Skip to main content
पडताळणी प्रलंबित

स्कन्दलहरी

श्रियै भूयाः श्रीमच्छरवणभव त्वं शिवसुतः

प्रियप्राप्त्यै भूयाः प्रतनगजवक्त्रस्य सहज ।

त्वयि प्रेमोद्रेकात्प्रकटवचसा स्तोतुमनसा

मयाऽऽरब्धं स्तोतुं तदिदमनुमन्यस्व भगवन् ॥ १ ॥

निराबाधं राजच्छरदुदितराकाहिमकर

प्ररूढज्योत्स्नाभास्मितवदनषट्कस्त्रिणयनः ।

पुरः प्रादुर्भूय स्फुरतु करुणापूर्णहृदयः

करोतु स्वास्थ्यं वै कमलदलबिन्दूपमहृदि ॥ २ ॥

न लोकेऽन्यं देवं नतजनकृतप्रत्ययविधिं

विलोके भीतानां निखिलभयभीतैकशरणम् ।

कलौ कालेऽप्यन्तर्हरसि तिमिरं भास्कर इव

प्रलुब्धानां भोगेष्वपि निखिलभोगान्वितरसि ॥ ३ ॥

शिव स्वामिन् देव श्रितकलुषनिःशेषण गुरो

भवध्वान्तध्वंसे मिहिरशतकोटिप्रतिभट ।

शिवप्राप्त्यै सम्यक्फलित सदुपायप्रकटन

ध्रुवं त्वत्कारुण्ये कलिरपि कृती भूतविभवः ॥ ४ ॥

अशक्तानां कर्मस्वपि निखिलनिःश्रेयसकृतौ

पशुत्वग्रस्तानां पतिरसि विपाशत्वकलने ।

प्रशस्तानां भूम्नां निधिरसि निरोद्धा निजशुचा-

-मशक्तानां कर्ता जगति धृतशक्तिः किल भवान् ॥ ५ ॥

रुषार्तानां हर्ता विषयिविषयाणां घटयिता

तृषार्तानां काले परममृतवर्षी घन इव ।

मृषाज्ञानार्तानां निखिलविचिकित्सापरिहरो

विषग्रस्तानां त्वं सकलभयहर्ता विलससि ॥ ६ ॥

रसाधिक्यं भक्तैरधिकमधिकं वर्धय विभो

प्रसीद त्वं भूयः प्रकटय चिदानन्दलहरीम् ।

असारे संसारे सदसति न लिप्तं मम मनः

कुसीदं भूयान्मे कुशलवति निःश्रेयसपथे ॥ ७ ॥

महामोहारण्ये विचरति मनस्तन्नियमय-

-न्नहन्तां निःशेषीकुरु करुणया त्वं स्नपय माम् ।

महीयो माहात्म्यं तव मननमार्गे स्फुरतु मे

महस्स्तोमाकारे त्वयि मतिजुषि स्यात्क्व नु तमः ॥ ८ ॥

वलक्षाभं स्निग्धं वदनकमलेभ्यः प्रसृमरं

मिलत्कारुण्यार्द्रं मृदितभुवनार्ति स्मितमिदम् ।

पुलिन्दापत्यस्य प्रकटपुलकोद्रेकजनकं

दलद्दैन्यं खेदं हरतु सततं नः सुरगुरो ॥ ९ ॥

अतीतो ब्रह्मादीन् कृतिमुखकृतः कारणपतीन्

क्षितिस्तोयं वह्निर्मरुदसि वियत्तत्वमखिलम् ।

पतिः कृत्यानां त्वं परिणतचिदात्मेक्षणवतां

धृतिस्त्वं ध्यातः सन् दिशसि निजसायुज्यपदवीम् ॥ १० ॥

त्वदात्मा त्वच्चित्तस्त्वदनुभवबुद्धिस्मृतिपथः

त्वया व्याप्तं सर्वं जगदिदमशेषं स्थिरचरम् । [त्वदालोकः]

सदा योगी साक्षाद्भजति तव सारूप्यममलं

त्वदायत्तानां किं न हि सुलभमष्टौ च विभवाः ॥ ११ ॥

कति ब्रह्माणो वा कति कमलनेत्राः कति हराः

कति ब्रह्माण्डानां कति च शतकोटिष्वधिकृताः ।

कृताज्ञाः सन्तस्ते विविधकृतिरक्षाभृतिकराः

अतः सर्वैश्वर्यं तव यदपरिच्छेद्यविभवम् ॥ १२ ॥

नमस्ते स्कन्दाय त्रिदशपरिपालाय महते

नमः क्रौञ्चाभिख्यासुरदलनदक्षाय भवते ।

नमः शूरक्रूरत्रिदशरिपुदण्डाध्वरकृते

नमो भूयो भूयो नतिकृदवने जागरवते ॥ १३ ॥

शिवस्त्वं शक्तिस्त्वं तदुभयतमैक्यं पृथगसि

स्तवे ध्याने पूजाजपनियममुख्येष्वभिरताः ।

भुवि स्थित्वा भोगान् सुचिरमुपभुज्य प्रमुदिताः

भवन्ति स्थाने तत्तदनु पुनरावृत्तिविमुखाः ॥ १४ ॥ [त्वत्]

