Skip to main content
पडताळणी प्रलंबित

श्री षण्मुख स्तोत्रम्

नारदादिदेवयोगिबृन्दहृन्निकेतनं

बर्हिवर्यवाहमिन्दुशेखरेष्टनन्दनम् ।

भक्तलोकरोगदुःखपापसङ्घभञ्जनं

भावयामि सिन्धुतीरवासिनं षडाननम् ॥ १ ॥

तारकारीमिन्द्रमुख्यदेवबृन्दवन्दितं

चन्द्रचन्दनादि शीतलाङ्कमात्मभावितम् ।

यक्षसिद्धकिन्नरादिमुख्यदिव्यपूजितं

भावयामि सिन्धुतीरवासिनं षडाननम् ॥ २ ॥

चम्पकाब्जमालतीसुमादिमाल्यभूषितं

दिव्यषट्किरीटहारकुण्डलाद्यलङ्कृतम् ।

कुङ्कुमादियुक्तदिव्यगन्धपङ्कलेपितं

भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ३ ॥

आश्रिताखिलेष्टलोकरक्षणामराङ्घ्रिपं

शक्तिपाणिमच्युतेन्द्रपद्मसम्भवाधिपम् ।

शिष्टलोकचिन्तितार्थसिद्धिदानलोलुपं

भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ४ ॥

वीरबाहु पूर्वकोटिवीरसङ्घसौख्यदं

शूरपद्ममुख्यलक्षकोटिशूरमुक्तिदम् ।

इन्द्रपूर्वदेवसङ्घसिद्धनित्यसौख्यदं

भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ५ ॥

जम्बवैरिकामिनीमनोरथाभिपूरकं

कुम्भसम्भवाय सर्वधर्मसारदायकम् ।

तं भवाब्धिपोतमम्बिकेयमाशु सिद्धिदं

भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ६ ॥

पूर्णचन्द्रबिम्बकोटितुल्यवक्त्रपङ्कजं

वर्णनीयसच्चरित्रमिष्टसिद्धिदायकम् ।

स्वर्णवर्णगात्रमुग्रसिद्धलोकशिक्षकं

भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ७ ॥

पूर्वजन्मसञ्चिताघसङ्घभङ्गतत्परं

सर्वधर्मदानकर्मपूर्वपुण्यसिद्धिदम् ।

सर्वशत्रुसङ्घभङ्गदक्षमिन्द्रजापतिं

भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ८ ॥

इति श्रीमच्छङ्करभगवतः कृतौ तिरुचेन्दूर् श्री षण्मुख स्तोत्रम् ।

sri shanmukha stotram