Skip to main content
पडताळणी प्रलंबित

श्री बटुकभैरव सहस्रनाम स्तोत्रम् (भैरवतन्त्रे)

ईश्वर उवाच ।

देवेशि भक्त सुलभे देवनायकवन्दिते ।

भक्तानां कार्यसिद्ध्यर्थं निदान ब्रूहि तत्त्वतः ॥ १ ॥

विनैव न्यासजालेन पूजनेन विना भवेत् ।

विना कायादिक्लेशेन वित्तव्ययं विनेश्वरि ॥ २ ॥

अस्य श्रीबटुकभैरव सहस्रनाम स्तोत्रमन्त्रस्य ब्रह्मानन्दभैरव ऋषिः त्रिष्टुप् छन्दः बटुकभैरवो देवता बं बीजं ह्रीं शक्तिः सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥

न्यासः –

करन्यासः –

ओं ह्रां बां अङ्गुष्ठाभ्यां नमः ।

ओं ह्रीं बीं तर्जनीभ्यां नमः ।

ओं ह्रूं बूं मध्यमाभ्यां नमः ।

ओं ह्रैं बैं अनामिकाभ्यां नमः ।

ओं ह्रौं बौं कनिष्ठिकाभ्यां नमः ।

ओं ह्रः बः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –

ओं ह्रां बां हृदयाय नमः ।

ओं ह्रीं बीं शिरसे स्वाहा ।

ओं ह्रूं बूं शिखायै वषट् ।

ओं ह्रैं बैं कवचाय हुम् ।

ओं ह्रौं बौं नेत्रत्रयाय वौषट् ।

ओं ह्रः बः अस्त्राय फट् ।

अथ ध्यानम् –

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं

स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।

नीलग्रीवमुदारकौस्तुभधरं शीतांशुचूडोज्ज्वलं

बन्धूकारुणवाससं भयहरं देवं सदा भावयेत् ॥ ३ ॥

अथ स्तोत्रं –

॥ ओं ह्रीम् ॥

बटुकः कामदो नाथोऽनाथप्रियप्रभाकरः ।

भैरवो भीतिहा दर्पः कन्दर्पो मीनकेतनः ॥ ४ ॥

रुद्रो बटुकभूतीशो भूतनाथः प्रजापतिः ।

दयालुः क्रूर ईशानो जनीशो लोकवल्लभः ॥ ५ ॥

देवो दैत्येश्वरो वीरो वीरवन्द्यो दिवाकरः ।

बलिप्रियः सुरश्रेष्ठः कनिष्ठो नैष्ठिकः शिशुः ॥ ६ ॥

महाबलो महातेजा वित्तेजो द्युतिवर्धनः ।

तेजस्वी वीर्यवान् वृद्धो विवृद्धो भूतनायकः ॥ ७ ॥

बालकः पालकः कामो विकामः काममर्दनः ।

कालिकारमणः कालीनायकः कालिकाप्रियः ॥ ८ ॥

कालीशः कालिकाकान्तः कालिकानन्दवर्धनः ।

कालिकाहृदयज्ञानी कालिकातनयो नयः ॥ ९ ॥

खगेशः खेचरः खेटो विशिष्टो खेटकप्रियः ।

कुमारः क्रोधनः कालिप्रियः पर्वतरक्षकः ॥ १० ॥

गणेज्यो गणपो गूढो गूढप्रायो गणेश्वरः ।

