Skip to main content
पडताळणी प्रलंबित

श्री मूकाम्बिका स्तोत्रम्

मूलाम्भोरुहमध्यकोणविलसद्बन्धूकरागोज्ज्वलां

ज्वालाजालजितेन्दुकान्तिलहरीमानन्दसन्दायिनीं ।

एलाललितनीलकुन्तलधरां नीलोत्पलाभाम्शुकां

कोलूराद्रिनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १ ॥

बालादित्यनिभाननां त्रिनयनां बालेन्दुना भूषितां

नीलाकारसुकेशिनीं सुललितां नित्यान्नदानप्रियां ।

शङ्खं चक्र वराभयां च दधतीं सारस्वतार्थप्रदां

तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ २ ॥

मध्याह्नार्कसहस्रकोटिसदृशां मायान्धकारच्छिदां

मध्यान्तादिविवर्जितां मदकरीं मारेण संसेवितां ।

शूलम्पाशकपालपुस्तकधरां शुद्धार्थविज्ञानदां

तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ३ ॥

सन्ध्यारागसमाऽननां त्रिनयनां सन्मानसैः पूजितां

चक्राक्षाभय कम्पि शोभितकरां प्रालम्बवेणीयुतां ।

ईषत्फुल्लसुकेतकीदललसत्सभ्यार्चिताङ्घ्रिद्वयां

तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ४ ॥

चन्द्रादित्यसमानकुण्डलधरां चन्द्रार्ककोटिप्रभां

चन्द्रार्काग्निविलोचनां शशिमुखीमिन्द्रादिसंसेवितां ।

मन्त्राद्यन्तसुतन्त्रयागभजितां चिन्ताकुलध्वंसिनीं

मन्दारादिवनेस्थितां मणिमयीं ध्यायामि मूकाम्बिकाम् ॥ ५ ॥

कल्याणीं कमलेक्षणां वरनिधिं वन्दारुचिन्तामणिं

कल्य़ाणाचलसंस्थितां घनकृपां मायां महावैष्णवीं ।

कल्यां कम्बुसुदर्शनां भयहरां शम्भुप्रियां कामदां

कल्याणीं त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ६ ॥

कालाम्भोधरकुन्तलाञ्चितमुखां कर्पूरवीटीयुतां

कर्णालम्बितहेमकुण्डलधरां माणिक्यकाञ्चीधरां ।

कैवल्यैकपरायणां कलिमलप्रध्वंसिनीं कामदां

कल्याणीं त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ७ ॥

नानाकान्तिविचित्रवस्त्रसहितां नानाविधैर्भूषितां

नानापुष्पसुगन्धमाल्यसहितां नानाजनैस्सेवितां ।

नानावेदपुराणशास्त्रविनुतां नानाकवित्वप्रदां

नानारूपधरां महेशमहिषीं ध्यायामि मूकाम्बिकाम् ॥ ८ ॥

राकातारकनायकोज्ज्वलमुखीं श्रीकामकाम्यप्रदां

शोकारण्यधनञ्जयप्रतिनिभां कोपाटवीचन्द्रिकां ।

श्रीकान्तादिसुरार्चितां स्त्रियमिमां लोकावलीनाशिनीं

लोकानन्दकरीं नमामि शिरसा ध्यायामि मूकाम्बिकाम् ॥ ९ ॥

काञ्चीकिङ्किणिकङ्कणाङ्गदधरां मञ्जीरहारोज्ज्वलां

चञ्चत्काञ्चनसत्किरीटघटितां ग्रैवेयभूषोज्ज्वलां ।

किञ्चिन्त्काञ्चनकञ्चुके मणिमये पद्मासने संस्थितां

पञ्चास्याञ्चितचञ्चरीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १० ॥

सौवर्णाम्बुजमध्यकान्तिनयनां सौदामिनीसन्निभां

शङ्खं चक्रवराभयानि दधतीमिन्दोः कलां बिभ्रतीं ।

ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलादिस्तुतां

मायाविन्ध्यनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ ११ ॥

श्रीमन्नीपवने सुरैर्मुनिगणैरप्सरोभिश्च सेव्यां

मन्दारादि समस्तदेवतरुभिस्सम्शोभमानां शिवां ।

सौवर्णाम्बुजधारिणीं त्रिनयनां एकादिकामेश्वरीं

मूकाम्बां सकलेष्टसिद्धिफलदां वन्दे परां देवताम् ॥ १२ ॥

इति श्री मूकाम्बा स्तोत्रं ॥

sri mukambika stotram