Skip to main content
पडताळणी प्रलंबित

श्री शिवाष्टकम्

प्रभुं प्राणनाथं विभुं विश्वनाथं

जगन्नाथनाथं सदानन्दभाजम् ।

भवद्भव्यभूतेश्वरं भूतनाथं

शिवं शङ्करं शम्भुमीशानमीडे ॥ १ ॥

गले रुण्डमालं तनौ सर्पजालं

महाकालकालं गणेशाधिपालम् ।

जटाजूटगङ्गोत्तरङ्गैर्विशालं

शिवं शङ्करं शम्भुमीशानमीडे ॥ २ ॥

मुदामाकरं मण्डनं मण्डयन्तं

महामण्डलं भस्मभूषाधरं तम् ।

अनादिं ह्यपारं महामोहमारं

शिवं शङ्करं शम्भुमीशानमीडे ॥ ३ ॥

वटाधोनिवासं महाट्‍टाट्‍टहासं

महापापनाशं सदासुप्रकाशम् ।

गिरीशं गणेशं सुरेशं महेशं

शिवं शङ्करं शम्भुमीशानमीडे ॥ ४ ॥

गिरिन्द्रात्मजासङ्गृहीतार्धदेहं

गिरौ संस्थितं सर्वदाऽऽसन्नगेहम् ।

परब्रह्मब्रह्मादिभिर्वन्द्यमानं

शिवं शङ्करं शम्भुमीशानमीडे ॥ ५ ॥

कपालं त्रिशूलं कराभ्यां दधानं

पदाम्भोजनम्राय कामं ददानम् ।

बलीवर्दयानं सुराणां प्रधानं

शिवं शङ्करं शम्भुमीशानमीडे ॥ ६ ॥

शरच्चन्द्रगात्रं गणानन्दपात्रं

त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।

अपर्णाकलत्रं सदा सच्चरित्रं

शिवं शङ्करं शम्भुमीशानमीडे ॥ ७ ॥

हरं सर्पहारं चिताभूविहारं

भवं वेदसारं सदा निर्विकारम् ।

श्मशाने वसन्तं मनोजं दहन्तं

शिवं शङ्करं शम्भुमीशानमीडे ॥ ८ ॥

स्तवं यः प्रभाते नरः शूलपाणेः

पठेत् सर्वदा भर्गभावानुरक्तः ।

स पुत्रं धनं धान्यमित्रं कलत्रं

विचित्रैः समाराध्य मोक्षं प्रयाति ॥ ९ ॥

इति श्रीकृष्णजन्मखण्डे शिवाष्टक स्तोत्रम् ।

sivashtakam in hindi