Skip to main content
पडताळणी प्रलंबित

श्री कमला सहस्रनाम स्तोत्रम्

तामाह्वयामि सुभगां लक्ष्मीं त्रैलोक्यपूजिताम् ।

एह्येहि देवि पद्माक्षि पद्माकरकृतालये ॥ १ ॥

आगच्छागच्छ वरदे पश्य मां स्वेन चक्षुषा ।

आयाह्यायाहि धर्मार्थकाममोक्षमये शुभे ॥ २ ॥

एवं विधैः स्तुतिपदैः सत्यैः सत्यार्थसंस्तुता ।

कनीयसी महाभागा चन्द्रेण परमात्मना ॥ ३ ॥

निशाकरश्च सा देवी भ्रातरौ द्वौ पयोनिधेः ।

उत्पन्नमात्रौ तावास्तां शिवकेशवसंश्रितौ ॥ ४ ॥

सनत्कुमारस्तमृषिं समाभाष्य पुरातनम् ।

प्रोक्तवानितिहासं तु लक्ष्म्याः स्तोत्रमनुत्तमम् ॥ ५ ॥

अथेदृशान्महाघोराद्दारिद्र्यान्नरकात्कथम् ।

मुक्तिर्भवति लोकेऽस्मिन् दारिद्र्यं याति भस्मताम् ॥ ६ ॥

सनत्कुमार उवाच ।

पूर्वं कृतयुगे ब्रह्मा भगवान् सर्वलोककृत् ।

सृष्टिं नानाविधां कृत्वा पश्चाच्चिन्तामुपेयिवान् ॥ ७ ॥

किमाहाराः प्रजास्त्वेताः सम्भविष्यन्ति भूतले ।

तथैव चासां दारिद्र्यात्कथमुत्तरणं भवेत् ॥ ८ ॥

दारिद्र्यान्मरणं श्रेयस्त्विति सञ्चिन्त्य चेतसि ।

क्षीरोदस्योत्तरे कूले जगाम कमलोद्भवः ॥ ९ ॥

तत्र तीव्रं तपस्तप्त्वा कदाचित्परमेश्वरम् ।

ददर्श पुण्डरीकाक्षं वासुदेवं जगद्गुरुम् ॥ १० ॥

सर्वज्ञं सर्वशक्तीनां सर्वावासं सनातनम् ।

सर्वेश्वरं वासुदेवं विष्णुं लक्ष्मीपतिं प्रभुम् ॥ ११ ॥

सोमकोटिप्रतीकाशं क्षीरोदविमले जले ।

अनन्तभोगशयनं विश्रान्तं श्रीनिकेतनम् ॥ १२ ॥

कोटिसूर्यप्रतीकाशं महायोगेश्वरेश्वरम् ।

योगनिद्रारतं श्रीशं सर्वावासं सुरेश्वरम् ॥ १३ ॥

जगदुत्पत्तिसंहारस्थितिकारणकारणम् ।

लक्ष्म्यादिशक्तिकरणं जातमण्डलमण्डितम् ॥ १४ ॥

आयुधैर्देहवद्भिश्च चक्राद्यैः परिवारितम् ।

दुर्निरीक्ष्यं सुरैः सिद्धैर्महायोनिशतैरपि ॥ १५ ॥

आधारं सर्वशक्तीनां परं तेजः सुदुस्सहम् ।

प्रबुद्धं देवमीशानं दृष्ट्वा कमलसम्भवः ॥ १६ ॥

शिरस्यञ्जलिमाधाय स्तोत्रं पूर्वमुवाच ह ।

मनोवाञ्छितसिद्धिं त्वं पूरयस्व महेश्वर ॥ १७ ॥

जितं ते पुण्डरीक्ष नमस्ते विश्वभावन ।

नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥ १८ ॥

सर्वेश्वर जयानन्द सर्वावास परात्पर ।

प्रसीद मम भक्तस्य छिन्धि सन्देहजं तमः ॥ १९ ॥

एवं स्तुतः स भगवान् ब्रह्मणाऽव्यक्तजन्मना ।

प्रसादाभिमुखः प्राह हरिर्विश्रान्तलोचनः ॥ २० ॥

श्रीभगवानुवाच ।

हिरण्यगर्भ तुष्टोऽस्मि ब्रूहि यत्तेऽभिवाञ्छितम् ।

तद्वक्ष्यामि न सन्देहो भक्तोऽसि मम सुव्रत ॥ २१ ॥

