Skip to main content
पडताळणी प्रलंबित

श्री दुर्गा स्तोत्रम् (युधिष्ठिर कृतम्)

विराटनगरं रम्यं गच्छमानो युधिष्ठिरः ।

अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ १ ॥

यशोदागर्भसम्भूतां नारायणवरप्रियाम् ।

नन्दगोपकुले जातां मङ्गल्यां कुलवर्धिनीम् ॥ २ ॥

कंसविद्रावणकरीमसुराणां क्षयङ्करीम् ।

शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ॥ ३ ॥

वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम् ।

दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् ॥ ४ ॥

भारावतरणे पुण्ये ये स्मरन्ति सदाशिवाम् ।

तान् वै तारयते पापात् पङ्के गामिव दुर्बलाम् ॥ ५ ॥

स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसम्भवैः ।

आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ ६ ॥

नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ।

बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ॥ ७ ॥

चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे ।

मयूरपिच्छवलये केयूराङ्गदधारिणि ॥ ८ ॥

भासि देवि यथा पद्मा नारायणपरिग्रहः ।

स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ ९ ॥

कृष्णच्छविसमा कृष्णा सङ्कर्षणसमानना ।

बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥ १० ॥

पात्री च पङ्कजी घण्टी स्त्रीविशुद्धा च या भुवि ।

पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ ११ ॥

कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ।

चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे ॥ १२ ॥

मुकुटेन विचित्रेण केशबन्धेन शोभिना ।

भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता ॥ १३ ॥

विभ्राजसे चाबद्धेन भोगेनेवेह मन्दरः ।

ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ॥ १४ ॥

कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया ।

तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ १५ ॥

त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि ।

प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ १६ ॥

जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा ।

ममापि विजयं देहि वरदा त्वं च साम्प्रतम् ॥ १७ ॥

विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम् ।

कालि कालि महाकालि शीधुमांसपशुप्रिये ॥ १८ ॥

कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी ।

भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥ १९ ॥

प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि ।

न तेषां दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा ॥ २० ॥

दुर्गात् तारयसे दुर्गे तत् त्वं दुर्गा स्मृता जनैः ।

कान्तारेष्ववसन्नानां मग्नानां च महार्णवे ।

दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ॥ २१ ॥

जलप्रतरणे चैव कान्तारेष्वटवीषु च ।

ये स्मरन्ति महादेवि न च सीदन्ति ते नराः ॥ २२ ॥

त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या सन्ततिर्मतिः ।

सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया ॥ २३ ॥

नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् ।

व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ २४ ॥

सोऽहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ।

प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ २५ ॥

त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः ।

शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ २६ ॥

एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ।

उपगम्य तु राजानामिदं वचनमब्रवीत् ॥ २७ ॥

देव्युवाच ।

शृणु राजन् महाबाहो मदीयं वचनं प्रभो ।

भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव ॥ २८ ॥

मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् ।

राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ २९ ॥

भात्रृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् ।

मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥ ३० ॥

ये च सङ्कीर्तयिष्यन्ति लोके विगतकल्मषाः ।

तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥ ३१ ॥

प्रवासे नगरे चापि सङ्ग्रामे शत्रुसङ्कटे ।

अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ ३२ ॥

ये स्मरिष्यन्ति मां राजन् यथाऽहं भवता स्मृता ।

न तेषां दुर्लभं किञ्चिदस्मिल्लोके भविष्यति ॥ ३३ ॥

इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा ।

तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः ॥ ३४ ॥

मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान् ।

न प्रज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः ॥ ३५ ॥

इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम् ।

रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥ ३६ ॥

इति श्रीमन्महाभारते विराटपर्वणि अष्टमोऽध्याये युधिष्ठिर कृत श्री दुर्गा स्तोत्रम् ।

sri durga stotram