गणनाथो गणश्रेष्ठो गणमुख्यो गणप्रियः ॥ ११ ॥

घोरनादो घनश्यामो घनस्वामी घनान्तकः ।

घोरनाशो घनेशानो धनपतिर्धनात्मकः ॥ १२ ॥

चम्पकाभश्चिरञ्जीवी चारुवेषश्चराचरः ।

चिन्त्योऽचिन्त्यगुणो धीमान् सुचित्तस्थश्चितीश्वरः ॥ १३ ॥

छत्री छत्रपतिश्छत्ता छिन्ननासा मनः प्रियः ।

छिन्नाभश्छिन्नसन्तापश्छद्दीराच्छर्दिनान्तकः ॥ १४ ॥

जेता जिष्णुर्जहीशानो जनानन्दो जनेश्वरः ।

जनको जनसन्तोषो जयजायविनाशनः ॥ १५ ॥

जालन्धरो जनाराध्यो जनाध्यक्षो जनप्रियः ।

जीवहा जीवदो जन्तुर्जीवनाथो जलेश्वरः ॥ १६ ॥

जयदो जित्वरो जिह्वो जयश्रीर्जयवर्धनः ।

जयाभूमिर्जयाकारो जयहेतुर्जयेश्वरः ॥ १७ ॥

झङ्कारकृदनन्तात्मा झङ्कारहेतुरात्मभूः ।

झञ्योश्चरी हरीभर्ता विभर्ता भृत्यकेश्वरः ॥ १८ ॥

टीत्कारहृदयेयात्मा टङ्केशो ठङ्कनायकः ।

ठकारभू ठरन्ध्रीशो गिरिपृष्ठकुरः पतिः ॥ १९ ॥

ढुण्ढिर्ढक्काप्रियः पान्थो ढुण्ढिराजो निरन्तकः ।

ताम्रस्तमीश्वरस्तोता तीर्थराजस्तडित्प्रभः ॥ २० ॥

त्र्यक्षस्त्र्यक्षकस्तम्भस्ताक्षकस्तम्भटेश्वरः ।

स्थलस्थः स्थावरः स्थाता स्थिरबुद्धिः स्थिरेन्द्रियः ॥ २१ ॥

स्थिरज्ञानी स्थिरप्रीतिः स्थिरस्थीतिः स्थिराशयः ।

दामो दामोदरो दम्भो दाडिमीकुसुमप्रियः ॥ २२ ॥

दारिद्र्यहा दमी दिव्यो दिव्यदेहो दिनप्रभुः ।

दिनकरो दिवानाथो दिवसेशो दिवाकरः ॥ २३ ॥

दीर्घश्चरो दलज्योतिर्दलेशो दलसुन्दरः ।

दलप्रियो दलाभाशो दलपूज्यो दलप्रभुः ॥ २४ ॥

दलकातिर्दलाकारो दलसेव्यो दलार्चितः ।

दीर्घबाहुर्दलश्रेष्ठो दललुब्धो दलाकृतिः ॥ २५ ॥

दानवश्यो दयासिन्धुर्दयालुर्दीपवल्लभः ।

धनेशो धनदो धर्मो धनराजो धनप्रभुः ॥ २६ ॥

धनप्रदो धनाध्यक्षो धनमान्यो धनञ्जयः ।

धीवरो धातुको धाता ध्रुवो धूमलवर्धनः ॥ २७ ॥

धनिष्ठो धवलच्छत्री धनकाम्यो धनेश्वरः ।

धीरो धीरतरो धेनुर्धीरेशो धरणीप्रभुः ॥ २८ ॥

धराधीशो धरानाथो धरणीनायको धरः ।

धराकान्तो धरापालो धरणीजनवल्लभः ॥ २९ ॥

धराधरो धरो धृष्टो धृतराष्ट्रो धनीश्वरः ।

नारदो नीरदो नेता नीतिपूज्यो नतिप्रियः ॥ ३० ॥

