५ ॥

महादुग्धाम्बोधौमथनजवसम्भूतमसितं

महाकालं कण्ठे सकलभयभङ्गाय दधतम् ।

महाकारुण्याब्धिं मधुमथन दृग्दूरचरणं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ ६ ॥

दशास्याहङ्कार द्रुम कुलिशिताङ्गुष्ठनखरं

निशानाथ श्रीजिन्निजवदनबिम्बं निरवधिम् ।

विशालाक्षं विश्वप्रभव भरणोपायकरणं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ ७ ॥

अनाकारंहारिकृतभुजगराजं पुरहरं

सनाथं शर्वाण्या सरसिरुहपत्रायतदृशम् ।

दिनारम्भादित्यायुतशतनिभानन्दवपुषं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ ८ ॥

उमापीनोत्तुङ्ग स्तनतटल सत्कुङ्कुमरज-

स्समाहारात्यन्तारुणविपुलदोरन्तरतलम् ।

रमा वाणीन्द्राणीरतिविरचिताराधनविधिं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ ९ ॥

धरापाथस्स्वाहासहचर जगत्प्राणशशभृ-

त्सुराध्वाहर्नादाध्वर करशरीरं शशिधरम् ।

सुराहारास्वादातिशय निजवाचं सुखकरं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ १० ॥

धरापीठं धाराधरकलशमाकाशवपुषं

धराभृद्दोद्दण्डं तपन शशि वैश्वानरदृशम् ।

विराजन्नक्षत्र प्रसवमुदरीभूत जलधिं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ ११ ॥

सुपर्णाङ्कांभोजासन दृगति दूराङ्घ्रिमकुटं

सुवर्णाहार स्रक्सुरविटपिशाखायुतभुजम् ।

अपर्णापादाब्जाहति चलित चन्द्रार्थित जटं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ १२ ॥

मखारातिं मन्दस्मित मधुरबिम्बाधर लस-

न्मुखांभोजं मुग्धामृतकिरणचूडामणिधरम् ।

नखाकृष्टेभत्वक्परिवृत शरीरं पशुपतिं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ १३ ॥

सहस्राब्जैकोने निजनयनमुद्धृत्य जयते

सहस्राख्यापूर्त्यै सरसिजदृशे येन कृपया ।

सहस्रारं दत्तं तपन नियुताभं रथपदं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ १४ ॥

रथावन्याम्नायाश्वमजरथकारं रणपटुं

रथाङ्गादित्येन्दुं रथपद धरास्त्रं रथिवरम् ।

रथाधारेष्वासं रथधर गुणं रम्यफलदं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ १५ ॥

धराकर्षापास्त प्रचुर भुजकण्डूयन जलं

धराहार्यद्वैधी करणहृतलोकत्रयभयम् ।

स्मराकाराहारावृतचटुल पालानलकणं

महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ १६ ॥

सोमसुन्दरनाथस्य स्तोत्रं भक्त्या पठन्ति ये ।

श्रियापरमया युक्ताश्शिवमन्ते भजन्ति ते ॥ १७ ॥

इति श्रीहालास्यमहात्म्ये कुलशेखरपाण्ड्यकृता श्रीशिवस्तुतिः ।

kulasekhara pandya krita sri somasundara stotram