केशवाद्वचनं श्रुत्वा करुणाविष्टचेतनः ।

प्रत्युवाच महाबुद्धिर्भगवन्तं जनार्दनम् ॥ २२ ॥

चतुर्विधं भवस्यास्य भूतसर्गस्य केशव ।

परित्राणाय मे ब्रूहि रहस्यं परमाद्भुतम् ॥ २३ ॥

दारिद्र्यशमनं धन्यं मनोज्ञं पावनं परम् ।

सर्वेश्वर महाबुद्धे स्वरूपं भैरवं महत् ॥ २४ ॥

श्रियः सर्वातिशायिन्यास्तथा ज्ञानं च शाश्वतम् ।

नामानि चैव मुख्यानि यानि गौणानि चाच्युत ॥ २५ ॥

त्वद्वक्त्रकमलोत्थानि श्रोतुमिच्छामि तत्त्वतः ।

इति तस्य वचः श्रुत्वा प्रतिवाक्यमुवाच सः ॥ २६ ॥

श्रीभगवानुवाच ।

महाविभूतिसम्युक्ता षाड्गुण्यवपुषः प्रभो ।

भगवद्वासुदेवस्य नित्यं चैषाऽनपायिनी ॥ २७ ॥

एकैव वर्ततेऽभिन्ना ज्योत्स्नेव हिमदीधितेः ।

सर्वशक्त्यात्मिका चैव विश्वं व्याप्य व्यवस्थिता ॥ २८ ॥

सर्वैश्वर्यगुणोपेता नित्यशुद्धस्वरूपिणी ।

प्राणशक्तिः परा ह्येषा सर्वेषां प्राणिनां भुवि ॥ २९ ॥

शक्तीनां चैव सर्वासां योनिभूता परा कला ।

अहं तस्याः परं नाम्नां सहस्रमिदमुत्तमम् ॥ ३० ॥

शृणुष्वावहितो भूत्वा परमैश्वर्यभूतिदम् ।

देव्याख्यास्मृतिमात्रेण दारिद्र्यं याति भस्मताम् ॥ ३१ ॥

अथ स्तोत्रम् ॥

ओं श्रीः पद्मा प्रकृतिः सत्त्वा शान्ता चिच्छक्तिरव्यया ।

केवला निष्कला शुद्धा व्यापिनी व्योमविग्रहा ॥ ३२ ॥

व्योमपद्मकृताधारा परा व्योमा मतोद्भवा ।

निर्व्योमा व्योममध्यस्था पञ्चव्योमपदाश्रिता ॥ ३३ ॥

अच्युता व्योमनिलया परमानन्दरूपिणी ।

नित्यशुद्धा नित्यतृप्ता निर्विकारा निरीक्षणा ॥ ३४ ॥

ज्ञानशक्तिः कर्तृशक्तिर्भोक्तृशक्तिः शिखावहा ।

स्नेहाभासा निरानन्दा विभूतिर्विमला चला ॥ ३५ ॥

अनन्ता वैष्णवी व्यक्ता विश्वानन्दा विकाशिनी ।

शक्तिर्विभिन्नसर्वार्तिः समुद्रपरितोषिणी ॥ ३६ ॥

मूर्तिः सनातनी हार्दी निस्तरङ्गा निरामया ।

ज्ञानज्ञेया ज्ञानगम्या ज्ञानज्ञेयविकासिनी ॥ ३७ ॥

स्वच्छन्दशक्तिर्गहना निष्कम्पार्चिः सुनिर्मला ।

स्वरूपा सर्वगाऽपारा बृंहिणी सुगुणोर्जिता ॥ ३८ ॥

अकलङ्का निराधारा निस्सङ्कल्पा निराश्रया ।

असङ्कीर्णा सुशान्ता च शाश्वती भासुरी स्थिरा ॥ ३९ ॥

अनौपम्या निर्विकल्पा निर्यन्त्रा यन्त्रवाहिनी ।

अभेद्या भेदिनी भिन्ना भारती वैखरी खगा ॥ ४० ॥

अग्राह्या ग्राहिका गूढा गम्भीरा विश्वगोपिनी ।

अनिर्देश्याऽप्रतिहता निर्बीजा पावनी परा ॥ ४१ ॥

अप्रतर्क्याऽपरिमिता भवभ्रान्तिविनाशिनी ।

एका द्विरूपा त्रिविधा असङ्ख्याता सुरेश्वरी ॥ ४२ ॥

सुप्रतिष्ठा महाधात्री स्थितिर्वृद्धिर्ध्रुवा गतिः ।