नीतिलभ्यो नतीशानो नीतिलब्धो नतीश्वरः ।

पार्थिवः पार्थसम्पूज्यः पार्थदः प्रणतः पृथुः ॥ ३१ ॥

पृथिवीशः पृथासूनुः पृथिवीभृत्य ईश्वरः ।

पुराणः पारदः पान्थः पाञ्चालीपावकः प्रभुः ॥ ३२ ॥

पूर्वसुरपतिः श्रेयान् प्रीतिदः प्रीतिवर्धनः ।

पार्वतीशः परेशानः पार्वतीहृदयप्रियः ॥ ३३ ॥

पार्वतीरमणः पूतः पवित्रः पापनाशनः ।

पात्री पत्रालिसन्तुष्टः परितुष्टः पुमान् प्रियः ॥ ३४ ॥

पर्वेशः पर्वताधीशः पर्वतो नायकात्मजः ।

फाल्गुनस्तु फणानाथः फणीशः फणरक्षकः ॥ ३५ ॥

फणीपतिः फणीशानः फणराजः फणाकृतिः ।

बलभद्रो बली बालो बलधीर्बलवर्धनः ॥ ३६ ॥

बलप्राणो बलाधीशो बलिदानप्रियङ्करः ।

बलिराजो बलिप्राणो बलिनाथो बलप्रियः ॥ ३७ ॥

बलीवरश्च बालेशो बालकप्रियदर्शनः ।

भद्रो भद्रप्रभो भीमो भीमसेनो भयङ्करः ॥ ३८ ॥

भव्यो भव्यप्रियो भूतपतिर्भूतविनायकः ।

भूतेशो भूतिदो भर्गो भूतभव्यो भवेश्वरः ॥ ३९ ॥

भवानीशो भवेशानो भवानीनायकोर्भकः ।

मकारो माधवो मीनो मीनकेतुर्महेश्वरः ॥ ४० ॥

महेशुमर्दनो मन्थो मिथुनेशोऽमराधिपः ।

मरीचिर्मञ्जुलो मोहो मोहहा मोहमर्दनः ॥ ४१ ॥

मोहको मोहनो मेधाप्रियो मोहविनायकः ।

महीपतिर्महेशानो महीराजो मनोहरः ॥ ४२ ॥

महीश्वरो महीपालो महीनाथो महीप्रियः ।

महीधरो महादेवो मनुराजो मनुप्रियः ॥ ४३ ॥

मौनी मौनधरो मेधो मन्दारो मतिवर्धनः ।

मतिदो मन्थरो मन्त्रो मन्त्रीशो मन्त्रनायकः ॥ ४४ ॥

मेधावी मानदो मानी मानहा मानमर्दनः ।

मीनगो मकराधीशो मधुरो मणिरञ्जितः ॥ ४५ ॥

मणिरम्यो मणिभ्राता मणिमण्डनमण्डितः ।

मन्त्रपो मन्त्रदो मुग्धो मोक्षदो मोक्षवल्लभः ॥ ४६ ॥

मल्लो मल्लप्रियो मञ्चो मल्लको मेलनप्रभुः ।

मल्लिको मल्लिकागन्धी मल्लिकाकुसुमप्रियः ॥ ४७ ॥

मालतीशो मघानाथोऽमोघमूर्तिर्मघेश्वरः ।

मूलाभो मूलहा मूलो मूलदो मूलमत्सरः ॥ ४८ ॥

माणिक्यरोचिः सम्मुग्धो मणिकूटो मणिप्रियः ।

मुकुन्दो मदनो मन्दो मदवन्द्यो मनुप्रभुः ॥ ४९ ॥

मनस्थो मेनकाधीशो मेनकाप्रियदर्शनः ।

यामो यामो यमी देवो यादवो यदुनायकः ॥ ५० ॥

याचको याज्ञिको यज्ञो यज्ञेशो यज्ञवर्धनः ।

रमापती रमाधीशो रमेशो रामवल्लभः ॥ ५१ ॥

