Skip to main content
पडताळणी प्रलंबित

सौन्दर्यलहरी

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं

न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।

अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि

प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १ ॥

तनीयांसं पांसुं तव चरणपङ्केरुहभवं

विरिञ्चिः सञ्चिन्वन्विरचयति लोकानविकलम् ।

वहत्येनं शौरिः कथमपि सहस्रेण शिरसां

हरः सङ्क्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ २ ॥

अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी

जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी ।

दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ

निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवती ॥ ३ ॥

त्वदन्यः पाणिभ्यामभयवरदो दैवतगण-

-स्त्वमेका नैवासि प्रकटितवराभीत्यभिनया ।

भयात्त्रातुं दातुं फलमपि च वाञ्छासमधिकं

शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४ ॥

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं

पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् ।

स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा

मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ ५ ॥

धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखा

वसन्तः सामन्तो मलयमरुदायोधनरथः ।

तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा-

-मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥

क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता

परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।

धनुर्बाणान्पाशं सृणिमपि दधाना करतलैः

पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७ ॥

सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते

मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।

शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां

भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८ ॥

महीं मूलाधारे कमपि मणिपूरे हुतवहं

स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।

मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं

सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ ९ ॥

सुधाधारासारैश्चरणयुगलान्तर्विगलितैः

प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः ।

अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं

स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १० ॥

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि

प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ।

चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-

-त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ ११ ॥

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं

कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः ।

यदालोकौत्सुक्यादमरललना यान्ति मनसा

तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥ १२ ॥

नरं वर्षीयांसं नयनविरसं नर्मसु जडं

तवापाङ्गालोके पतितमनुधावन्ति शतशः ।

गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया

हठात्त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥ १३ ॥

क्षितौ षट्पञ्चाशद्द्विसमधिकपञ्चाशदुदके

हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले ।

दिवि द्विःषट्त्रिंशन्मनसि च चतुःषष्टिरिति ये

मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ १४ ॥

शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां

वरत्रासत्राणस्फटिकघटिकापुस्तककराम् ।

सकृन्न त्वा नत्वा कथमिव सतां संनिदधते

मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः ॥ १५ ॥

कवीन्द्राणां चेतःकमलवनबालातपरुचिं

भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।

विरिञ्चिप्रेयस्यास्तरुणतरशृङ्गारलहरी-

-गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ १६ ॥

सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभि-

-र्वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः ।

स कर्ता काव्यानां भवति महतां भङ्गिरुचिभि-

-र्वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७ ॥

तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभि-

-र्दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः ।

भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः

सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८ ॥

मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो

हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।

स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु

त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ १९ ॥

किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं

हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।

स सर्पाणां दर्पं शमयति शकुन्ताधिप इव

ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ २० ॥

तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं

निषण्णां षण्णामप्युपरि कमलानां तव कलाम् ।

महापद्माटव्यां मृदितमलमायेन मनसा

महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ २१ ॥

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-

-मिति स्तोतुं वाञ्छन्कथयति भवानि त्वमिति यः ।

तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं

मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ २२ ॥

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा

शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत् ।

यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं

कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ २३ ॥

जगत्सूते धाता हरिरवति रुद्रः क्षपयते

तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति ।

सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-

-स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ २४ ॥

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे

भवेत्पूजा पूजा तव चरणयोर्या विरचिता ।

तथाहि त्वत्पादोद्वहनमणिपीठस्य निकटे

स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५ ॥

विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं

विनाशं कीनाशो भजति धनदो याति निधनम् ।

वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा

महासंहारेऽस्मिन्विहरति सति त्वत्पतिरसौ ॥ २६ ॥

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना

गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।

प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा

सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ २७ ॥

सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं

विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।

करालं यत्क्ष्वेलं कबलितवतः कालकलना

न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ २८ ॥

किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः

कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम् ।

प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं

भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ २९ ॥