ईश्वरी महिमा ऋद्धिः प्रमोदा उज्ज्वलोद्यमा ॥ ४३ ॥

अक्षया वर्धमाना च सुप्रकाशा विहङ्गमा ।

नीरजा जननी नित्या जया रोचिष्मती शुभा ॥ ४४ ॥

तपोनुदा च ज्वाला च सुदीप्तिश्चांशुमालिनी ।

अप्रमेया त्रिधा सूक्ष्मा परा निर्वाणदायिनी ॥ ४५ ॥

अवदाता सुशुद्धा च अमोघाख्या परम्परा ।

सन्धानकी शुद्धविद्या सर्वभूतमहेश्वरी ॥ ४६ ॥

लक्ष्मीस्तुष्टिर्महाधीरा शान्तिरापूरणेनवा ।

अनुग्रहाशक्तिराद्या जगज्ज्येष्ठा जगद्विधिः ॥ ४७ ॥

सत्या प्रह्वा क्रियायोग्या ह्यपर्णा ह्लादिनी शिवा ।

सम्पूर्णाह्लादिनी शुद्धा ज्योतिष्मत्यमतावहा ॥ ४८ ॥

रजोवत्यर्कप्रतिभाऽऽकर्षिणी कर्षिणी रसा ।

परा वसुमती देवी कान्तिः शान्तिर्मतिः कला ॥ ४९ ॥

कला कलङ्करहिता विशालोद्दीपनी रतिः ।

सम्बोधिनी हारिणी च प्रभावा भवभूतिदा ॥ ५० ॥

अमृतस्यन्दिनी जीवा जननी खण्डिका स्थिरा ।

धूमा कलावती पूर्णा भासुरा सुमती रसा ॥ ५१ ॥

शुद्धा ध्वनिः सृतिः सृष्टिर्विकृतिः कृष्टिरेव च ।

प्रापणी प्राणदा प्रह्वा विश्वा पाण्डुरवासिनी ॥ ५२ ॥

अवनिर्वज्रनलिका चित्रा ब्रह्माण्डवासिनी ।

अनन्तरूपाऽनन्तात्माऽनन्तस्थाऽनन्तसम्भवा ॥ ५३ ॥

महाशक्तिः प्राणशक्तिः प्राणदात्री रतिम्भरा ।

महासमूहा निखिला इच्छाधारा सुखावहा ॥ ५४ ॥

प्रत्यक्षलक्ष्मीर्निष्कम्पा प्ररोहा बुद्धिगोचरा ।

नानादेहा महावर्ता बहुदेहविकासिनी ॥ ५५ ॥

सहस्राणी प्रधाना च न्यायवस्तुप्रकाशिका ।

सर्वाभिलाषपूर्णेच्छा सर्वा सर्वार्थभाषिणी ॥ ५६ ॥

नानास्वरूपचिद्धात्री शब्दपूर्वा पुरातना ।

व्यक्ताऽव्यक्ता जीवकेशा सर्वेच्छापरिपूरिता ॥ ५७ ॥

सङ्कल्पसिद्धा साङ्ख्येया तत्त्वगर्भा धरावहा ।

भूतरूपा चित्स्वरूपा त्रिगुणा गुणगर्विता ॥ ५८ ॥

प्रजापतीश्वरी रौद्री सर्वाधारा सुखावहा ।

कल्याणवाहिका कल्या कलिकल्मषनाशिनी ॥ ५९ ॥

नीरूपोद्भिन्नसन्ताना सुयन्त्रा त्रिगुणालया ।

महामाया योगमाया महायोगेश्वरी प्रिया ॥ ६० ॥

महास्त्री विमला कीर्तिर्जया लक्ष्मीर्निरञ्जना ।

प्रकृतिर्भगवन्मायाशक्तिर्निद्रा यशस्करी ॥ ६१ ॥

चिन्ता बुद्धिर्यशः प्रज्ञा शान्तिराप्रीतिवर्धिनी ।

प्रद्युम्नमाता साध्वी च सुखसौभाग्यसिद्धिदा ॥ ६२ ॥

काष्ठा निष्ठा प्रतिष्ठा च ज्येष्ठा श्रेष्ठा जयावहा ।

सर्वातिशायिनी प्रीतिर्विश्वशक्तिर्महाबला ॥ ६३ ॥

वरिष्ठा विजया वीरा जयन्ती विजयप्रदा ।

हृद्गृहा गोपिनी गुह्या गणगन्धर्वसेविता ॥ ६४ ॥

योगीश्वरी योगमाया योगिनी योगसिद्धिदा ।