रमापती रमानाथो रमाकान्तो रमेश्वरः ।

रेवतीरमणो रामो रामेशो रामनन्दनः ॥ ५२ ॥

रम्यमूर्ती रतीशानो राकाया नायको रविः ।

लक्ष्मीधरो ललज्जिह्वो लक्ष्मीबीजजपे रतः ॥ ५३ ॥

लम्पटो लम्बराजेशो लम्बदेशो लकारभूः ।

वामनो वल्लभो वन्द्यो वनमाली वनेश्वरः ॥ ५४ ॥

वनस्थो वनगो विन्ध्यो विन्ध्यराजो वनाह्वयः ।

वनेचरो वनाधीशो वनमालाविभूषणः ॥ ५५ ॥

वेणुप्रियो वनाकारो वनाराध्यो वनप्रभुः ।

शम्भुः शङ्करसन्तुष्टः शम्बरारिः शरासनः ॥ ५६ ॥

शबरीप्रणतः शालः शिलीमुखध्वनिप्रियः ।

शकुलः शल्लकः शीतः शीतिरश्मिः सितांशुकः ॥ ५७ ॥

शीलदः शीकरः शीलः शीलशीली शनैश्चरः ।

सिद्धः सिद्धिकरः साध्यः सिद्धिभूः सिद्धिभावनः ॥ ५८ ॥

सिद्धान्तवल्लभः सिन्धुः सिन्धुतीरनिषेवितः ।

सिन्धुपतिः सुरोधीरः सरसीरुहलोचनः ॥ ५९ ॥

सरित्पतिः सरित्संस्थः सरः सिन्धुः सरोवरः ।

सखा वीरपतिः सूतः सचेताः सत्पतिः सितः ॥ ६० ॥

सिन्धुराजः सदाभूतः सदाशिवः सताम्पतिः ।

सदीशः सदनः सूरिः सेव्यमानसतीपतिः ॥ ६१ ॥

सूर्यः सूर्यपतिः सेव्यः सेवाप्रियः सनातनः ।

सतीशः सरशीनाथः सतीराजः सतीश्वरः ॥ ६२ ॥

सतीप्राणः सतीनाथः सतीसेव्यः सतीश्वरः ।

सिद्धिराजः सतीतुष्टः सचिवः सव्यवाहनः ॥ ६३ ॥

सतीनायकसन्तुष्टः सव्यसाची सुमन्तकः ।

सच्चित्तः सर्वसन्तोषी सर्वारामः सुसिद्धिदः ॥ ६४ ॥

सर्वाराध्यः सचिवाख्यः सतीपतिसुसेवितः ।

सागरः सगरसार्थः समुद्रः समुद्रप्रियः ॥ ६५ ॥

समुद्रतीरसन्तुष्टः समुद्रप्रियदर्शनः ।

समुद्रेशः सरोनाथः सरसिजविलोचनः ॥ ६६ ॥

सरसीजलदाकारः सरसीजलदार्चितः ।

समुद्रिकः समुद्रात्मा साध्यमानः सुरेश्वरः ॥ ६७ ॥

सुरसेव्यः सुरेशानः सुरनाथः सुरार्चितः ।

सुराध्यक्षः सुराराध्यः सुरवन्द्यविशारदः ॥ ६८ ॥

सुरमुख्यः सुरप्रायः सुरसिन्धुनिवासवान् ।

सुधाप्रियः सुधाधीशः सुधाराध्यः सुधापतिः ॥ ६९ ॥

सुधानाथः सुधाभूतः सुधासागरसेवितः ।

हाटको हीरको हन्ता हरिकस्यरुचिः प्रभुः ॥ ७० ॥

हव्यवाहो हरिद्राभो हरिद्रारसमर्दनः ।

हेतिर्हेतुर्हरित्राता हरिनाथो हरिप्रियः ॥ ७१ ॥

हरिपूज्यो हरिप्राणो हरिहृष्टो हरीन्द्रकः ।

