Skip to main content
पडताळणी प्रलंबित

श्री शिव स्तोत्रम् (कृष्ण कृतम्)

श्रीकृष्ण उवाच –

प्रणम्य देव्या गिरिशं सभक्त्या

स्वात्मन्यधात्मान मसौविचिन्त्य ।

नमोऽस्तु ते शाश्वत सर्वयोने

ब्रह्माधिपं त्वां मुनयो वदन्ति ॥ १ ॥

त्वमेव सत्त्वं च रजस्तमश्च

त्वामेव सर्वं प्रवदन्ति सन्तः ।

ततस्त्वमेवासि जगद्विधायक-

स्त्वमेव सत्यं प्रवदन्ति वेदाः ॥ २ ॥

त्वं ब्रह्मा हरिरथ विश्वयोनिरग्नि-

स्संहर्ता दिनकर मण्डलाधिवासः ।

प्राणस्त्वं हुतवह वासवादिभेद-

स्त्वामेकं शरणमुपैमि देवमीशम् ॥ ३ ॥

साङ्ख्यास्त्वामगुणमथाहुरेकरूपं

योगस्त्वां सततमुपासते हृदिस्थम् ।

देवास्त्वामभिदधतीह रुद्रमग्निं

त्वामेकं शरणमुपैमि देवमीशम् ॥ ४ ॥

त्वत्पादे कुसुममथापि पत्रमेकं

दत्वासौ भवति विमुक्त विश्वबन्धः ।

सर्वाघं प्रणुदति सिद्धयोगजुष्टं

स्मृत्वा ते पदयुगलं भवत्प्रसादात् ॥ ५ ॥

यस्या शेषविभागहीन ममलं हृद्यन्तरावस्थितं

तत्त्वं ज्योतिरनन्तमेकममरं सत्यं परं सर्वगम् ।

स्थानं प्राहुरनादिमध्यनिधनं यस्मादिदं जायते

नित्यं त्वामनुयामि सत्यविभवं विश्वेश्वरं तं शिवम् ॥ ६ ॥

ओं नमो नीलकण्ठाय त्रिनेत्राय च रंहसे ।

महादेवाय ते नित्यमीशानाय नमो नमः ॥ ७ ॥

नमः पिनाकिने तुभ्यं नमो दण्डाय मुण्डिने ।

नमस्ते वज्रहस्ताय दिग्वस्त्राय कपर्दिने ॥ ८ ॥

नमो भैरवनाथाय हराय च निषङ्गिणे ।

नागयज्ञोपवीताय नमस्ते वह्नि तेजसे ॥ ९ ॥

नमोऽस्तु ते गिरीशाय स्वाहाकाराय ते नमः ।

नमो मुक्ताट्टहासाय भीमाय च नमो नमः ॥ १० ॥

नमस्ते कामनाशाय नमः कालप्रमाथिने ।

नमो भैरवरूपाय कालरूपाय दम्ष्ट्रिणे ॥ ११ ॥

नमोऽस्तु ते त्र्यम्बकाय नमस्ते कृत्तिवासने ।

नमोऽम्बिकाधिपतये पशूनां पतये नमः ॥ १२ ॥

नमस्ते व्योमरूपाय व्योमाधिपतये नमः ।

नरनारीशरीराय साङ्ख्य योगप्रवर्तिने ॥ १३ ॥

नमो दैवतनाथाय नमो दैवतलिङ्गिने ।

कुमारगुरवे तुभ्यं देवदेवाय ते नमः ॥ १४ ॥

नमो यज्ञाधिपतये नमस्ते ब्रह्मचारिणे ।

मृगव्याधाऽधिपतये ब्रह्माधिपतये नमः ॥ १५ ॥

नमो भवाय विश्वाय मोहनाय नमो नमः ।

योगिने योगगम्याय योगमायाय ते नमः ॥ १६ ॥

नमो नमो नमस्तुभ्यं भूयो भूयो नमो नमः ।

मह्यं सर्वात्मना कामान् प्रयच्छ परमेश्वर ॥ १७ ॥

एवं हि भक्त्या देवेशमभिष्टूय च माधवः ।

पपात पादयोर्विप्रा देवदेवस्य दण्डवत् ॥ १८ ॥

उत्थाप्य भगवान् सोमः कृष्णं केशिनिषूदनम् ।

बभाषे मधुरं वाक्यं मेघगंभीरनिस्स्वनम् ॥ १९ ॥

इति श्रीकूर्मपुराणे श्रीकृष्णकृत शिवस्तोत्रम् ।

sri krishna krita sri shiva stotram