महायोगेश्वरवृता योगा योगेश्वरप्रिया ॥ ६५ ॥

ब्रह्मेन्द्ररुद्रनमिता सुरासुरवरप्रदा ।

त्रिवर्त्मगा त्रिलोकस्था त्रिविक्रमपदोद्भवा ॥ ६६ ॥

सुतारा तारिणी तारा दुर्गा सन्तारिणी परा ।

सुतारिणी तारयन्ती भूरितारेश्वरप्रभा ॥ ६७ ॥

गुह्यविद्या यज्ञविद्या महाविद्या सुशोभिता ।

अध्यात्मविद्या विघ्नेशी पद्मस्था परमेष्ठिनी ॥ ६८ ॥

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिर्नयात्मिका ।

गौरी वागीश्वरी गोप्त्री गायत्री कमलोद्भवा ॥ ६९ ॥

विश्वम्भरा विश्वरूपा विश्वमाता वसुप्रदा ।

सिद्धिः स्वाहा स्वधा स्वस्तिः सुधा सर्वार्थसाधिनी ॥ ७० ॥

इच्छा सृष्टिर्द्युतिर्भूतिः कीर्तिः श्रद्धा दया मतिः ।

श्रुतिर्मेधा धृतिर्ह्रीः श्रीर्विद्या विबुधवन्दिता ॥ ७१ ॥

अनसूया घृणा नीतिर्निर्वृतिः कामधुक्करा ।

प्रतिज्ञा सन्ततिर्भूतिर्द्यौः प्रज्ञा विश्वमानिनी ॥ ७२ ॥

स्मृतिर्वाग्विश्वजननी पश्यन्ती मध्यमा समा ।

सन्ध्या मेधा प्रभा भीमा सर्वाकारा सरस्वती ॥ ७३ ॥

काङ्क्षा माया महामाया मोहिनी माधवप्रिया ।

सौम्याभोगा महाभोगा भोगिनी भोगदायिनी ॥ ७४ ॥

सुधौतकनकप्रख्या सुवर्णकमलासना ।

हिरण्यगर्भा सुश्रोणी हारिणी रमणी रमा ॥ ७५ ॥

चन्द्रा हिरण्मयी ज्योत्स्ना रम्या शोभा शुभावहा ।

त्रैलोक्यमण्डना नारीनरेश्वरवरार्चिता ॥ ७६ ॥

त्रैलोक्यसुन्दरी रामा महाविभववाहिनी ।

पद्मस्था पद्मनिलया पद्ममालाविभूषिता ॥ ७७ ॥

पद्मयुग्मधरा कान्ता दिव्याभरणभूषिता ।

विचित्ररत्नमुकुटा विचित्राम्बरभूषणा ॥ ७८ ॥

विचित्रमाल्यगन्धाढ्या विचित्रायुधवाहना ।

महानारायणी देवी वैष्णवी वीरवन्दिता ॥ ७९ ॥

कालसङ्कर्षिणी घोरा तत्त्वसङ्कर्षिणी कला ।

जगत्सम्पूरणी विश्वा महाविभवभूषणा ॥ ८० ॥

वारुणी वरदा व्याख्या घण्टाकर्णविराजिता ।

नृसिंही भैरवी ब्राह्मी भास्करी व्योमचारिणी ॥ ८१ ॥

ऐन्द्री कामधनुः सृष्टिः कामयोनिर्महाप्रभा ।

दृष्टा काम्या विश्वशक्तिर्बीजगत्यात्मदर्शना ॥ ८२ ॥

गरुडारूढहृदया चान्द्री श्रीर्मधुरानना ।

महोग्ररूपा वाराही नारसिंही हतासुरा ॥ ८३ ॥

युगान्तहुतभुग्ज्वाला कराला पिङ्गला कला ।

त्रैलोक्यभूषणा भीमा श्यामा त्रैलोक्यमोहिनी ॥ ८४ ॥

महोत्कटा महारक्ता महाचण्डा महासना ।

शङ्खिनी लेखिनी स्वस्था लिखिता खेचरेश्वरी ॥ ८५ ॥

भद्रकाली चैकवीरा कौमारी भगमालिनी ।

कल्याणी कामधुग्ज्वालामुखी चोत्पलमालिका ॥ ८६ ॥

बालिका धनदा सूर्या हृदयोत्पलमालिका ।