हरीशो हन्तृको हीरो हरिनामपरायणः ॥ ७२ ॥

हरिमुग्धो हरीरम्यो हरिदासो हरीश्वरः ।

हरो हरिपतिर्हारो हरिणीचित्तहारकः ॥ ७३ ॥

हरहितो हरप्राणो हरिवाहनशोभनः ।

हासो हासप्रियो हूहूर्हुतभुग् हुतवाहनः ॥ ७४ ॥

हुताशनो हली हक्को हालाहलहलायुधः ।

हलाकारो हलीशानो हलिपूज्यो हलिप्रियः ॥ ७५ ॥

हरपुत्रो हरोत्साहो हरसूनुर्हरात्मजः ।

हरवन्द्यो हराधीशो हरान्तको हराकृतिः ॥ ७६ ॥

हरमान्यो हराङ्कस्थो हरवैरिविनाशनः ।

हरशत्रुर्हरावर्षोऽहङ्कारो हरिणीप्रियः ॥ ७७ ॥

हाटकेशो हटेशानो हाटकप्रियदर्शनः ।

हाटको हाटकप्राणो हाटभूषणभूषितः ॥ ७८ ॥

हेतिदो हन्तको हंसो हंसगतिर्हाराह्वयः ।

हंसीपतिर्हरोन्मत्तो हंसीशो हरवल्लभः ॥ ७९ ॥

हरपुष्पप्रभो हंसीप्रियो हंसविलासकः ।

हरबीजरतो हारी हरितो हरिताम्पतिः ॥ ८० ॥

हरित्प्रभुर्हरित्पालो हरिरन्तरनायकः ।

हरिद्दिशो हरित्प्राणो हरिप्रियप्रियो हितः ॥ ८१ ॥

हेरम्बो हुङ्कृतिक्रुद्धो हेरम्बानन्दनो हठी ।

हेरम्बप्राणसंहर्ता हेरम्बहृदयप्रियः ॥ ८२ ॥

क्षमापतिः क्षणः क्षान्तः क्षुरधारः क्षितीश्वरः ।

क्षितीशः क्षितितः क्षीणः क्षितिपालः क्षितिप्रभुः ॥ ८३ ॥

क्षितीशानः क्षितिप्राणः क्षितिनायकसत्प्रियः ।

क्षितिराजः क्षणाधीशः क्षणपतिः क्षणेश्वरः ॥ ८४ ॥

क्षणप्रियः क्षमानाथः क्षणदानायकःप्रियः ।

क्षणिकः क्षणदाधीशः क्षणदाप्राणदः क्षमी ॥ ८५ ॥

क्षमः क्षोणिपतिः क्षोभः क्षोभकारी क्षमाप्रियः ।

क्षमाशीलः क्षमारूपः क्षमामण्डनमण्डितः ॥ ८६ ॥

क्षमानाथः क्षमाधारः क्षमाकारी क्षमाकरः ।

क्षेमः क्षीणरजाः क्षुद्रः क्षुद्रपानविशारदः ॥ ८७ ॥

क्षुद्रेशानः क्षणाकारः क्षीरपानकतत्परः ।

क्षीरशायी क्षणेशानः क्षोणिभृत् क्षणदोत्सवः ॥ ८८ ॥

क्षेमङ्करः क्षमालुब्धः क्षमाशास्त्रविशारदः ।

क्षमीश्वरः क्षमाकामः क्षमाहृदयमण्डनः ॥ ८९ ॥

नीलाद्रिरुचिराशीशो नीलपर्वतसन्निभः ।

नीलमणिप्रभारम्यः शशिभूषणभूषितः ॥ ९० ॥

शशधरः शरीभूतो मुण्डमालाविभूषितः ।

मुण्डस्थो मुण्डसन्तुष्टो मुण्डमालाधरोऽनघः ॥ ९१ ॥

दिग्वासा विदिगाकारो दिगम्बरवरप्रदः ।

