Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती द्वादशनाम स्तोत्रम्

सरस्वतीमहं वन्दे वीणापुस्तकधारिणीम् ।

हंसवाहसमायुक्तां विद्यादानकरीं मम ॥ १ ॥

प्रथमं भारती नामा द्वितीयं च सरस्वती ।

तृतीयं शारदा देवी चतुर्थं हंसवाहनी ॥ २ ॥

पञ्चमं जगतीख्याता षष्ठं वागीश्वरी तथा ।

कौमारी सप्तमं प्रोक्तमष्टमं ब्रह्मचारिणी ॥ ३ ॥

नवमं बुद्धिधात्री च दशमं वरदायिनी ।

एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी ॥ ४ ॥

ब्राह्मी द्वादश नामानि त्रिसन्ध्यं यः पठेन्नरः ।

सर्वसिद्धिकरी तस्य प्रसन्ना परमेश्वरी ।

सा मे वसतु जिह्वाग्रे ब्रह्मरूपा सरस्वती ॥ ५ ॥

इति श्री सरस्वती द्वादशनाम स्तोत्रम् ॥

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri saraswathi dvadasanama stotram