अजिता वर्षिणी रीतिर्भेरुण्डा गरुडासना ॥ ८७ ॥

वैश्वानरी महामाया महाकाली विभीषणा ।

महामन्दारविभवा शिवानन्दा रतिप्रिया ॥ ८८ ॥

उद्रीतिः पद्ममाला च धर्मवेगा विभावनी ।

सत्क्रिया देवसेना च हिरण्यरजताश्रया ॥ ८९ ॥

सहसावर्तमाना च हस्तिनादप्रबोधिनी ।

हिरण्यपद्मवर्णा च हरिभद्रा सुदुर्धरा ॥ ९० ॥

सूर्या हिरण्यप्रकटसदृशी हेममालिनी ।

पद्मानना नित्यपुष्टा देवमाताऽमृतोद्भवा ॥ ९१ ॥

महाधना च या शृङ्गी कर्दमी कम्बुकन्धरा ।

आदित्यवर्णा चन्द्राभा गन्धद्वारा दुरासदा ॥ ९२ ॥

वरार्चिता वरारोहा वरेण्या विष्णुवल्लभा ।

कल्याणी वरदा वामा वामेशी विन्ध्यवासिनी ॥ ९३ ॥

योगनिद्रा योगरता देवकीकामरूपिणी ।

कंसविद्राविणी दुर्गा कौमारी कौशिकी क्षमा ॥ ९४ ॥

कात्यायनी कालरात्रिर्निशितृप्ता सुदुर्जया ।

विरूपाक्षी विशालाक्षी भक्तानां परिरक्षिणी ॥ ९५ ॥

बहुरूपा स्वरूपा च विरूपा रूपवर्जिता ।

घण्टानिनादबहुला जीमूतध्वनिनिस्स्वना ॥ ९६ ॥

महादेवेन्द्रमथिनी भ्रुकुटीकुटिलानना ।

सत्योपयाचिता चैका कौबेरी ब्रह्मचारिणी ॥ ९७ ॥

आर्या यशोदासुतदा धर्मकामार्थमोक्षदा ।

दारिद्र्यदुःखशमनी घोरदुर्गार्तिनाशिनी ॥ ९८ ॥

भक्तार्तिशमनी भव्या भवभर्गापहारिणी ।

क्षीराब्धितनया पद्मा कमला धरणीधरा ॥ ९९ ॥

रुक्मिणी रोहिणी सीता सत्यभामा यशस्विनी ।

प्रज्ञाधाराऽमितप्रज्ञा वेदमाता यशोवती ॥ १०० ॥

समाधिर्भावना मैत्री करुणा भक्तवत्सला ।

अन्तर्वेदी दक्षिणा च ब्रह्मचर्यपरागतिः ॥ १०१ ॥

दीक्षा वीक्षा परीक्षा च समीक्षा वीरवत्सला ।

अम्बिका सुरभिः सिद्धा सिद्धविद्याधरार्चिता ॥ १०२ ॥

सुदीप्ता लेलिहाना च कराला विश्वपूरका ।

विश्वसंहारिणी दीप्तिस्तापनी ताण्डवप्रिया ॥ १०३ ॥

उद्भवा विरजा राज्ञी तापनी बिन्दुमालिनी ।

क्षीरधारासुप्रभावा लोकमाता सुवर्चसा ॥ १०४ ॥

हव्यगर्भा चाज्यगर्भा जुह्वतो यज्ञसम्भवा ।

आप्यायनी पावनी च दहनी दहनाश्रया ॥ १०५ ॥

मातृका माधवी मुच्या मोक्षलक्ष्मीर्महर्धिदा ।

सर्वकामप्रदा भद्रा सुभद्रा सर्वमङ्गला ॥ १०६ ॥

श्वेता सुशुक्लवसना शुक्लमाल्यानुलेपना ।

हंसा हीनकरी हंसी हृद्या हृत्कमलालया ॥ १०७ ॥

सितातपत्रा सुश्रोणी पद्मपत्रायतेक्षणा ।

सावित्री सत्यसङ्कल्पा कामदा कामकामिनी ॥ १०८ ॥

दर्शनीया दृशा दृश्या स्पृश्या सेव्या वराङ्गना ।

भोगप्रिया भोगवती भोगीन्द्रशयनासना ॥ १०९ ॥

आर्द्रा पुष्करिणी पुण्या पावनी पापसूदनी ।

श्रीमती च शुभाकारा परमैश्वर्यभूतिदा ॥ ११० ॥

अचिन्त्यानन्तविभवा भवभावविभावनी ।