दिगम्बरीश आनन्दो दिगम्बरतनूद्भवः ॥ ९२ ॥

पिङ्गलैकजटो धृष्टो डमरूवादनप्रियः ।

सृणीकरः सृणीशानः खड्गधृक् खड्गपालकः ॥ ९३ ॥

शूलहस्तो मतङ्गाभो मातङ्गोत्सवसुन्दरः ।

अभयङ्कर ऊर्वङ्गो लङ्कापतिविनाशनः ॥ ९४ ॥

नगाशयो नगेशानो नागमण्डनमण्डितः ।

नगाकारो नगाधीशो नगशायी नगप्रियः ॥ ९५ ॥

घटोत्सवो घटाकारो घण्टावाद्यविशारदः ।

कपालपाणिरम्बेशः कपालासनसादनः ॥ ९६ ॥

पद्मपाणिकपालश्च त्रिनेत्रो नागवल्लभः ।

किङ्किणीजालसन्तुष्टो जलप्रायो जलाकरः ॥ ९७ ॥

अपमृत्युहरो मायामोहमूलविनाशनः ।

आयुधः कमलानाथः कमलाकान्तवल्लभः ॥ ९८ ॥

राज्यदो राजराजेशी राजीवपट्‍टशोभनः ।

डाकिनीनायको नित्यो नित्यधर्मपरायणः ॥ ९९ ॥

डाकिनीहृदयज्ञानी डाकिनीदेहनाशकः ।

डाकिनीप्राणदः शुद्धः श्रद्धेयचरितो विभुः ॥ १०० ॥

हेमप्रभो हिमेशानो हिमानीप्रियदर्शनः ।

हेमदो मर्मदो नामी नामधेयो नगात्मजः ॥ १०१ ॥

वैकुण्ठो वासुकीप्राणो वासुकीकण्ठभूषणः ।

कुण्डलीशो मखध्वंसी मखराजो मखेश्वरः ॥ १०२ ॥

मखाकारो मखाधीशो मखमालाविभूषणः ।

अम्बिकावल्लभो वाणीपतिर्वाणीविशारदः ॥ १०३ ॥

वाणीशो वाचःप्राणश्च वचस्थो वचनप्रियः ।

वेलाधरो दिशामीशो दिङ्नागो हि दिगीश्वरः ॥ १०४ ॥

दूर्वाप्रियो दुराराध्यो दारिद्र्यभयभञ्जनः ।

तर्कस्तर्कप्रियस्तर्क्यो वितर्कस्तर्कवल्लभः ॥ १०५ ॥

तर्कसिद्धोऽतिसिद्धात्मा सिद्धदेहो गुहाशयः ।

ग्रहगर्भो ग्रहेशानो गन्धगन्धी विशारदः ॥ १०६ ॥

मङ्गलो मङ्गलाकारो मङ्गलवाद्यवादकः ।

मङ्गलीशो विमानस्थो विमानो नैकनायकः ॥ १०७ ॥

बुधेशो विबुधाधीशो बुधवारो बुधाकरः ।

बुधनाथो बुधप्रीतो बुधवन्द्यो बुधाधिपः ॥ १०८ ॥

बुधसिद्धो बुधप्राणो बुधबुद्धो बुधप्रियः ।

सोमप्रभो मनःसिद्धो मनोजप्राणनाशनः ॥ १०९ ॥

सोमेशो मशकाकारो सोमपाः सोमनायकः ।

कामगः कामहा बौद्धः कामनाफलदोऽधिपः ॥ ११० ॥

त्रिदशो दशरात्रेशो दशाननविनाशनः ।

लक्ष्मणो लक्ष्यसम्भर्ता लक्ष्यसङ्ख्यो मनःप्रियः ॥ १११ ॥

विभावसुर्नलेशानो नायको नगजाप्रियः ।

नलकान्तिर्नलोत्साहो नरदेवो नराकृतिः ॥ ११२ ॥

नरपतिर्नरेशानो नारायणनरेश्वरः ।