गुरोर्विद्यां लब्ध्वा सकलभयहन्त्रीं जपपराः

पुरश्चर्यामुख्यक्रमविधिजुषो ध्याननिपुणाः ।

व्रतस्थैः कामौघैरभिलषितवाञ्छां प्रियभुज-

-श्चिरं जीवन्मुक्ता जगति विजयन्ते सुकृतिनः ॥ १५ ॥

शरज्ज्योत्स्नाशुभ्रं स्फटिकनिकुरुम्बाभरुचिरं

स्फुरन्मुक्ताहारं धवलवसनं भावयति यः ।

प्ररोहत्कारुण्यामृतबहुलधाराभिरभित-

-श्चिरं सिक्तात्मा वै स भवति च विच्छिन्ननिगडः ॥ १६ ॥

वृथा कर्तुं दुष्टान्विविधविषवेगान् शमयितुं

सुधारोचिष्कोटिप्रतिभटरुचिं भावयति यः ।

अधः कर्तुं साक्षाद्भवति विनतासूनुमचिरा-

-द्विधत्ते सर्पाणां विविधविषदर्पापहरणम् ॥ १७ ॥

प्रवालाभापूरे प्रसरति महस्ते जगदिदं

दिवं भूमिं काष्ठाः सकलमपि सञ्चिन्तयति यः ।

द्रवीकुर्याच्चेतस्त्रिदशनिवहानामपि सुखा-

-द्भुवि स्त्रीणां पुंसां वशयति तिरश्चामपि मनः ॥ १८ ॥

नवाम्भोदश्यामं मरकतमणिप्रख्यमथवा

भवन्तं ध्यायेद्यो भवति निपुणो मोहनविधौ ।

दिविष्ठानां भूमावपि विविधदेशेषु वसतां

नृणां देवानां वा वियति चरतां पत्रिफणिनाम् ॥ १९ ॥

कुमार श्रीमंस्त्वां कनकसदृशाभं स्मरति यः

समारब्धस्तम्भे सकलजगतां वा प्रभवति ।

समस्तद्युःस्थानां प्रबलपृतनानां सवयसां

प्रमत्तव्याघ्राणां किटिहयगजानां च सपदि ॥ २० ॥

छटात्कारैः साकं सहकृतमहाधूमपटल-

-स्फुटाकारं साक्षात्स्मरति यदि मन्त्री सकृदपि ।

हठादुच्चाटाय प्रभवति मृगाणां स पततां

पटुर्विद्वेषे स्याद्विधिरचित पाशं विघटयन् ॥ २१ ॥

स्मरन्घोराकारं तिमिरनिकुरुम्बस्य सदृशं

जपन्मन्त्रान् मर्त्यः सकलरिपुदर्पक्षपयिता ।

स रुद्रेणौपम्यं भजति परमात्मन् गुह विभो

वरिष्ठः साधूनामपि च नितरां त्वद्भजनवान् ॥ २२ ॥

महाभूतव्याप्तं कलयति च यो ध्याननिपुणः

स भूतैः सन्त्यक्तस्त्रिजगति च योगेन सरसः ।

गुह स्वामिन्नन्तर्दहरयति यस्त्वां तु कलयन्

जहन्मायो जीवन्भवति स विमुक्तः पटुमतिः ॥ २३ ॥

शिवस्वामिन् गौरीप्रियसुत मयूरासन गुहे-

-त्यमून्युक्त्वा नामान्यखिलदुरितौघान् क्षपयति ।

इहासौ लोके तु प्रबलविभवः सन् सुविचरन्

विमानारूढोऽन्ते तव भजति लोकं निरुपमम् ॥ २४ ॥

तव श्रीमन्मूर्तिं कलयितुमनीशोऽहमधुना

भवत्पादाम्भोजं भवभयहरं नौमि शरणम् ।

अतः सत्याद्रीश प्रमथगणनाथात्मज विभो

गुह स्वामिन् दीने वितनु मयि कारुण्यमनिशम् ॥ २५ ॥

भवायानन्दाब्धे श्रुतिनिकरमूलार्थमखिलं

निगृह्य व्याहर्तुं कमलजमसक्तं तु सहसा ।

ब्रुवाणस्त्वं स्वामिक्षितिधरपते देशिकगुरो

गुह स्वामिन् दीने मयि वितनु कारुण्यमनिशम् ॥ २६ ॥

अगस्त्यप्रष्ठानाममलहृदयाब्जैकनिलयं

सकृद्वा न ध्यातं पदकमलयुग्मं तव मया ।

तथापि श्रीजन्ति स्थलनिलय देवेश वरद

गुह स्वामिन् दीने मयि वितनु कारुण्यमनिशम् ॥ २७ ॥

रणे हत्वा शक्त्या सकलदनुजांस्तारकमुखान्

हरिब्रह्मेन्द्राणामपि सुरमुनीनां भुवि नृणाम् ।

मुदं कुर्वाणः श्रीशिवशिखरिनाथ त्वमखिलां

गुह स्वामिन् दीने मयि वितनु कारुण्यमनिशम् ॥ २८ ॥

शरद्राकाजैवातृक विमलषड्वक्त्रविलस-

-द्द्विषड्बाहो शक्त्या विदलितमहाक्रौञ्चशिखरिन् ।

हृदावास श्रीहल्लकगिरिपते सर्वविदुषां

गुह स्वामिन् दीने मयि वितनु कारुण्यमनिशम् ॥ २९ ॥

महान्तं केकीन्द्रं वरद सहसाऽऽरुह्य दिविष-

-द्गणानां सर्वेषामभयद मुनीनां च भजताम् ।

वलारातेः कन्यारमण बहुपुण्याचलपते

गुह स्वामिन् दीने मयि वितनु कारुण्यमनिशम् ॥ ३० ॥

महद्ब्रह्मानन्दं परशिवगुरुं सन्ततलस-

-त्तटित्कोटिप्रख्यं सकलदुरितार्तिघ्नममलम् ।

हरिब्रह्मेन्द्रामरगणनमस्कार्यचरणं

गुहं श्रीसङ्गीतप्रियमहमन्तर्हृदि भजे ॥ ३१ ॥

इति स्कन्दलहरी ।

sri skanda lahari in hindi