निश्रेणिः सर्वदेहस्था सर्वभूतनमस्कृता ॥ १११ ॥

बला बलाधिका देवी गौतमी गोकुलालया ।

तोषिणी पूर्णचन्द्राभा एकानन्दा शतानना ॥ ११२ ॥

उद्याननगरद्वारहर्म्योपवनवासिनी ।

कूष्माण्डी दारुणा चण्डा किराती नन्दनालया ॥ ११३ ॥

कालायना कालगम्या भयदा भयनाशिनी ।

सौदामिनी मेघरवा दैत्यदानवमर्दिनी ॥ ११४ ॥

जगन्माताऽभयकरी भूतधात्री सुदुर्लभा ।

काश्यपी शुभदाना च वनमाला शुभा वरा ॥ ११५ ॥

धन्या धन्येश्वरी धन्या रत्नदा वसुवर्धिनी ।

गान्धर्वी रेवती गङ्गा शकुनी विमलानना ॥ ११६ ॥

इडा शान्तिकरी चैव तामसी कमलालया ।

आज्यपा वज्रकौमारी सोमपा कुसुमाश्रया ॥ ११७ ॥

जगत्प्रिया च सरथा दुर्जया खगवाहना ।

मनोभवा कामचारा सिद्धचारणसेविता ॥ ११८ ॥

व्योमलक्ष्मीर्महालक्ष्मीस्तेजोलक्ष्मीः सुजाज्वला ।

रसलक्ष्मीर्जगद्योनिर्गन्धलक्ष्मीर्वनाश्रया ॥ ११९ ॥

श्रवणा श्रावणी नेत्री रसनाप्राणचारिणी ।

विरिञ्चिमाता विभवा वरवारिजवाहना ॥ १२० ॥

वीर्या वीरेश्वरी वन्द्या विशोका वसुवर्धिनी ।

अनाहता कुण्डलिनी नलिनी वनवासिनी ॥ १२१ ॥

गान्धारिणीन्द्रनमिता सुरेन्द्रनमिता सती ।

सर्वमङ्गल्यमाङ्गल्या सर्वकामसमृद्धिदा ॥ १२२ ॥

सर्वानन्दा महानन्दा सत्कीर्तिः सिद्धसेविता ।

सिनीवाली कुहू राका अमा चानुमतिर्द्युतिः ॥ १२३ ॥

अरुन्धती वसुमती भार्गवी वास्तुदेवता ।

मयूरी वज्रवेताली वज्रहस्ता वरानना ॥ १२४ ॥

अनघा धरणिर्धीरा धमनी मणिभूषणा ।

राजश्रीरूपसहिता ब्रह्मश्रीर्ब्रह्मवन्दिता ॥ १२५ ॥

जयश्रीर्जयदा ज्ञेया सर्गश्रीः स्वर्गतिः सताम् ।

सुपुष्पा पुष्पनिलया फलश्रीर्निष्कलप्रिया ॥ १२६ ॥

धनुर्लक्ष्मीस्त्वमिलिता परक्रोधनिवारिणी ।

कद्रूर्धनायुः कपिला सुरसा सुरमोहिनी ॥ १२७ ॥

महाश्वेता महानीला महामूर्तिर्विषापहा ।

सुप्रभा ज्वालिनी दीप्तिस्तृप्तिर्व्याप्तिः प्रभाकरी ॥ १२८ ॥

तेजोवती पद्मबोधा मदलेखारुणावती ।

रत्ना रत्नावलीभूता शतधामा शतापहा ॥ १२९ ॥

त्रिगुणा घोषिणी रक्ष्या नर्दिनी घोषवर्जिता ।

साध्याऽदितिर्दितिर्देवी मृगवाहा मृगाङ्कगा ॥ १३० ॥

चित्रनीलोत्पलगता वृषरत्नकराश्रया ।

हिरण्यरजतद्वन्द्वा शङ्खभद्रासनस्थिता ॥ १३१ ॥

गोमूत्रगोमयक्षीरदधिसर्पिर्जलाश्रया ।

मरीचिश्चीरवसना पूर्णचन्द्रार्कविष्टरा ॥ १३२ ॥

सुसूक्ष्मा निर्वृतिः स्थूला निवृत्तारातिरेव च ।

मरीचिज्वालिनी धूम्रा हव्यवाहा हिरण्यदा ॥ १३३ ॥

दायिनी कालिनी सिद्धिः शोषिणी सम्प्रबोधिनी ।