स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो

निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।

किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो

महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥ ३० ॥

चतुःषष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं

स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः ।

पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना-

-स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ ३१ ॥

शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः

स्मरो हंसः शक्रस्तदनु च परामारहरयः ।

अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता

भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३२ ॥

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-

-र्निधायैके नित्ये निरवधिमहाभोगरसिकाः ।

भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलयाः

शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ ३३ ॥

शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं

तवात्मानं मन्ये भगवति नवात्मानमनघम् ।

अतः शेषः शेषीत्ययमुभयसाधारणतया

स्थितः सम्बन्धो वां समरसपरानन्दपरयोः ॥ ३४ ॥

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि

त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ।

त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा

चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ ३५ ॥

तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं

परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता ।

यमाराध्यन्भक्त्या रविशशिशुचीनामविषये

निरालोकेऽलोके निवसति हि भालोकभुवने ॥ ३६ ॥

विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं

शिवं सेवे देवीमपि शिवसमानव्यवसिताम् ।

ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-

-र्विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७ ॥

समुन्मीलत्संवित्कमलमकरन्दैकरसिकं

भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।

यदालापादष्टादशगुणितविद्यापरिणति-

-र्यदादत्ते दोषाद्गुणमखिलमद्भ्यः पय इव ॥ ३८ ॥

तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं

तमीडे संवर्तं जननि महतीं तां च समयाम् ।

यदालोके लोकान्दहति महति क्रोधकलिते

दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९ ॥

तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया

स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।

तव श्यामं मेघं कमपि मणिपूरैकशरणं

निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ ४० ॥

तवाधारे मूले सह समयया लास्यपरया

नवात्मानं मन्ये नवरसमहाताण्डवनटम् ।

उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया

सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१ ॥

गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं

किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।

स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं

धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ ४२ ॥

धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं

घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ।

यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो

वसन्त्यस्मिन्मन्ये वलमथनवाटीविटपिनाम् ॥ ४३ ॥

तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-

-परीवाहः स्रोतःसरणिरिव सीमन्तसरणिः ।

वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर-

-द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥ ४४ ॥

अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः

परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।

दरस्मेरे यस्मिन्दशनरुचिकिञ्जल्करुचिरे

सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ ४५ ॥

ललाटं लावण्यद्युतिविमलमाभाति तव य-

-द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।

विपर्यासन्यासादुभयमपि सम्भूय च मिथः

सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६ ॥

भ्रुवौ भुग्ने किञ्चिद्भुवनभयभङ्गव्यसनिनि

त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।

धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः

प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७ ॥

अहः सूते सव्यं तव नयनमर्कात्मकतया

त्रियामां वामं ते सृजति रजनीनायकतया ।

तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः

समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम् ॥ ४८ ॥

विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः

कृपाधाराधारा किमपि मधुराभोगवतिका ।

अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया

ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥ ४९ ॥

कवीनां सन्दर्भस्तबकमकरन्दैकरसिकं

कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् ।

अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला-

-वसूयासंसर्गादलिकनयनं किञ्चिदरुणम् ॥ ५० ॥

शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा

सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।

हराहिभ्यो भीता सरसिरुहसौभाग्यजननी

सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ ५१ ॥

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती

पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।

इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके

तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ ५२ ॥

विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया

विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते ।

पुनः स्रष्टुं देवान्द्रुहिणहरिरुद्रानुपरता-

-न्रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३ ॥

पवित्रीकर्तुं नः पशुपतिपराधीनहृदये

दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः ।

नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं

त्रयाणां तीर्थानामुपनयसि सम्भेदमनघम् ॥ ५४ ॥

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती

तवेत्याहुः सन्तो धरणिधरराजन्यतनये ।

त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः

परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥ ५५ ॥

तवापर्णे कर्णेजपनयनपैशुन्यचकिता

निलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।

इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं

जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६ ॥

दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा

दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।

अनेनायं धन्यो भवति न च ते हानिरियता

वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७ ॥

अरालं ते पालीयुगलमगराजन्यतनये

न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् ।

तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलस-

-न्नपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणाम् ॥ ५८ ॥

स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं

चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् । [सुख]

यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं

महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९ ॥

सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः

पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।

चमत्कारश्लाघाचलितशिरसः कुण्डलगणो

झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६० ॥

असौ नासावंशस्तुहिनगिरिवंशध्वजपटि

त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।

वहत्यन्तर्मुक्ताः शिशिरकरनिश्वासगलितं

समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१ ॥

प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचेः

प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।

न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितं

तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ ६२ ॥

स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां

चकोराणामासीदतिरसतया चञ्चुजडिमा ।

अतस्ते शीतांशोरमृतलहरीमम्लरुचयः

पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकधिया ॥ ६३ ॥

अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा

जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।

यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी

सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४ ॥

रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभि-

-र्निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः ।

विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला

विलीयन्ते मातस्तव वदनताम्बूलकबलाः ॥ ६५ ॥

विपञ्च्या गायन्ती विविधमपदानं पशुपते-

-स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।

तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां

निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ ६६ ॥

कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया

गिरीशेनोदस्तं मुहुरधरपानाकुलतया ।

करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते

कथङ्कारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥ ६७ ॥

भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती

तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् ।

स्वतः श्वेता कालागुरुबहुलजम्बालमलिना

मृणालीलालित्यं वहति यदधो हारलतिका ॥ ६८ ॥

गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे

विवाहव्यानद्धप्रगुणगुणसङ्ख्याप्रतिभुवः ।

विराजन्ते नानाविधमधुररागाकरभुवां

त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ ६९ ॥

मृणालीमृद्वीनां तव भुजलतानां चतसृणां

चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः ।

नखेभ्यः सन्त्रस्यन्प्रथममथनादन्धकरिपो-

-श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ ७० ॥

नखानामुद्योतैर्नवनलिनरागं विहसतां

कराणां ते कान्तिं कथय कथयामः कथमुमे ।

कयाचिद्वा साम्यं भजतु कलया हन्त कमलं

यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम् ॥ ७१ ॥

समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं

तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् ।

यदालोक्याशङ्काकुलितहृदयो हासजनकः

स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥ ७२ ॥

अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ

न सन्देहस्पन्दो नगपतिपताके मनसि नः ।

पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ

कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ ७३ ॥

वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः

समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।

कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां

प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ ७४ ॥

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः

पयःपारावारः परिवहति सारस्वतमिव ।

दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव य-

-त्कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ ७५ ॥

हरक्रोधज्वालावलिभिरवलीढेन वपुषा

गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।

समुत्तस्थौ तस्मादचलतनये धूमलतिका

जनस्तां जानीते तव जननि रोमावलिरिति ॥ ७६ ॥

यदेतत्कालिन्दीतनुतरतरङ्गाकृति शिवे

कृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियाम् ।

विमर्दादन्योन्यं कुचकलशयोरन्तरगतं

तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ ७७ ॥

स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता-

-कलावालं कुण्डं कुसुमशरतेजोहुतभुजः ।

रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते

बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥ ७८ ॥

निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो

नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव ।

चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा

समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ ७९ ॥

कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ

कषन्तौ दोर्मूले कनककलशाभौ कलयता ।

तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा

त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ ८० ॥

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-

-न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे ।

अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं

नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥ ८१ ॥

करीन्द्राणां शुण्डान्कनककदलीकाण्डपटली-

-मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती ।

सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते

विधिज्ञ्ये जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ ८२ ॥

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते

निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत ।

यदग्रे दृश्यन्ते दशशरफलाः पादयुगली-

-नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ ८३ ॥

श्रुतीनां मूर्धानो दधति तव यौ शेखरतया

ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।

ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी

ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ ८४ ॥

नमोवाकं ब्रूमो नयनरमणीयाय पदयो-

-स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते ।

असूयत्यत्यन्तं यदभिहननाय स्पृहयते

पशूनामीशानः प्रमदवनकङ्केलितरवे ॥ ८५ ॥

मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं

ललाटे भर्तारं चरणकमले ताडयति ते ।

चिरादन्तःशल्यं दहनकृतमुन्मूलितवता

तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥ ८६ ॥

हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ

निशायां निद्राणं निशि चरमभागे च विशदौ ।

वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां

सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥ ८७ ॥

पदं ते कीर्तीनां प्रपदमपदं देवि विपदां

कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् ।

कथं वा बाहुभ्यामुपयमनकाले पुरभिदा

यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ ८८ ॥

नखैर्नाकस्त्रीणां करकमलसङ्कोचशशिभि-

-स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ।

फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां

दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥ ८९ ॥

ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी-

-ममन्दं सौन्दर्यप्रकरमकरन्दं विकिरति ।

तवास्मिन्मन्दारस्तबकसुभगे यातु चरणे

निमज्जन्मज्जीवः करणचरणः षट्चरणताम् ॥ ९० ॥

पदन्यासक्रीडापरिचयमिवारब्धुमनसः

स्खलन्तस्ते खेलं भवनकलहंसा न जहति ।

अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित-

-च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ ९१ ॥

गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः

शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः ।

त्वदीयानां भासां प्रतिफलनरागारुणतया

शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ ९२ ॥

अराला केशेषु प्रकृतिसरला मन्दहसिते

शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।

भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये

जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा ॥ ९३ ॥

कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं

कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् ।

अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं

विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥ ९४ ॥

पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः

सपर्यामर्यादा तरलकरणानामसुलभा ।

तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां

तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ ९५ ॥

कलत्रं वैधात्रं कतिकति भजन्ते न कवयः

श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।

महादेवं हित्वा तव सति सतीनामचरमे

कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥ ९६ ॥

गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो

हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।

तुरीया कापि त्वं दुरधिगमनिःसीममहिमा

महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ ९७ ॥

कदा काले मातः कथय कलितालक्तकरसं

पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् ।

प्रकृत्या मूकानामपि च कविताकारणतया

कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥ ९८ ॥

सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते

रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा ।

चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः

परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥ ९९ ॥

प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः

सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना ।

स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं

त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥ १०० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ सौन्दर्यलहरी ।

saundaryalahari in hindi