Skip to main content
पडताळणी प्रलंबित

श्री षण्मुख पञ्चरत्न स्तुतिः

स्फुरद्विद्युद्वल्लीवलयितमगोत्सङ्गवसतिं

भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् ।

अवन्तं भक्तानामुदयकरमम्भोधर इति

प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ १ ॥

सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या

सिद्धं तस्मिन्देवसेनापतित्वम् ।

इत्थं शक्तिं देवसेनापतित्वं

सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ २ ॥

पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः ।

जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ ३ ॥

यः पक्षमनिर्वचनं याति समवलम्ब्य दृश्यते तेन ।

ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः ॥ ४ ॥

षण्मुखं हसन्मुखं सुखाम्बुराशिखेलनं

सन्मुनीन्द्रसेव्यमानपादपङ्कजं सदा ।

मन्मथादिशत्रुवर्गनाशकं कृपाम्बुधिं

मन्महे मुदा हृदि प्रपन्नकल्पभूरुहम् ॥ ५ ॥

इति जगद्गुरु शृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता श्रीषण्मुखपञ्चरत्नस्तुतिः ।

sri shanmukha pancharatna stuti