भास्वरा संहतिस्तीक्ष्णा प्रचण्डज्वलनोज्ज्वला ॥ १३४ ॥

साङ्गा प्रचण्डा दीप्ता च वैद्युतिः सुमहाद्युतिः ।

कपिला नीलरक्ता च सुषुम्ना विस्फुलिङ्गिनी ॥ १३५ ॥

अर्चिष्मती रिपुहरा दीर्घा धूमावली जरा ।

सम्पूर्णमण्डला पूषा स्रंसिनी सुमनोहरा ॥ १३६ ॥

जया पुष्टिकरी छाया मानसा हृदयोज्ज्वला ।

सुवर्णकरणी श्रेष्ठा मृतसञ्जीवनी रणे ॥ १३७ ॥

विशल्यकरणी शुभ्रा सन्धिनी परमौषधिः ।

ब्रह्मिष्ठा ब्रह्मसहिता ऐन्दवी रत्नसम्भवा ॥ १३८ ॥

विद्युत्प्रभा बिन्दुमती त्रिस्वभावगुणाम्बिका ।

नित्योदिता नित्यदृष्टा नित्यकामकरीषिणी ॥ १३९ ॥

पद्माङ्का वज्रचिह्ना च वक्रदण्डविभासिनी ।

विदेहपूजिता कन्या माया विजयवाहिनी ॥ १४० ॥

मानिनी मङ्गला मान्या मानिनी मानदायिनी ।

विश्वेश्वरी गणवती मण्डला मण्डलेश्वरी ॥ १४१ ॥

हरिप्रिया भौमसुता मनोज्ञा मतिदायिनी ।

प्रत्यङ्गिरा सोमगुप्ता मनोऽभिज्ञा वदन्मतिः ॥ १४२ ॥

यशोधरा रत्नमाला कृष्णा त्रैलोक्यबन्धिनी ।

अमृता धारिणी हर्षा विनता वल्लकी शची ॥ १४३ ॥

सङ्कल्पा भामिनी मिश्रा कादम्बर्यमृता प्रभा ।

आगता निर्गता वज्रा सुहिता सहिताऽक्षता ॥ १४४ ॥

सर्वार्थसाधनकरी धातुर्धारणिकाऽमला ।

करुणाधारसम्भूता कमलाक्षी शशिप्रिया ॥ १४५ ॥

सौम्यरूपा महादीप्ता महाज्वाला विकासिनी ।

माला काञ्चनमाला च सद्वज्रा कनकप्रभा ॥ १४६ ॥

प्रक्रिया परमा योक्त्री क्षोभिका च सुखोदया ।

विजृम्भणा च वज्राख्या शृङ्खला कमलेक्षणा ॥ १४७ ॥

जयङ्करी मधुमती हरिता शशिनी शिवा ।

मूलप्रकृतिरीशानी योगमाता मनोजवा ॥ १४८ ॥

धर्मोदया भानुमती सर्वाभासा सुखावहा ।

धुरन्धरा च बाला च धर्मसेव्या तथागता ॥ १४९ ॥

सुकुमारा सौम्यमुखी सौम्यसम्बोधनोत्तमा ।

सुमुखी सर्वतोभद्रा गुह्यशक्तिर्गुहालया ॥ १५० ॥

हलायुधा च कावीरा सर्वशास्त्रसुधारिणी ।

व्योमशक्तिर्महादेहा व्योमगा मधुमन्मयी ॥ १५१ ॥

गङ्गा वितस्ता यमुना चन्द्रभागा सरस्वती ।

तिलोत्तमोर्वशी रम्भा स्वामिनी सुरसुन्दरी ॥ १५२ ॥

बाणप्रहरणा बाला बिम्बोष्ठी चारुहासिनी ।

ककुद्मिनी चारुपृष्ठा दृष्टादृष्टफलप्रदा ॥ १५३ ॥

काम्यचारी च काम्या च कामाचारविहारिणी ।

हिमशैलेन्द्रसङ्काशा गजेन्द्रवरवाहना ॥ १५४ ॥

अशेषसुखसौभाग्यसम्पदां योनिरुत्तमा ।

सर्वोत्कृष्टा सर्वमयी सर्वा सर्वेश्वरप्रिया ॥ १५५ ॥

सर्वाङ्गयोनिः साऽव्यक्ता सम्प्रधानेश्वरेश्वरी ।

विष्णुवक्षःस्थलगता किमतः परमुच्यते ॥ १५६ ॥

परा निर्महिमा देवी हरिवक्षःस्थलाश्रया ।

सा देवी पापहन्त्री च सान्निध्यं कुरुतान्मम ॥ १५७ ॥