अनिलो मारुतो मांसो मांसैकरससेवितः ॥ ११३ ॥

मरीचिरमरेशानो मागधो मगधप्रभुः ।

सुन्दरीसेवकोद्धारी द्वारदेशनिवासनः ॥ ११४ ॥

देवकीगर्भसञ्जातो देवकीसेवकः कुहूः ।

बृहस्पतिः कविः शुक्रः शारदासाधकप्रियः ॥ ११५ ॥

शारदासाधकप्राणः शारदासेवकोत्सुकः ।

शारदासाधकश्रेष्ठो वीतरागो गजप्रभुः ॥ ११६ ॥

मांसप्रियो मधुप्राणो मधुमांसमहोत्सवः ।

मधुपो मधुपश्रेष्ठो मधुपानसदारतिः ॥ ११७ ॥

मोदकादानसम्प्रीतो मोदकामोदमोदितः ।

आमोदामोदितो नन्दो नन्दिकेशो नदेश्वरः ॥ ११८ ॥

नदीप्रियो नदीनाथो नदीतीररुहस्तपाः ।

तपनस्तापनस्ताम्रतापहा तापकारकः ॥ ११९ ॥

पतङ्गो गोमुखो गौरो गोपालो गोपवर्धनः ।

गौपतिर्गोपसंहर्ता गोवृन्दैकप्रियोऽतिगः ॥ १२० ॥

गर्विष्ठो गुणरम्यश्च गुणसिन्धुर्गुरुप्रियः ।

गुणपूज्यो गुणोपेतो गुणवाद्यो गुणोत्सुकः ॥ १२१ ॥

गुणीशः केवलो गर्भः सुगर्भो गर्भरक्षकः ।

गाम्भीर्यधारको धर्ता विधर्ता धर्मपालकः ॥ १२२ ॥

जगदीशो जगन्मित्रो जगत्त्राता जगत्प्रभुः ।

जगद्धाता जगद्भोक्ता जगज्जाड्यविनाशनः ॥ १२३ ॥

जगत्कर्ता जगद्धर्ता जगज्जीवनजीवनः ।

मालतीपुष्पसुप्रीतो मालतीकुसुमोत्सवः ॥ १२४ ॥

मालतीकुसुमाकारो मालतीकुसुमप्रभुः ।

रसालमञ्जरीरम्यो रसगन्धनिषेवितः ॥ १२५ ॥

रसालमञ्जरीलुब्धो रसालतरुवल्लभः ।

रसालतरुवासी वै रसालफलसुन्दरः ॥ १२६ ॥

रसालरससन्तुष्टो रसालरसलालसः ।

केतकीपुष्पसन्तुष्टो केतकीगर्भसम्भवः ॥ १२७ ॥

केतकीपत्रसङ्काशः केतकीप्राणनाशनः ।

गर्तस्थो गर्तगम्भीरो गर्तेशो गर्तनायकः ॥ १२८ ॥

गर्तगेशोऽतिगर्तस्थो गर्ततीरनिवासकः ।

गणसेव्यो गणाध्यक्षो गणराजो गणाह्वयः ॥ १२९ ॥

आनन्दभैरवो भीरुर्भैरवेशो रुरुर्भगः ।

सुब्रह्मभैरवो वामभैरवो भूतभावनः ॥ १३० ॥

भैरवीतनयो देवीपुत्रः पर्वतसम्भवः ।

नाम्ना येन सहस्रेण स्तुत्वा बटुकभैरवम् ॥ १३१ ॥

लभते ह्यतुलां लक्ष्मीं देवानामपि दुर्लभाम् ।

उपदेशं गुरोर्लब्ध्वा योगे त्रिमङ्गली भवेत् ॥ १३२ ॥

अष्टम्यां वा चतुर्दश्यां वासरे भूमिसम्भवे ।

शुक्रे वा रविसङ्क्रान्तौ योगोऽयमुत्तमः प्रभो ॥ १३३ ॥

तस्मिन् योगे महेशानि सर्वसिद्धिमवाप्नुयात् ।