इति नाम्नां सहस्रं तु लक्ष्म्याः प्रोक्तं शुभावहम् ।

परावरेण भेदेन मुख्यगौणेन भागतः ॥ १५८ ॥

यश्चैतत्कीर्तयेन्नित्यं शृणुयाद्वापि पद्मज ।

शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः ॥ १५९ ॥

श्रीनिवासं समभ्यर्च्य पुष्पधूपानुलेपनैः ।

भोगैश्च मधुपर्काद्यैर्यथाशक्ति जगद्गुरुम् ॥ १६० ॥

तत्पार्श्वस्थां श्रियं देवीं सम्पूज्य श्रीधरप्रियाम् ।

ततो नामसहस्रेण तोषयेत्परमेश्वरीम् ॥ १६१ ॥

नामरत्नावलीस्तोत्रमिदं यः सततं पठेत् ।

प्रसादाभिमुखी लक्ष्मीः सर्वं तस्मै प्रयच्छति ॥ १६२ ॥

यस्या लक्ष्म्याश्च सम्भूताः शक्तयो विश्वगाः सदा ।

कारणत्वं न तिष्ठन्ति जगत्यस्मिंश्चराचरे ॥ १६३ ॥

तस्मात्प्रीता जगन्माता श्रीर्यस्याच्युतवल्लभा ।

सुप्रीताः शक्तयस्तस्य सिद्धिमिष्टां दिशन्ति हि ॥ १६४ ॥

एक एव जगत्स्वामी शक्तिमानच्युतः प्रभुः ।

तदंशशक्तिमन्तोऽन्ये ब्रह्मेशानादयो यथा ॥ १६८ ॥

तथैवैका परा शक्तिः श्रीस्तस्य करुणाश्रया ।

ज्ञानादिषाड्गुण्यमयी या प्रोक्ता प्रकृतिः परा ॥ १६६ ॥

एकैकशक्तिः श्रीस्तस्या द्वितीयात्मनि वर्तते ।

परा परेशी सर्वेशी सर्वाकारा सनातनी ॥ १६७ ॥

अनन्तनामधेया च शक्तिचक्रस्य नायिका ।

जगच्चराचरमिदं सर्वं व्याप्य व्यवस्थिता ॥ १६८ ॥

तस्मादेकैव परमा श्रीर्ज्ञेया विश्वरूपिणी ।

सौम्या सौम्येन रूपेण संस्थिता नटजीववत् ॥ १६९ ॥

यो यो जगति पुम्भावः स विष्णुरिति निश्चयः ।

या या तु नारीभावस्था तत्र लक्ष्मीर्व्यवस्थिता ॥ १७० ॥

प्रकृतेः पुरुषाच्चान्यस्तृतीयो नैव विद्यते ।

अथ किं बहुनोक्तेन नरनारीमयो हरिः ॥ १७१ ॥

अनेकभेदभिन्नस्तु क्रियते परमेश्वरः ।

महाविभूतिं दयितां ये स्तुवन्त्यच्युतप्रियाम् ॥ १७२ ॥

ते प्राप्नुवन्ति परमां लक्ष्मीं संशुद्धचेतसः ।

पद्मयोनिरिदं प्राप्य पठन् स्तोत्रमिदं क्रमात् ॥ १७३ ॥

दिव्यमष्टगुणैश्वर्यं तत्प्रसादाच्च लब्धवान् ।

सकामानां च फलदामकामानां च मोक्षदाम् ॥ १७४ ॥

पुस्तकाख्यां भयत्रात्रीं सितवस्त्रां त्रिलोचनाम् ।

महापद्मनिषण्णां तां लक्ष्मीमजरतां नमः ॥ १७५ ॥

करयुगलगृहीतं पूर्णकुम्भं दधाना

क्वचिदमलगतस्था शङ्खपद्माक्षपाणिः ।

क्वचिदपि दयिताङ्गे चामरव्यग्रहस्ता

क्वचिदपि सृणिपाशं बिभ्रती हेमकान्तिः ॥ १७६ ॥

इति पद्मपुराणे काश्मीरवर्णने हिरण्यगर्भहृदये सर्वकामप्रदायकं पुरुषोत्तमप्रोक्तं श्री लक्ष्मी सहस्रनाम स्तोत्रम् ॥

sri kamala sahasranama stotram