लक्षमावर्तयेन्मन्त्रं मन्त्रराजं नगेश्वरि ॥ १३४ ॥

नित्यकर्मसुसिद्ध्यर्थं तत्फलं लभते ध्रुवम् ।

स्तवमेनं पठेन्मन्त्री पाठयन् वा यथाविधि ॥ १३५ ॥

दुर्लभां लभते सिद्धिं सर्वदेवनमस्कृताम् ।

न प्रकाश्यं च पुत्रेषु भ्रष्टेषु तु कदाचन ॥ १३६ ॥

अन्यथा सिद्धिरोधः स्याद्वातुलो वा भवेत्प्रियः ।

स्तवस्यास्य प्रसादेन देवनायकवत्प्रियः ॥ १३७ ॥

सङ्ग्रामे विजयेच्छत्रून् मातङ्गानिव केसरी ।

राजानं वशयेत् सद्यो देवानपि वशं नयेत् ॥ १३८ ॥

किं वा परं फलं नाथ स्तवराजस्य कथ्यताम् ।

यद्यन्मनसि सङ्कल्प्य स्तवमेनमुदीरयन् ॥ १३९ ॥

तत्तदाप्नोति देवेशं बटुकस्य प्रसादतः ।

आपदां हि विनाशाय कारणं कान्त दुर्लभम् ॥ १४० ॥

देवासुररणे घोरं देवानामुपकारकम् ।

प्रकाशितं मया नाथ तन्त्रे भैरवदीपके ॥ १४१ ॥

अपुत्रो लभते पुत्रं षण्मासान् निरतो नरः ।

पठित्वा पाठयित्वाऽपि स्तवराजमनुत्तमम् ॥ १४२ ॥

दरिद्रो लभते लक्ष्मीमीप्सितामपि निश्चलाम् ।

कन्यार्थी लभते कन्यां सर्वरूपसमन्विताम् ॥ १४३ ॥

प्रदोषे बलिदाने च वशयेदखिलं जगत् ।

वटे वा बिल्वमूले वा रम्भायां विपिनोऽपि वा ॥ १४४ ॥

जपेत्सततमालक्षं मन्त्रराजस्य सिद्धये ।

वर्णलक्षं जपेद्वापि दिङ्मात्रं हि प्रदर्शितम् ॥ १४५ ॥

पूजयेत्तु तिलैर्माषैर्दुग्धैर्मांसैर्झषैस्तथा ।

घृतपक्वान्नतो वाऽपि जेमनै रससङ्कुलैः ॥ १४६ ॥

पूजयेद्धारयेद्वाऽपि स्तवमेनं सुसाधकः ।

पठेद्वा पाठयेद्वाऽपि यथाविधि सुरप्रिये ॥ १४७ ॥

शत्रुतो न भयं तस्य नाग्निचौरास्त्रवज्रजम् ।

ज्वरादिसम्भवं वापि सत्यं सत्यं महेश्वरि ॥ १४८ ॥

भैरवाराधनाशक्तो यो भवेत्साधकः प्रभो ।

सदाशिवः स विज्ञेयो भैरवेणेति भाषितम् ॥ १४९ ॥

श्रीमद्भैरवराजसेवनविधौ वैय्यग्रमासेदुषः

पुंसः पञ्चविधा भवन्ति नवधा ह्यष्टौ तथा सिद्धयः ।

क्षोणीपालकिरीटकोटिमणिरुन्मालाभरैर्भूयशो

मौग्ध्यं पादपयोजयोर्विजयते मूर्ध्नि प्रभोश्छत्रताम् ॥ १५० ॥

इति श्रीभैरवतन्त्रोक्त श्री बटुकभैरव सहस्रनाम स्तोत्रम् ॥

sri batuka bhairava sahasranama stotram bhairava tantram